ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 56, कुल 518 में से
संदर्भ में पढ़ें३६ ताण्ड्यमहाब्राह्मणे
द्राह्मायणः-‘अश्वरथं चेद्दद्यात् पूर्वेणाग्नीध्रीयमवस्थाप्य पुर-
स्ताज्जपं जपित्वा दर्भमुष्टिनाश्वमुखानि सम्मृज्य द्वाभ्यां द्वाभ्याम-
श्वनामभ्यामेकैकस्याश्वोसीत्येतत्प्रभृतिभिरुदक्सँस्थमिति’ । पुर-
स्ताज्जपो देवस्यत्वेत्यादिस्तं जपित्वा प्रतिग्रहीता रथसम्बन्धिन-
श्चतुरोऽश्वान् चतुर्भिर्नामयुग्मैर्दक्षिणमश्वमारभ्य उदगपवर्गं मुखेषु
सम्मृज्यात् । पाठस्तु--
अ॒श्वो॑स्य॒त्यो॑सि मयो॑सि हयो॑सि वा॒ज्य॑सि स॒प्ति-
रर्व्वा॑गसि वृषा॑सि ॥ १ ॥
एतान्यष्टावश्वनामानि तेषांनिर्वचनं प्रदर्श्यते-अश्नोतेर्व्याप्तिकर्म्म-
णोऽश्वः हे अश्व त्वं शीघ्रं व्यापनशीलोऽसि, ‘अत्यः’ सततगाम्यसि, अत
सातत्यगमन इति धातुः, मयतिः शब्दकर्म्मा हेषाशब्दकार्यासि, हयो
गन्तासि हिगताविति धातुः, ‘वाजी’ वेगवान् तादृशस्त्वमसि, ‘सप्तिः’
सर्पणशीलः ‘अर्वाङ्’ गमनशीलस्तादृशोऽसि,ऋगताविति धातुः, अन्येभ्यो
ऽपि दृश्यन्त इति वनिप्,-‘वृषा’ वर्षणकारी सेचनसमर्थोसि ॥ १ ॥
अत्र सूत्रम्-‘आदित्यानामिति रथशिर आलभ्य जपेदिति आल-
म्भ उपस्पर्शः । पाठस्तु--
आ॒दि॒त्यानां॒ पत्मा॒न्विहि॒ नम॑स्तेस्तु मा मा॑ हिꣳसीः ॥२॥
एत्वान्विहीति शाखान्तरे पाठः । हेरथ ‘आदित्यानां’द्वादशसं-
ख्यानां प्रतिमासं दिवि सञ्चरतामरुणसूर्यादीनां यत् ‘पत्म्’पदं सङ्गमन-
मस्ति तत् ‘अन्विहि’ अनुगच्छ अप्रतिहतगतिर्भवेत्यर्थः, स्पष्टमन्यत्॥२॥
द्राह्मायणः-‘यद्रथ्याँस्याद्वायोरिति चर्मण्यं प्रतिगृह्णीयान्नक्षत्रा-
णामित्यस्थिमयँसूर्य्यस्येत्ययो लोहे हिरण्यञ्चेति’ तत्र च यद्रथ्यं रथं
चर्मलोहहिरण्यादिनिर्मितं स्थानं तत्र वायोरिति चर्मविकारं प्रतिगृ-
ह्णीयादस्थिमयं गजदन्तादिनिर्मितम्, अयो लोहे हिरण्यञ्चेति आयसं
ताम्रं सौवर्णञ्चेत्यर्थः । पाठस्तु--
वा॒योष्ट्वा॒ तेज॑सा प्रति॑गृह्णामि॒ नक्ष॑त्राणां त्वा॑ रू॒-
पेण॒ प्रति॑गृह्णामि॒ सूर्य्य॑स्य त्वा॒ वर्च॑सा प्रति॑गृह्णामि ॥३॥
चर्मगतदौर्गन्ध्यापनयनक्षमं वायोर्यदसाधारणं तेजः तेन चर्मण्यं
त्वां प्रतिगृह्णामि । अस्थिमयस्य धवलत्वेन नक्षत्राणां रूपेणेत्युक्तमयोम-
यादीनां तैजसत्वात् सूर्य्यस्य वर्चसेत्युक्तम् । स्पष्टमन्यत् ॥ ३ ॥
द्राह्मायणः-‘दक्षिणेन रथं गत्वा रथन्तरमसीति’ दक्षिणञ्चक्रमाल-