सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

यहाँ दिए गए पृष्ठ का पंक्ति-दर-पंक्ति सटीक लिप्यन्तरण प्रस्तुत है:

सप्तमाध्याये दशमः खण्डः । २६५
तत्परोक्षं यन्नौधसं यद् बृहते श्यैतं प्रति प्रयुञ्जन्ति रथ-
न्तरमेवास्मै तत्प्रति प्रयुञ्जन्ति रथन्तरꣳ ह्येतत्परोक्षं
यच्छ्यैतम् ॥ ८ ॥
'अल्पाच्तरम्'इति बृहतोऽल्पत्वेन पूर्वनिपाताद्रथन्तरं वै श्यैतं वृहद्वै
नौधसमिति क्रमोऽवगन्तव्यः । अथ 'अग्निर्मूर्द्धा' 'भुवो यज्ञस्य' हविषो
याज्यानुवाक्ये इत्युक्ते 'अग्निर्मूर्द्धा' इत्येषानुवाकानुवाक्या 'भुवो यज्ञस्य'
इत्येषा याज्या तद्वदत्रापि । एवं सत्यनेन रथन्तरबृहतयोः श्यैतनौधस-
रूपत्वप्रतिपादनेन श्यैतनौधसयोर्द्युलोकभूलोकयोः सम्बन्ध उक्तो
भवति । यद्येनं रथन्तराय नौधसं साम प्रति प्रयुञ्जन्

स्पष्टम् ॥ ११ ॥
नौधसमुक्त्वा श्यैतं विधास्यामीति प्रतिजानीते—
अथैतच्छ्यैतम् ॥ १२ ॥
वक्ष्यतीति वाक्यशेषः ॥ १२ ॥
अथ नित्यमपि श्यैतमभिसन्धिभेदेन पशुकामप्रयोगार्थमपि विधि-
त्सुस्तस्य पशुसम्बन्धं दर्शयति—
प्रजापतिः पशूनसृजत तेऽस्मात्सृष्टा अपाक्रामꣳस्ता-
नेतेन साम्नाभिव्याहरत्तेऽस्मा अतिष्ठन्त ते शेत्या अभवन्
यच्छेत्या अभवंꣳस्तस्माच्छ्यैतं पशवो वै श्यैतम् ॥ १३॥
पूर्वं प्रजापतिना सृष्टाः पशवस्तस्मै भोगायानवकल्प्यमानास्त-
तोऽपाक्रामन्। तानेतेन श्यैतेन साम्नाभिव्याहरत् आभिमुख्येनाह्वयत् ।
तस्योत्तमे पादे 'हुम्' इति पशुघोषानुकरणस्य विद्यमानत्वात्त आहूता
अस्मै प्रजापतये भोगायातिष्ठन्त समजानत । अतस्ते श्यैता अभवन् ।
श्येतशब्दश्च श्वयतेर्गतिकर्मणोवाश्नातेर्व्याप्तिकर्म्मण उत्पन्नः । अतः
शेत्याः शेतव्या अभवन्नित्यर्थः। अतस्तद्धेतुत्वेन श्येतत्वं सामान्त्याक्षर-
यकारमादौ सम्बध्य श्यैतमिति प्रयुक्तं ब्राह्मणे । अतः पश्वाह्वानसाध-
नत्वात् श्यैतं पशव एव ॥ १३ ॥
अथ पशुकामाय विधत्ते—
पशुकाम एतेन स्तुवीत पशुमान् भवति ॥ १४ ॥
स्पष्टम् ॥ १४ ॥
अथ श्यैतस्यान्त्यपादे 'हुंमा' इत्येतस्य विद्यमानत्वात् प्रजानां वृ-
द्धिसाधनमेतत्सामेति प्रशंसति—
प्रजापतिः प्रजा असृजत ताः सृष्टा अशोचंꣳस्ताः
श्यैतेन हुंमा इत्यभ्यजिघ्रत्ततो वै ताः समैधन्त समेध-
न्ते ताꣳ समां प्रजा यत्रैवं विद्वाञ्छ्यैतेनोद्गायति ॥ १५॥
पूर्वं प्रजापतिना सृष्टाः प्रजा अनभिवृद्ध्या अशोचन् । ताः प्रजाः
श्यैतेन तत्र ह्येता 'हुंमा' इत्येनेनाभ्यजिघ्रत् शिर आघ्रातवान्। ततः खलु
ताः समैधन्त सम्यगवर्द्धन्त । अतो यत्रैवमुक्तार्थाभिज्ञः श्यैतेनोद्गायति
तां समां तस्मिन् संवत्सरे प्रजाः समेधन्ते सम्यग्वर्द्धन्ते ॥ १५ ॥
अथोद्गाता श्यैतेनोद्गायति प्रजासम्वर्द्धको भवतीति तद्दर्शयति—
एष वै यजमानस्य प्रजापतिर्यदुद्गाता यच्छ्यैतेन हि-

अष्टमाध्याये प्रथमः खण्डः । २६७
ङ्करोति प्रजापतिरेव भूत्वा प्रजा अभिजिघ्रति ॥ १६ ॥
स्पष्टोऽर्थः ॥ १६ ॥
तत्रत्यवसुनिधनं प्रशंसति—
०वसुनिधनं भवति पशवो वै ०वसु पशुष्वेव प्रति-
तिष्ठति ॥ १७ ॥
पशूनां निवाससाधनत्वेन धनरूपत्वं प्रसिद्धमतस्तत्प्रयोगेण प-
शुषु प्रतिष्ठितो भवति यजमानः ।
वेदार्थस्य प्रकाशेन तमोहार्द्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १७ ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीवीरबुक्कभूपा-
लसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये
सामवेदार्थप्रकाशे ताण्ड्यमहाब्राह्मणे सप्तमाध्यायस्य
दशमः खण्डः ।
सप्तमाध्यायः समाप्तिमगमत् ।
अष्टमोऽध्यायः ।
अथ प्रथमः खण्डः ।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
उक्तो माध्यन्दिनस्तस्मिंश्च पवमानश्च सप्तमे वरुणहोत्रादीनाञ्च
पृष्ठानि त्रीण्युक्तानि यथाक्रमं तस्मिन् । ब्रह्मसामानि काम्यानि कालेयतः
आर्षभं यज्ञायज्ञीयमुक्थानि प्रवक्ष्यन्तेऽधुनाष्टमे। श्येतनौधसे उभे अपि
नित्य एवाग्निष्टोमे विकल्पेन प्रयुज्यमाने अभिसन्धिभेदात्काम्ये अपि
भवत इत्युक्तमथाभिचारप्रयोगार्थं ब्रह्मसाम विदधाति—
आष्कारणिधनं काण्वं ०वषट्कारणिधनमभिचरणी-
यस्य ब्रह्मसाम कुर्यादभिनिधनम्माध्यन्दिने पवमाने॥१॥
अभिचरणीयस्याभिचारसम्बन्धिनस्तत्प्रयोजनस्य यागस्य ब्रह्म-
साम ब्राह्मणाच्छंसिनः साम वषट्कारनिधनं कुर्यात् 'अभित्वा
पूर्व्वपीतये' इत्यत्र ब्रह्मसाम कार्ये तत्र 'उपा'निधनमस्ति तत् स्थाने

वधार्थं तेषां मध्ये रायोवाजप्रभृतयस्त्रय
(Wait, look at "प्रायच्छत् वधार्थं" or "प्रायच्छत् वधार्थं"? There is a space between प्रायच्छत् and वधार्थं.)

Line 31:
उदशिष्यन्त तेभ्यः उद्धृताः शिष्टा अभवन् । ते चासंतिका एवमब्रुवन्
(Wait, "चासंतिका" or "चासन्तिका"? Look at line 31: "ते चासंतिका" with anusvara or "चासन्तिका"? There is a dot above स: "चासंतिका".)

Line 32:
को महान्नोऽस्मान् पुत्रान् पुत्रवद्रक्षणीयान् कृत्वा भरिष्यतीति । तदि-

Everything matches the print precisely.२६८ ताण्ड्यमहाब्राह्मणे
'वाषाड्'इति निधनं कुर्यादित्यर्थः। पवमाने तु माध्यन्दिने बृहतीषु मध्य-
मायामभिनिधनं कार्यम् 'औ हो होहा ई आ ई ही ऊ न् साः आ २३४ः
भी'इति। अत्र कल्पः 'अथातो ब्रह्मसामानावभिचरतः श्यैतस्य प्रतिपत्त-
था आज्यानि च पुनानः सोम धारयेति रौरवमे

[Header]
अष्टमाध्याये प्रथमः खण्डः । २६९

न्द्रोऽहं रक्षिष्यामीत्यब्रवीत् । तानवशिष्टांस्त्रिककुप् व्युच्छ्रितप्रदेश आ-
सीत् । त्रिककुप्सु व्यधिनिधायाचरत् । स तदेतत्साम्रापश्यत् । यन्त्रि-
ककुप् संन्नपश्यत्तस्मादेतत् संज्ञकमभवत् अस्थास्यत् ॥ ४ ॥
कथं तेषां जीवनकल्पनमिति तत्राह—
स आत्मानमेव पुनरुपाधावत्त्वमङ्ग प्रशं॑सिषो देवः
शविष्ठमर्त्य॑न्नत्वदन्योमवघन्नास्ति च मर्डितेन्द्र ब्रवीमि ते
वचच इति स एतेन च प्रगाथेनैतेन साम्ना सहस्रं पशू-
नसृजत तानेभ्यः प्रायच्छत्ते प्रत्यतिष्ठन् ॥ ५ ॥
स इन्द्रः स्वव्यतिरिक्तस्य-एतेषां प्रतिष्ठानात् बहिः कस्यचिदप्य-
भावादात्मानमेव पुनरुपाधावत् ‘त्वमङ्ग’ इति प्रगाथेन । अयमुत्तरग्रन्थ
[L

२७० ताण्ड्यमहाब्राह्मणे
स्पष्टोऽर्थः ॥ ८ ॥
अथ शब्दनिर्वचनद्वारेण तत्प्रशंसति--
इमे वै लोकाः सहाऽसँस्तेऽशोचँस्तेषामिन्द्र ए-
तेन साम्ना शुचमपाहन्त्रयाणाँशोचतामपाहँस्तस्मा-
त्त्रैशोकम् ॥ ९ ॥
पूर्वमिमे भूरादिलोकाः सहैकस्मिन्नवस्थाने अतिष्ठन् । ते इति हवि-
र्लाभवृष्टिप्रदानादिपरस्परोपकारादिभावेनाशोचन् । तेषां शुचं दुःखमे-
तेन त्रैशोकेन साम्ना अपाहन् । यद्यस्माच्छोचतां त्रयाणां शोकमपाहन्
तस्मात् शोकत्रयापनोदेन त्रैशोकसंज्ञामलभत ॥ ९ ॥
अथापगतानां शुचामन्यत्र प्राप्तिं दर्शयति—
यामस्मादपाहन् सा पुँश्चलीं प्राविशद्यामन्तरि-
क्षात्सा क्लीबं याममुष्मात्सैनस्विनम् ॥ १० ॥
यां शुचमिन्द्रोऽस्माद्भूलोकादपाहन् सा पुंश्चलीमन्यान् पुरुषान्
प्रति चलन्तीं व्यभिचारिणीमित्यर्थः । एवमुत्तरत्रापि योज्यम् । क्लीबः
षण्ढः । एनस्वी महापातकदोषग्रस्तः ॥ १० ॥
अथैतेषु धनादीच्छामन्वयव्यतिरेकाभ्यां प्रसङ्गान्निन्दति—
तस्मात्तेषान्नाशैतव्या य एषामाशामेति तस्मा एव
शुचोऽपभजते ॥ ११ ॥
तस्मात्प्राप्तशोकत्वात्तेषामाशा पुंश्चल्यादीनां सम्बन्धिनी धनादी-
च्छा नैतव्या न प्राप्तव्या । यस्तु मोहादाशां प्राप्नोति तस्मा एव शुचः
तामेव शुचमपभजते कष्टं प्राप्नोति ॥ ११ ॥
अथ प्रकृतेऽसङ्गत्वं दर्शयन्नुपसंहरति—
शुचा वा एष विद्धो यस्य ज्योगामयति यत्त्रैशोकं
ब्रह्मसाम भवति शुचमेवास्मादपहन्ति ॥ १२ ॥
यस्य यजमानस्य चिरकालो रोगः प्राप्नोति एष शुचा विद्धोऽप-
हतः खलु। अनेन विध्यर्थवादगतज्योगामयशोकयोर्वैयधिकरण्यं परिहृतं
भवति। शिष्टं स्पष्टम् ॥ १२ ॥
तत्रत्यनिधनमप्युक्तविषयेऽनुकूलमित्याह—
दिवेति निधनमुपयन्ति व्युष्टिर्वै दिवा व्येवास्मै व्वा-
सयति ॥ १३ ॥

अष्टमाध्याये द्वितीयः खण्डः। २७१
यत्र साम्नि दिवेति निधनमुपयन्तीह गातारः सा दिवा व्युष्टिर्वै
'उच्छीविवासे' विवासस्तमोऽपवर्ज्जनं प्रकाश इत्यर्थः । अतस्तत्प्रयोगेना
स्मै ज्योगामयाविने आमयाख्यं तमो विवासयति परिहरत्येव ॥ १३ ॥
इति ताण्ड्यमहाब्राह्मणे अष्टमाध्यायस्य प्रथमः खण्डः ।
अथ द्वितीयः खण्डः ।
अथ प्रतिष्ठार्थिनः प्रयोगे ब्रह्मसाम विधत्ते—
आष्‌कारनिधनं काण्वं प्रतिष्ठाकामाय ब्रह्मसाम कु-
र्यात् ॥ १ ॥
'आष्' इतिकरणमुच्चारणमाष्कारः तन्निधनोपेतं काण्वं काण्वेन दृष्टं
ब्रह्मसाम 'तञ्चोदस्ममृतीष्वह'मित्यादिषु कुर्यात् ॥ १ ॥
अथ निधनद्वारैतत्प्रशंसति—
कण्वो वा एतत्सामर्त्ते निधनमपश्यत् स न प्रत्य-
तिष्ठत्स वृषदंशस्याषिति क्षुवत उपाशृणोत्स तदेव नि-
धनमपश्यत्ततो वै स प्रत्यतिष्ठद्यदेतत्साम भवति प्रति-
ष्ठित्यै ॥ २ ॥
कण्वः पूर्वमेव तत्साम निधनरहितं केवलमपश्यत् । स निधनस्य
प्रतिष्ठारूपत्वात्तदभावेनाप्रतिष्ठितोऽभूत् । स किन्निधनं प्रतिष्ठासाधन-
त्वेन करवाणीति चिन्तयन् तदा वृषदंशस्य मार्जारस्य 'आष्' इति क्षुव-
तः शब्दमुपाशृणोत् । स एतदेवोपश्रयणन्निधनं भविष्यतीत्यवगत्य तदेव
प्रयुक्तवान् । ततश्च प्रतिष्ठितोऽभूत् । अतो यत्साम एतन्निधनकं भवेत्
तच्च प्रतिष्ठित्यै भवति ॥ २ ॥
अप्रजार्थिनः प्रयोगे ब्रह्मसाम विदधाति—
ऽवसिष्ठस्य जनित्रं प्रजाकामाय ब्रह्मसाम कुर्य्यात् ॥ ३ ॥
तञ्चोदसमित्यादि वसिष्ठस्य जनित्रम् ॥ ३ ॥
अस्य प्रजासम्बन्धमाह—
ऽवसिष्ठो वा एतत्पुत्रहतः सामापश्यत्स प्रजया प-
शुभिः प्राजायत यदेतत्साम भवति प्रजात्यै ॥ ४ ॥
पूर्वे हतपुत्रो वसिष्ठः प्रजात्यर्थमेतत्‌सामापश्यत्तदेव प्रयुज्य प्रजाप-
शुसमृद्धोऽभूत् अतः प्रजार्थिभिरेतत्कर्त्तव्यम् ॥ ४ ॥

i)

  • च्य (cya)
  • त (ta)
  • Wait, "तत्तदस्यांन्यषिच्यत" -> yes, it is "तत्तदस्यांन्यषिच्यत".
  • Then "तदश्रीणादिदं मे माऽदुषदिति तत्स-"
  • Notice माऽदुषदिति: मा followed by avagraha ऽ, then दुषदिति.
  • दकरोत्पशूनेव ॥ १० ॥
    • "दकरोत्पशूनेव ॥ १० ॥" -> from "तत्स- / दकरोत्" = "तत् सदकरोत्" -> "तत्सद् अकरोत्" (or "तत्सदकरोत्").
  • पूर्वं प्रजापतिः स्वदुहितरमेवोषसमभ्यध्यैद्यदगच्छत्। तस्य रेतः परा-
    • Wait, is it अभ्यध्यैद्यदगच्छत् or अभ्यध्येद्यदगच्छत्?
    • Let's look at the matra above ध्य:
    • There are clearly two slant strokes ै: अभ्यध्यैद्यदगच्छत्.
    • Let's check the space before तस्य: there is । तस्य रेतः परा-.
  • [L30

मादुषदिति दुष्टम्माभूदिति । तत्पक्वं रेतः सदकरोत् तदेव विवृणोति
पशूनकरोदिति । एतत् श्रायन्तीयमभवदिति शेषः ॥ १० ॥
एवं प्रशस्य प्रकृतमुपसंहरति—
यच्छ्रायन्तीयं ब्रह्मसाम भवति श्रीणाति चैवेनᳪ
सञ्च करोति ॥ ११ ॥
यद्यस्य प्रयोगे एतद्ब्रह्मसाम भवति तत एनं यज्ञविभ्रष्टं श्रीणाति
पक्वति शुद्धं करोति ततः सञ्च यज्ञसाधकञ्च करोति ॥ ११ ॥
इति ताण्ड्यमहाब्राह्मणे अष्टमाध्यायस्य द्वितीयः खण्डः ।
अथ तृतीयः खण्डः ।
उक्ताः कामनाभेदेन ब्रह्मसामाविशेषा अथास्मिन् खण्डे कालेयं
स्तूयते तत्र तावत्कालेयन्नामनिर्वचनेन प्रशंसति—
देवाश्च वा असुराश्चैषु लोकेष्वस्पर्द्धन्त ते देवाः प्र-
जापतिमुपाधावंस्तेभ्य एतत्साम प्रायच्छदेतेनैनान्
कालयिष्यद्धमिति तेनैनानेभ्यो लोकेभ्योऽकालयन्त य-
दकालयन्त तस्मात्कालेयम् ॥ १ ॥
पूर्वं देवाश्चासुराश्चैतेषां लोकानामाधिपत्यायास्पर्द्धन्त । अ-
स्माकमेव भूयासुरस्माकमेवेति तेषु मध्ये देवाः स्वपितरं प्रजापतिम-
नुप्राप्ताः । तेभ्य एषामाधिपत्यायैतत्साम प्रायच्छत् किमिति ? एतेन
साम्नैनानसुरान् कालयिष्यद्धमपनयथेति सुज्ञानमन्यत् ॥ १ ॥
विदुषः फलमाह ।
एभ्यो वै लोकेभ्यो भ्रातृव्यं कालयते य एवं वेद ॥ २ ॥
य एवमवगच्छति सोऽपि स्ववैरिणं लोकत्रयान्निःसारयति ॥ २ ॥
अथास्य स्तोत्रियगततरोभिरिति पादद्वारेणैतत्साम प्रशंसति—
स्तोमो वै देवेषु तरो नामासीद्यज्ञोऽसुरेषु ष्विदद्वसु-
स्ते देवास्तरोभिर्व्वो षि्वदद्वसुमिति स्तोमेन यज्ञमसुरा-
णामावृञ्जन ॥ ३ ॥
पूर्वं देवेषु तरो नामा सोम आसीत् । असुरेषु विदद्वसुरिति नामा
यज्ञ आसीत् । एवं सति 'तरोभिर्व्वो षि्वदद्वसु'मिति पादेन देवाः स्तोम-

वगत्य कालेयेन साम्ना
समतन्वन् तत्सवनमविच्छिन्नमकुर्वन्। अतस्तृतीयसवनाविच्छेदायै-
तद्भवतीति स्तुतिः ॥ ५ ॥
अथ तृतीयसवनकालेययोः कः सम्बन्ध इति तं दर्शयति—
विदद्वसु वै तृतीयसवनं यत्तरोभिर्व्वो विदद्वसुमि-
ति प्रस्तौति तृतीयसवनमेव तदभ्यति वदति ॥ ६ ॥
तृतीयसवनं विदद्वसु वै लब्धधनं खलु तस्मिन् हि सम्पूर्णे क्रतु-
समाप्तेर्वस्वादिलक्षणफललाभात् । अतः कालेये यत् ‘तरोभिर्व्वो विदद्वसु-
म्’ इति पठत्युद्गाता तत्तेन तृतीयसवनमेवाभिलक्ष्याति वदति अतीति
धात्वर्थानुवादः ॥ ६ ॥
अथैतत्साम सर्वपृष्ठस्वरूपत्वेन प्रशंसति—
सर्व्वाणि वै रूपाणि कालेयं यत्पदप्रस्तावन्तेन रा-
थन्तरं यद्बृहतो रोहान् रोहति तेन बार्हतं यत्

Here is the line-by-line transcription of the text in Unicode Devanagari:

राथन्तरं रूपम्। रथन्तरस्य पादप्रस्तावः पूर्वमुक्तस्तथा यद्बृहतस्त्रीन्रोहा-
न्रोहति तेन बार्हतमपि रूपम्। तत्रापि बृहत्पृष्ठेऽपि रोहत्रयस्योक्तत्वात्।
यत्कालेयस्य प्रतिहारस्तोभवान् तेन बार्हतं रूपम्। तथाहि कालेये 'हु वा
ई भ रौ वा ३ ४ ३ औ ३ ४ वा' इति प्रतिहारस्तोभवान्। बृहत्यपि 'त्वां
काष्ठा ३ ४ औ हो वा' इति तत्र स्तोभो विद्यते अतस्तद्रूपत्वं युक्तं तथा
'हो ५ ईडा' इति कालेयं द्रवदिडं कालेयं भवत्यतो राथन्तरं रूपम् ।
तथा हि निदानं द्रवदिडारथन्तरपृष्ठेति ऊर्ध्वेडा बृहत्पृष्ठ इति वैरूप-
शाक्करयो रथन्तरकार्य्यत्वात् वैराजरैवतयोश्च बृहत्कार्य्यत्वात् कारण-
भूतोभयरूपत्वप्रतिपादनमत इदं कालेयं सर्वेष्वेव षण्णां पृष्ठानां रूपेषु
प्रतिति

पूर्वं साध्याख्या देवा आसन्। ते सर्वेण यज्ञेन सोपकरणेन सोमादि-
साधनमादायैव स्वर्गं लोकमायन्नगमन् । ते प्रसिद्धा वस्वादयो देवा
आदौ स्वर्गसाधनयज्ञार्थसोमाहरणाय च्छन्दांसि गायत्र्यादीनि यूयं सोमं
द्युलोकादाहरतेत्युक्तवान्। तान्यपि तथैवाङ्गीचक्रुरिति शेषः। तथोक्ता-
स्ते जगतीं प्राहिण्वन्नप्रेरयन्। सा तत्रत्यैः सोमपालैः सह युद्धा त्रीण्यक्ष-
राणि हित्वैकाक्षरा भूत्वा पुनर्देवानागच्छत् । चतुरुत्तराणि वै तर्हि
च्छन्दांसि वक्ष्यति तदभिप्रायकमिदम्। पुनस्ते त्रिष्टुभं प्राहिण्वन्। सापि
पूर्ववत् सोमपालेष्वेकमक्षरं हित्वा त्र्यक्षरा भूत्वा पुनरागच्छत् । ते पु-
नर्गायत्रीं प्राहिण्वन् । च्छन्दांसि सर्वाणि चतुरुत्तराण्यासन् । अतः सा
गायत्री द्युलोके सोमरक्षकैः कृष्णप्रभृतिभिर्जितानि जगतीत्रिष्टुभोश्च-
तुरक्षराणि हरन्ती अष्टाक्षरा भूत्वा आगच्छत् । पुनः किं कुर्वन्त्यागच्छ-
दित्युच्यते त्रीणि च सवनानि सवनत्रयपर्याप्तानि सोमद्रव्याण्यादा-
येति । तद्विविच्योच्यते हस्ताभ्यां द्वे सवने धृत्वा दन्तैस्तृतीयसवनं
दंष्ट्वाऽऽगच्छत् । यस्मादेवं तस्माद्धस्ताभ्यां धृते द्वे सवने प्रातर्मध्यन्दिन-
सवनयोग्ये सोमद्रव्ये पीडाभावात् अंशुमती अभूताम्। तृतीयसवनं धीतं
पीतसारभूतं तत्र हेतुमाह दन्तैर्हि तद्द्रव्यं दष्ट्वा धयन्ती पिबन्ती अह-
रत् । ह्रियमाणस्य सोमस्य पतिताः अंशवः पूतीका अभवन् । तस्य सो-
मस्य यानि पुष्पाण्यवाशीयन्त अवशाादितानि प्रभ्रष्टान्यासन् । शदेः
पात्रेत्यादिना शीयादेशः । तान्यर्जुनानि हरितवर्णान्यभवन् । यत्
प्राप्रोथत् अधनुताङ्गानि प्रप्रोथाख्या ओषधय आसन्। तस्मात्सोमाभावे
पूतीकादीनां प्रतिनिधित्वेन स्वीकर्त्तव्यतामभिधातुं प्रासङ्गिकानामेषां
उपन्यासः। तस्माद्धीतत्वात्तृतीयसवन आशिरं दधिपयोद्रव्यमवनय-
न्ति । यमेव तं सोममोषधीनां सारं गावोऽदन्ति भक्षयन्ति तस्य सोम-
स्य तं रसमवनयन्ति । आशिरावनयने हेतुः ससोमत्वाय सरसत्वाय ॥१॥
एवं गायत्रीं प्रशस्येदानीं सवनसम्बन्धमाह—
ते त्रिष्टुब्जगत्यौ गायत्रीमब्रूतामुप त्वायावेति साऽ-
ब्रवीत् किं मे ततः स्यादिति यत्कामयस इत्यब्रूतां
साब्रवीन्मम सर्व्वं प्रातः सवनमहमुत्तरे सवने प्रणया-
नीति तस्माद्गायत्रं प्रातःसवनं गायत्र्युत्तरे सवने प्र-
णयति ॥ २ ॥
ते गायत्र्यपहृताक्षरचतुष्टये त्रिष्टुब्जगत्यौ गायत्रीमब्रूताम् किमिति ?
त्वा त्वां उपायावेति उपगच्छावेति । सा पुनरब्रवीत्। मे मह्यं ततो युष्म-

दुपगमनात्किं फलं स्यादिति ? ते पुनरब्रूतां, तर्हि यत् फलं कामयस
इति । सा ते प्रत्यब्रवीत् किमिति ? उच्यते । मम तावत् प्रथमं प्रातःसवन
महमुत्तरेऽपि सवने प्रणयानि प्रापयानीति ते तथाऽस्त्वित्यङ्गीचक्रतु-
रिति शेषः । यस्मादेवन्तस्मात् पूर्वं गायत्रं प्रातःसवनमुत्तरेऽपि स-
वने गायत्री प्रणयति । अयमर्थस्तैत्तिरीयके 'कद्रुश्च वै सुपर्णी च' इत्यनु-
वाके प्रतिपादितः ॥ २ ॥
अथ तयोर्गायत्रीप्राप्तिप्रकारं दर्शयति—
तान्त्रिष्टुप् त्रिभिरक्षरैरुपैत्सैकादशाक्षरा भूत्वा
प्राजायत ताञ्जगत्येकेनाक्षरेणोपैत्सा द्वादशाक्षरा भूत्वा
प्राजायत ॥ ३ ॥
तां गायत्रीं त्रिष्टुबवशिष्टैस्त्रिभिरक्षरैरुपैदन्तः प्राविशत् । ततो
गायत्र्या अष्टाक्षरेण सह एकादशाक्षरा भूत्वा प्राजायत प्रकृष्टाऽभूत् ।
तथैकाक्षरा जगत्यपि गायत्रीसंयुक्ता द्वादशाक्षरा प्राजायत ॥ ३ ॥
अथ गायत्र्याः सर्वच्छन्दोव्याप्तिरुक्तार्थनिबन्धनेत्याह—
तस्मादाहुर्गायत्री वाव सर्वाणि च्छन्दाꣳसि गाय-
त्री ह्येतान् पोषान् पुष्यन्त्यैदिति ॥ ४ ॥
तस्मात्त्रिष्टुब्जगत्योः स्वरूपप्रदानादसाधारणसोमापहरणाच्च गा-
यत्री वाव गायत्र्येव सर्वाणि च्छन्दांसि । गायत्री ह्येतान् प्रागुक्तैकाद-
शाक्षरद्वादशाक्षररूपात्मनः पोषान् पुष्यन्ती प्राप्नुवन्त्येतद्यक्षमग-
च्छत् । तदेव तृतीयसवने गायत्रं कर्त्तव्यमिति प्रतिपादितम् ॥ ४ ॥
अथार्भवपवमानगतानि गायत्रसंहितादिसामानि विधास्यन्नादौ
‘स्वादिष्ठया’ इति तृचं गायत्रसंहिताया आधारभूतं सस्तुतिकं विदधाति-
इन्द्रस्तृतीयसवनाद्धीभत्समान उदक्रामत्तद्देवाः स्वा-
दिष्टयेत्यस्वदयन्मदिष्टयेति महदकुर्वन् पवस्व सोम धा-
रयेत्यपावयन्निन्द्राय पातवे सुत इति ततो वै तदिन्द्र
उपावर्त्तत यत् स्वादिष्ठया मदिष्टयेति प्रस्तौति तृतीय-
सवनस्य सेन्द्रत्वाय ॥ ५ ॥
पूर्वमिन्द्रस्तृतीयसवनात् पीतत्वेन गतसाराद्धीभत्समानोऽयोग्य-
त्वेनापेक्ष्यमाण उदक्रामदुद्गतवान् । तत्सवनं देवाः 'स्वादिष्ठया' इति खादु-
तमवाचिना पदेनास्वदयन् स्वादुमकुर्वन् 'मदिष्टया' इति द्वितीयपदेन मह-

[२७८] ताण्ड्यमहाब्राह्मणे

तुष्टिमुदकुर्व्वन् 'पवस्व सोमधारया' इति द्वितीयपादेनापावयन् पूतमकु-
र्व्वन् । एवं सवनं तद्योग्यं सम्पाद्य 'इन्द्राय पातवे सुतः' इति पादेनेन्द्रमु-
पावर्त्तयन्निति शेषः । तत्र पादे तत इन्द्राय पातवे पातुमिति इन्द्रस्य
पानार्थश्रवणात्स्वाहितमवगत्येन्द्रस्तत्सवनमुपावर्त्तत-अभिमुखमग-
च्छत् । शिष्टं सुज्ञानम् ॥ ५ ॥
अथासुरपशुविनाशकत्वद्वारेणैतत्प्रशंसति—
स्वादिष्ठा वै देवेषु पशव आसन् मदिष्ठा असुरेषु
ते देवाः स्वादिष्ठया मदिष्ठयेति पशूनसुराणामवृञ्जत ॥६॥
पूर्वं स्वादिष्ठाः पशवो देवेष्वासन् मदिष्ठा असुरेषु तत्तद्भागस्यैव
तैस्तैः प्रयुक्तत्वात् । तदा देवा विदित्वाऽसुराणां प्रत्युपायं 'स्वादिष्ठया
मदिष्ठये'ति पादं पठित्वा तानपि स्वयमलभन्त । अतस्तेषां पशूनवृञ्-
तेत्युच्यते ॥ ६ ॥
विदुषः फलमाह—
पशून् भ्रातृव्यस्य वृङ्क्ते य एवँ वेद ॥ ७ ॥
स्पष्टोऽर्थः ॥ ७ ॥
अथोक्ते च तृचे संहितमपि विधत्ते—
तासु सँहितम् ॥ ८ ॥
गेयमिति शेषः ॥ ८ ॥
अथैतदन्वर्थनामत्वेन प्रशंसति—
साध्या वै नाम देवा आसँस्तेऽवच्छिद्य तृतीयसव-
नम्माध्यन्दिनेन सवनेन सह स्व॒र्गँल्लो॒कमायँस्तद्देवाः
सँहितेन सम दधुर्यत्सम्मदधुस्तस्मात्सँहितम् ॥ ९ ॥
सन्धानहेतुत्वात्संहितमिति नामाभूत्, शिष्टं कालेयार्थवद्योज्यम्॥९॥
अथैतन्माध्यन्दिनसवनान्तेन कालेयेन सह स्तौति—
कालेयं पुरस्ताद्भवति सँहितमुपरिष्टादेताभ्याँ
हि तृतीयसवनँ सन्तायते ॥ १० ॥
कालेयस्य पूर्व्वं तृतीयसवनं सन्तत्यर्थमुक्तमस्यापि तदर्थत्वमि-
दानीमुच्यतेऽत उभयो र्मिलित्वा माध्यन्दिनतृतीयसवनयोः सन्तान-
साधकत्वम् ॥ १० ॥
अथ कालेयवदस्यापि सर्व्वपृष्ठत्वमिति स्तौति—
सर्व्वाणि वै रूपाणि सँहितं यत्पदप्रस्तावन्तेन

[header]
अष्टमाध्याये पञ्चमः खण्डः । २७९

राथन्तरं यद्बृ॒हतो रोहान्रोहति तेन बार्हतं यत्पदनिध-
नन्तेन राथन्तरꣳसर्व्वेष्ठ्वेव रूपेषु प्रतितिष्ठति ॥ ११ ॥
उक्तमिदं पूर्वम् ॥ ११ ॥
इति ताण्ड्यमहाब्राह्मणेऽष्टमाध्यायस्य चतुर्थः खण्डः ।

अथ पञ्चमः खण्डः ।
अथ सफ-पौष्कले विधातुं तयोश्छन्दसी विदधाति—
उष्णिक्कुकुभावेते भवतः ॥ १ ॥
अत्रापि 'अभ्यर्हितम्' इत्युष्णिक्शब्दस्य पूर्वनिपातः। अतः 'पवस्व
मधुमत्तम' 'इन्द्रमथ सुता' इत्येते ककुबुष्णिहौ भवत इत्यर्थः ॥ १ ॥
अथैतत् स्तौति—
उष्णिक्कुकुब्भ्यां वा इन्द्रो वृत्राय वज्रं प्राहरत्ककु-
भि पराक्रमतोष्णिहा प्राहरत्तस्मात् ककुभो मध्यमं पदं
भूयिष्ठाक्षरं पराक्रमणं हि तदभि समौहत्तस्मादुष्णि-
ह उत्तमं पदं भूयिष्ठाक्षरं पुरो गुरुरिव हि वज्रः ॥ २ ॥
उष्णिक्कुकुब्भ्यां खलु पूर्वमिन्द्रो वृत्रवधार्थं वज्रं प्राक्षिपत् । त-
द्विभज्य दर्शयति ककुभि पराक्रमत शत्रोरभिमुखं लङ्घितवान् । तत
उष्णिहा च्छन्दसा प्राहरद्वज्रं यस्मादेवं कृतवांस्तस्मात् ककुभश्छ-
न्दसो मध्यमं पदं पादो भूयिष्ठाक्षरं प्रकृतद्वादशाक्षरो भवति 'मध्य-
माश्च ककुप्'इति हि ककुभो लक्षणम्।पराक्रमणसाधने'पवस्व मधुमत्तम'
इति ककुभि मध्यमपादे द्वादशाक्षराणि सन्ति तदक्षराधिक्यमेव खलु
पराक्रमणमभित उभे पार्श्वे समौहदष्टाक्षरौ पादौ सम्यगवहत ।
तद्वा तत् ककुप्छन्द इन्द्रस्य पराक्रमणं खल्वभिसमौहत् अभिसमव-
हत । अतो मध्यमपादाधिक्यं युक्तमेव तस्मादेव वज्रप्रहरणसाधनत्वा-
देवोष्णिहमुत्तमं पदं भूयिष्ठाक्षरमष्टाक्षरपादद्वयापेक्षयाऽधिकाक्षरम्
'उष्णिक् त्रिपदान्तो द्वादशः' इति हि लक्षणम् । वज्रोऽपि पुरो गुरु-
रिवाग्रभागे स्थूल इव खलु वज्रः ॥ २ ॥
उक्तार्थस्य फलकथनम्—
वज्रं भ्रातृव्याय प्रहरति य एवँ वेद ॥ ३ ॥

२८० ताण्ड्यमहाब्राह्मणे

स्पष्टम् ॥ ३ ॥
पुनस्ते प्रशंसति—
नासिके वा एते यज्ञस्य यदुष्णिक्ककुभौ तस्मात्
समानं च्छन्दः सती नाना यज्ञं वहतस्तस्मात् समानाया
नासिकायाः सत्या नाना प्राणावुच्चरतः ॥ ४ ॥
यस्मादेते च्छन्दसी यज्ञस्य नासिके तस्मात्समानमेकं छन्दः सती
सत्यौ नाना पृथग्भूते एव ते यज्ञं वहतः। यस्मादेवमभूत् तस्मादिदा-
नीमपि लोके समानाया एकस्या एव नासिकायाः सत्याः सकाशा-
दिवसभेदेन प्राणावुच्छ्वासौ नाना पृथगेवोच्चरत उद्गच्छतः ॥ ४ ॥
अथ प्रासङ्गिकमनयोर्नियमविशेषमाह—
प्राणा वा उष्णिक्ककुभौ तस्मात्ताभ्यान्न वषट्कुर्व-
न्ति यद्वषट्कुर्युः प्राणानग्नौ प्रदह्युः ॥ ५ ॥
स्पष्टोऽर्थः ॥ ५ ॥
पूर्वत्रानयोः प्राणोद्गमनसाधननासिकात्वेनोक्तमिदानीं सामद्वयं
विधत्ते—
तासु सफं विफमिव वै तृतीयसवनं तृतीयसवन-
स्य सफत्वायैतत्पौष्कलमेतेन वै प्रजापतिः पुष्कलान्
पशूनसृजत तेषु रूपमदधायदेतत्साम भवति पशुष्वेव
रूपन्दधाति ॥ ६ ॥
पौष्कलं कुर्व्वन्नेतेन वै पुष्कलान् समग्रान् पशूनसृजत । तेष्वेव
सृष्टेषु पुनरेतेनैव रूपेणापत्योत्पादनलक्षणं पुष्टिमदधात् स्थापि-
तवान्। एवं पशुपौष्कल्यहेतुत्वात् पुष्कलमिति निर्व्वचनद्वारा स्तुतिः॥६॥
अथ श्यावाश्वाान्धीगवे उभे अपि सामनी विधित्सुस्तयोरुभयोः
समानं स्तोत्रियं प्रशंसति—
पुरोजिती वो अन्धस इति पथ्या चाक्षर्य्या च द्विव-
राजौ भवतः पथ्या वै देवाः स्वर्ग्गँ लोकमायन्नक्षर्य्या
ऋषयो नु प्राजानन्यदेते पथ्या चाक्षर्य्या च द्विवराजौ भ-
वतः स्वर्ग्गस्य लोकस्य प्रज्ञात्यै ॥ ७ ॥
अस्मिंस्तृचे प्रथमानुष्टुबुत्तरे गायत्र्यौ । एवं सति पथ्या पादैः स-
म्पन्नाऽक्षर्य्या चाक्षरपरिगणनया सम्पन्ना च द्वे विराजौ भवतः 'द-

[Header] अष्टमाध्याये पञ्चमः खण्डः । २८१

शाक्षरा विराट्' इति श्रुते र्विराजि दशसंख्यासद्भावादत्रापि मिलित्वा
दशपादानां सम्भवात् । तृचस्य मिलित्वाऽशीत्यक्षराणि तानि विराट्-
संख्यया विभक्तानि समान्येव भवन्ति इति 'पद्याक्षर्य्या च विराजौ भ-
वतः' इत्युक्तं यद्वा प्रथमायामृचि दशपदानि सन्ति ततः पद्या विराट्
'ऋचाक्षर्य्या विराट्' इति विज्ञेयम् । अस्त्वेवं किं ततः स्यादिति चेदतो
भवतीत्याह । पूर्वं पद्या हि विराजा देवाःस्वर्गं लोकमायन् पदस्याक्रम-
णसाधनत्वादेतदुचितम् । अक्षर्य्या तु विराजा च ऋषयोऽनुक्रमेण
स्वर्गं प्राजानन् । अक्षरविराट् प्रयोगेण यज्ञन्तद्वारा तत्फलभूतं स्वर्गं
चेति क्रमः। अत इदानीन्तनैरपि पद्या चाक्षर्य्या च विराजौ कर्त्तव्ये भ-
वतः किमर्थं ? स्वर्गस्य प्रज्ञात्यै परिज्ञानाय ॥ ७ ॥
अथास्मिंस्तृचे प्रथमं श्यावाश्वं विधत्ते—
तासु श्यावाश्वम् ॥ ८ ॥
स्पष्टम् ॥ ८ ॥
तासु 'पुरोजितीव' इत्याद्यासु तिसृषु ऋक्ष्वेतत्प्रशंसति—
श्यावाश्वमार्श्वनानसं सत्रमासीनं धन्वोदवहन्
स एतत्सामोपश्यत्तेन वृष्टिमसृजत ततो वै स प्रत्यति-
ष्ठत्ततो गातुमविन्दत गातुविद्वा एतत्साम ॥ ९ ॥
आर्श्वनानसमर्श्वनानसः पुत्रं श्यावाश्वमृर्षि सत्रमासीनमितरे
सत्रिणः क्रोधाद्धन्व निरुदकप्रदेशमुद्वहन्नुदगमयन् । स तृषार्त्तः
सन्नेतत्सामोपश्यत् । स वृष्टिमसृजत ततः खलु वृष्ट्यां सत्यां सस्यो-
त्पत्तौ पृथिव्यां प्रत्यतिष्ठत् । ततो गातुं यज्ञानुष्ठानमार्गमविन्दत । इत्थं
गातुविन्मार्गलम्भनं खल्वेतत्साम मार्गालिप्सुना श्यावाश्वेन दृष्टत्वा-
दपि श्यावाश्वमभूदिति ज्ञातव्यम् ॥ ९ ॥
अथ विदुषः फलमाह—
विन्दते गातुं प्रति तिष्ठत्येतेन तुष्टुवानः ॥ १० ॥
एतेन साम्ना तुष्टुवानोऽपि यजमानो गातुं लौकिकवैदिकविधेयं
मार्गं विन्दते प्रतितिष्ठति ॥ १० ॥
अथैतत्सामगतं स्तोभद्वयं प्रशंसति—
इन्द्रस्तृतीयसवनाद्भीभत्समान उदक्रामत्तन्देवाः
श्यावाश्वेनैहाायि एहियेत्यन्वाह्वयन् स उपावर्त्तत
यदेतत्साम भवति तृतीयसवनस्य सेन्द्रत्वाय ॥ ११ ॥

२८२ ताण्ड्यमहाब्राह्मणे
ऋजीषदोषदुष्टत्वेनापगतमिन्द्रं देवाः पूर्व्वं श्यावाश्वेन साम्ना 'ए-
हायि एहिया' इत्याह्वयन्। एहीत्यस्य विकारः 'एहार इ' एवमाहूतः स-
वनं प्रत्युपागच्छत् । इतरत्सुज्ञानम्॥ ११ ॥
अथान्धीगवं विधत्ते—
अथैतदान्धीगवमन्धीगुर्व्वा एतत्पशुकामः सामा-
पश्यत्तेन सहस्रं पशूनसृजत यदेतत्साम भवति पशूनां
पुष्ट्यै मध्ये निधनमैडम्भवत्येतेन वै तृतीयसवनं प्रति-
ष्ठितं यन्मध्ये निधनमैडन्न स्यादप्रतिष्ठितं तृतीयसवनꣳ
स्यात् ॥ १२ ॥
अथ श्यावाश्वेष्वेवं प्रतिष्ठितं यन्मध्ये निधनमैडमिति-ऐडं इडासम्ब-
न्धि मध्ये निधनमेतत्साम कर्त्तव्यम्। किं ततस्तत्राह, एतेन खलु मध्ये
निधनेन तृतीयसवनं हि प्रतिष्ठितं निधनं हि प्रतिष्ठा तन्मध्ये भवति
तेन प्रतिष्ठासिद्धिः। तथैह मध्येन हि प्रतिपुरुषा दृढाः सन्तः प्रतिति-
ष्ठन्ति भूमौ। दृढाशब्दः पशुवाची पशवश्च प्रतिष्ठाहेतुरिति। इडानिधन-
त्वादपि तृतीयसवनं प्रतिष्ठितमत एवास्य साम्नः पशुपोषहेतुत्वम्। उ-
क्तमर्थं व्यतिरेकेण दृढयति यन्मध्ये निधनमैडन्न स्यादिति स्पष्टम्॥१२॥
अथ मध्ये निधनमेव पुनः प्रशंसति—
दशाक्षरं मध्यतो निधनमुपयन्ति दशाक्षरा विरा-
ड्विराज्येव प्रतितिष्ठति ॥ १३ ॥
'अपः श्वानं श्नथिष्टना २३४५' इति दशाक्षरनिधनं साम मध्यत
उपयन्ति स्तोतारः। विराडपि दशाक्षरा तेन विराज्येव यजमानः प्र-
तितिष्ठति ॥ १३ ॥
अथ कावं साम विदधाति—
अभिप्रियाणि पवत इति कावं प्राजापत्यꣳ साम॥१४॥
'अभिप्रियाणि' इति तृचे गीयमानं कावं कविना भार्गवेन दृष्टं प्राजा-
पत्यं साम भवत्यनिरुक्तासु ऋक्षु गीयमानत्वात्। इदं प्राजापत्यं य-
था वामदेव्यं 'कयान' इत्यनुक्तासु गीयमानन्तद्वत् ॥ १४ ॥
अथैतत् स्तौति—
प्रजा वै प्रियाणि पशवः प्रियाणि प्रजायामेव पशुषु
प्रतितिष्ठति ॥ १५ ॥

अष्टमाध्याये षष्ठः खण्डः । २८३
लोके प्रजाः पशवः प्रियाणि । अत्रापि प्रियाणीति श्रुतत्वाच्च तत्प्रयो-
गेन प्रजायां पशुषु च प्रतिष्ठितो भवति यजमानः ॥ १५ ॥
अथौशनकावे सह स्तौति—
रश्मी वा एतौ यज्ञस्य यदौशनकावे देवकोशो वा
एष यज्ञमभिसमुब्जितो यदेते अन्ततो भवतो यज्ञ-
स्यारिष्ट्यै ॥ १६ ॥
यदौशनकावे एतौ यज्ञस्य रश्मी वै बन्धनरज्जू । रश्मिशब्दापेक्षया
'एतौ' इति पुंलिङ्गनिर्देशः । यदेते उक्ते सामनी अन्ततो भवत एष यज्ञ-
मभिसमुब्जितः । यज्ञमुद्दिश्य देवकोशो देवानां निधानागारं खलु समु-
ब्जितः । तच्च यज्ञस्यारिष्ट्यै अहिंसायै भवति ॥ १६ ॥
इति ताण्ड्यमहाब्राह्मणेऽष्टमाध्यायस्य पञ्चमः खण्डः ।
अथ षष्ठः खण्डः ।
देवा वै ब्रह्म व्यभजन्त तस्य यो रसोऽत्यरिच्यत
तद्यज्ञायज्ञीयमभवत् ॥ १ ॥
पूर्वे देवा ब्रह्म वेदराशिं व्यभजन्त ममायं भागो ममायं भाग इति
विभागमकुर्व्वन् । तस्य विभज्यमानस्य ब्रह्मणो रसोऽत्यरिच्यत तद्यज्ञा-
ज्ञीयं सामाभवत् ॥ १ ॥
अथैतद्विधत्ते—
ब्रह्मणो वा एष रसो यद्यज्ञायज्ञीयं यद्यज्ञायज्ञीयेन
स्तुवन्ति ब्रह्मण एव रसे यज्ञं प्रतिष्ठापयन्ति ॥ २ ॥
अत एतद्यज्ञायज्ञीयं ब्रह्मणो रसः खलु शिष्टं स्पष्टम् । यद्यपि य-
च्छब्दयोगादनुवादत्वं तथाप्यपूर्व्वत्वाद्बिधिरेवाभ्युपगन्तव्यः ॥ २ ॥
अथैतन्निर्वचनद्वारा प्रशंसति—
योनिर्वै यज्ञायज्ञीयमेतस्माद्वै योनेः प्रजापतिर्य्यज्ञ-
मसृजत तस्माद्यज्ञायज्ञीयम् ॥ ३ ॥
एतद्यज्ञायज्ञीयं साम योनिर्वै-उत्पत्तिहेतुः । तदेव साधयति एत-
स्मात् खलु यज्ञायज्ञीयाद्योनेः प्रजापतिर्यज्ञमसृजत । यज्ञमिति जात्यभि-

२८४ ताण्ड्यमहाब्राह्मणे

प्रायेणैकवचनम्। यद्यस्मादेतस्मात् साम्नो यज्ञं यज्ञं वीप्सया सर्वोऽपि
यज्ञः परिगृह्यते कृत्स्नं यज्ञजातमसृजत। तस्माद्यज्ञयज्ञसम्बन्धाद्यज्ञायज्ञी-
यमिति नामास्य सम्पन्नम् ॥ ३ ॥
अथैतत्सामप्रयुक्तं प्रशंसति—
तस्माद्वा एतेन पुरा ब्राह्मणा वहिष्पवमानमस्तोषत
योनेर्ध्यज्ञं प्रतनवामहा इति यज्ञन्ततः स्तुवन्ति योनौ
यज्ञं प्रतिष्ठापयन्ति ॥ ४ ॥
तस्मादेव कारणात् पुरा ब्राह्मणा अनुष्ठातारो यज्ञस्यादिभूतं
वहिष्पवमानमस्तोषत स्तोत्रमकृषत। कया बुद्ध्या योने रेतस्य साम्नः
सकाशाद्यज्ञं प्रतनवामहा इति बुद्ध्या। अतोऽप्यस्य योनित्वं सिद्धमतो
ऽद्याप्यन्ततः स्तुवन्ति योनावेव यज्ञं समापयन्तीति ॥ ४ ॥
अथैतत्सर्वयज्ञात्मकत्वेन प्रशंसति—
असुरेषु वै सर्व्वो यज्ञ आसीत्ते देवा यज्ञायज्ञीयमप-
श्यँस्तेषां यज्ञायज्ञा वो अग्नय इत्यग्निहोत्रमवृञ्जत
गिरांगिरा च दक्षस इति दर्शपूर्णमासौ प्रप्र वयममृत-
ञ्जातवेदसमिति चातुर्मास्यानि प्रियमित्रन्नशँसिष-
मिति सौम्यमध्वरम् ॥ ५ ॥
पूर्वमसुरेष्वेव सर्वो यज्ञ अग्निहोत्रादिचतुर्भेदभिन्नः सर्वो यज्ञ
आसीन्न देवेषु। ते देवाः स्वाधीनकरणोपायतत्त्वेन यज्ञायज्ञीयमपश्यन्।
दृष्ट्वा च तेषां सम्बन्ध्यग्निहोत्रमवृञ्जत 'यज्ञायज्ञा व' इति पादेन। अत्राग्नय
इति श्रूयमाणत्वात् अग्निहोत्रवृञ्जनस्यायमुचितः। अग्निहोत्रं तेभ्यः
सकाशाद्वियुज्य स्वयमलभतेत्यर्थः। यद्वा क्रमोऽत्र सम्बन्धहेतुः, अग्नि-
होत्रदर्शपूर्णमासौ चातुर्मास्यानि सौम्योऽध्वर इति क्रमः। अतस्तत्राग्नि-
होत्रप्राथम्यात् स्तोत्रीयायामपि 'यज्ञायज्ञा' इत्यस्य प्रथमपादत्वात्तेन
तद्वृञ्जनमुचितम्। एवमुत्तरत्रापि तत्तत्सादृश्यानुक्रमाद्वा सम्बन्ध्येवाव
गन्तव्यः। द्वितीयपादे 'दक्षस' इति दकारः श्रूयतेऽतो दर्शपूर्णमासौ
प्रावृञ्जत। तृतीयपादे प्रकर्षवाची प्रशब्दः श्रूयतेऽतस्तेनाक्षयसुकृत-
फलानि चातुर्मास्यान्यवृञ्जत चातुर्मास्यानामक्षयसुकृतसाधनत्वं 'अक्ष-
य्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति' इति श्रुतेः। 'प्रियमित्रन्न'
इति चतुर्थपादे प्रियशब्दः श्रूयते सोमयागश्च देवानामतिशयेन प्रियः।
अतस्तेन पादेन सौम्याध्वरमवृञ्जत ॥ ५ ॥