सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 299, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 299

[header]
अष्टमाध्याये पञ्चमः खण्डः । २७९

राथन्तरं यद्बृ॒हतो रोहान्रोहति तेन बार्हतं यत्पदनिध-
नन्तेन राथन्तरꣳसर्व्वेष्ठ्वेव रूपेषु प्रतितिष्ठति ॥ ११ ॥
उक्तमिदं पूर्वम् ॥ ११ ॥
इति ताण्ड्यमहाब्राह्मणेऽष्टमाध्यायस्य चतुर्थः खण्डः ।

अथ पञ्चमः खण्डः ।
अथ सफ-पौष्कले विधातुं तयोश्छन्दसी विदधाति—
उष्णिक्कुकुभावेते भवतः ॥ १ ॥
अत्रापि 'अभ्यर्हितम्' इत्युष्णिक्शब्दस्य पूर्वनिपातः। अतः 'पवस्व
मधुमत्तम' 'इन्द्रमथ सुता' इत्येते ककुबुष्णिहौ भवत इत्यर्थः ॥ १ ॥
अथैतत् स्तौति—
उष्णिक्कुकुब्भ्यां वा इन्द्रो वृत्राय वज्रं प्राहरत्ककु-
भि पराक्रमतोष्णिहा प्राहरत्तस्मात् ककुभो मध्यमं पदं
भूयिष्ठाक्षरं पराक्रमणं हि तदभि समौहत्तस्मादुष्णि-
ह उत्तमं पदं भूयिष्ठाक्षरं पुरो गुरुरिव हि वज्रः ॥ २ ॥
उष्णिक्कुकुब्भ्यां खलु पूर्वमिन्द्रो वृत्रवधार्थं वज्रं प्राक्षिपत् । त-
द्विभज्य दर्शयति ककुभि पराक्रमत शत्रोरभिमुखं लङ्घितवान् । तत
उष्णिहा च्छन्दसा प्राहरद्वज्रं यस्मादेवं कृतवांस्तस्मात् ककुभश्छ-
न्दसो मध्यमं पदं पादो भूयिष्ठाक्षरं प्रकृतद्वादशाक्षरो भवति 'मध्य-
माश्च ककुप्'इति हि ककुभो लक्षणम्।पराक्रमणसाधने'पवस्व मधुमत्तम'
इति ककुभि मध्यमपादे द्वादशाक्षराणि सन्ति तदक्षराधिक्यमेव खलु
पराक्रमणमभित उभे पार्श्वे समौहदष्टाक्षरौ पादौ सम्यगवहत ।
तद्वा तत् ककुप्छन्द इन्द्रस्य पराक्रमणं खल्वभिसमौहत् अभिसमव-
हत । अतो मध्यमपादाधिक्यं युक्तमेव तस्मादेव वज्रप्रहरणसाधनत्वा-
देवोष्णिहमुत्तमं पदं भूयिष्ठाक्षरमष्टाक्षरपादद्वयापेक्षयाऽधिकाक्षरम्
'उष्णिक् त्रिपदान्तो द्वादशः' इति हि लक्षणम् । वज्रोऽपि पुरो गुरु-
रिवाग्रभागे स्थूल इव खलु वज्रः ॥ २ ॥
उक्तार्थस्य फलकथनम्—
वज्रं भ्रातृव्याय प्रहरति य एवँ वेद ॥ ३ ॥