सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 61, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 61

प्रथमाध्याये अष्टमखण्डः । ४१
र्भितं वल्कलादिजं स्यात्तत्रायं मन्त्रो न प्रयोज्यः । तत्र सूत्रम्-'तदुदस्ये-
दतान्तव' इति । पाठस्तु--
ग्रास्त्वाऽकृन्तन्नपसोऽतन्वत वयित्र्योऽवयन् ॥ ९ ॥
गच्छन्ति पुमांस एनामिति ग्रास्त्रियः, हे वस्त्र ! 'त्वा'त्वां 'अकृन्तन्'
निष्पादनानन्तरं कर्तनेन छेदनेन सम्पादितवन्तः 'अपसो'ऽपः कर्म
तद्वन्तो वा तन्तुग्रथनकुशलाः पुरुषा 'अतन्वत' तन्तवः पटस्य दीर्घा-
णि सूत्राणि तान्यकुर्वन्नित्यर्थः । ता 'वयित्र्यः' वेञ् तन्तुसन्ताने वय-
नकर्त्र्यो योषितो 'अवयन्' तिरश्चीनानि सूत्राणि समयोजयन् ॥ ९ ॥
अथ वस्त्रप्रतिग्रहमन्त्रविशेषः-
वरुणस्त्वा नयतु देवि दक्षिणे बृहस्पतये वासस्तेना-
मृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे ॥१०॥
स्पष्टोऽर्थः ॥ १० ॥
आसनशय्यादेरचेतनवस्तुनः प्रतिग्रहे मन्त्रमाह--
वरुणस्त्वा नयतु देवि दक्षिणे उत्तानायाङ्गिरसा-
याप्राणत् तेनामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं
प्रतिग्रहीत्रे ॥ ११ ॥
'इयं वा उत्तान आङ्गिरस' इति श्रुत्यन्तरात्, उत्तान आङ्गिरस इति
शब्दाभ्यामुच्यते, ऊर्ध्वमुखत्वादुत्तानोऽङ्गिरसस्तपसा लब्धत्वादाङ्गि-
रसो लोकाभिप्रायेण पुंल्लिङ्गता, अप्राणतो भूमेश्च निष्कयत्वसाम्या-
त्सम्बन्धोऽन्यत्पूर्ववत् ॥ १२ ॥
उष्ट्रप्रतिग्रहे मन्त्रमाह--
वरुणस्त्वा नयतु देवि दक्षिणे पूष्ण उष्ट्रम् ॥ १२ ॥
तेनेत्यादिवाक्यशेषस्यानुषङ्गः ॥ १२ ॥
मृगप्रतिग्रहमन्त्रमाह--
वायवे मृगं तेनामृतत्वमशीय वयो दात्रे भूयान्मयो
मह्यं प्रतिग्रहीत्रे ॥ १३ ॥
वरुणस्त्वेति पूर्वभागस्यानुषङ्गः, मृगस्य शीघ्रगामित्वात् तद्वा-
हनत्वाद्वायुसम्बन्धः, उष्ट्रादीन्यपि सर्व्वदक्षिणे देयानि ॥ १३ ॥
पुरुषहस्तिवराहव्रीहीणां प्रतिग्रहे चतुरो मन्त्रानाह—
वरुणस्त्वा नयतु देवि दक्षिणे प्रजापतये पुरुषं प्र-