सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 297, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 297

दुपगमनात्किं फलं स्यादिति ? ते पुनरब्रूतां, तर्हि यत् फलं कामयस
इति । सा ते प्रत्यब्रवीत् किमिति ? उच्यते । मम तावत् प्रथमं प्रातःसवन
महमुत्तरेऽपि सवने प्रणयानि प्रापयानीति ते तथाऽस्त्वित्यङ्गीचक्रतु-
रिति शेषः । यस्मादेवन्तस्मात् पूर्वं गायत्रं प्रातःसवनमुत्तरेऽपि स-
वने गायत्री प्रणयति । अयमर्थस्तैत्तिरीयके 'कद्रुश्च वै सुपर्णी च' इत्यनु-
वाके प्रतिपादितः ॥ २ ॥
अथ तयोर्गायत्रीप्राप्तिप्रकारं दर्शयति—
तान्त्रिष्टुप् त्रिभिरक्षरैरुपैत्सैकादशाक्षरा भूत्वा
प्राजायत ताञ्जगत्येकेनाक्षरेणोपैत्सा द्वादशाक्षरा भूत्वा
प्राजायत ॥ ३ ॥
तां गायत्रीं त्रिष्टुबवशिष्टैस्त्रिभिरक्षरैरुपैदन्तः प्राविशत् । ततो
गायत्र्या अष्टाक्षरेण सह एकादशाक्षरा भूत्वा प्राजायत प्रकृष्टाऽभूत् ।
तथैकाक्षरा जगत्यपि गायत्रीसंयुक्ता द्वादशाक्षरा प्राजायत ॥ ३ ॥
अथ गायत्र्याः सर्वच्छन्दोव्याप्तिरुक्तार्थनिबन्धनेत्याह—
तस्मादाहुर्गायत्री वाव सर्वाणि च्छन्दाꣳसि गाय-
त्री ह्येतान् पोषान् पुष्यन्त्यैदिति ॥ ४ ॥
तस्मात्त्रिष्टुब्जगत्योः स्वरूपप्रदानादसाधारणसोमापहरणाच्च गा-
यत्री वाव गायत्र्येव सर्वाणि च्छन्दांसि । गायत्री ह्येतान् प्रागुक्तैकाद-
शाक्षरद्वादशाक्षररूपात्मनः पोषान् पुष्यन्ती प्राप्नुवन्त्येतद्यक्षमग-
च्छत् । तदेव तृतीयसवने गायत्रं कर्त्तव्यमिति प्रतिपादितम् ॥ ४ ॥
अथार्भवपवमानगतानि गायत्रसंहितादिसामानि विधास्यन्नादौ
‘स्वादिष्ठया’ इति तृचं गायत्रसंहिताया आधारभूतं सस्तुतिकं विदधाति-
इन्द्रस्तृतीयसवनाद्धीभत्समान उदक्रामत्तद्देवाः स्वा-
दिष्टयेत्यस्वदयन्मदिष्टयेति महदकुर्वन् पवस्व सोम धा-
रयेत्यपावयन्निन्द्राय पातवे सुत इति ततो वै तदिन्द्र
उपावर्त्तत यत् स्वादिष्ठया मदिष्टयेति प्रस्तौति तृतीय-
सवनस्य सेन्द्रत्वाय ॥ ५ ॥
पूर्वमिन्द्रस्तृतीयसवनात् पीतत्वेन गतसाराद्धीभत्समानोऽयोग्य-
त्वेनापेक्ष्यमाण उदक्रामदुद्गतवान् । तत्सवनं देवाः 'स्वादिष्ठया' इति खादु-
तमवाचिना पदेनास्वदयन् स्वादुमकुर्वन् 'मदिष्टया' इति द्वितीयपदेन मह-