सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 294, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 294

वगत्य कालेयेन साम्ना
समतन्वन् तत्सवनमविच्छिन्नमकुर्वन्। अतस्तृतीयसवनाविच्छेदायै-
तद्भवतीति स्तुतिः ॥ ५ ॥
अथ तृतीयसवनकालेययोः कः सम्बन्ध इति तं दर्शयति—
विदद्वसु वै तृतीयसवनं यत्तरोभिर्व्वो विदद्वसुमि-
ति प्रस्तौति तृतीयसवनमेव तदभ्यति वदति ॥ ६ ॥
तृतीयसवनं विदद्वसु वै लब्धधनं खलु तस्मिन् हि सम्पूर्णे क्रतु-
समाप्तेर्वस्वादिलक्षणफललाभात् । अतः कालेये यत् ‘तरोभिर्व्वो विदद्वसु-
म्’ इति पठत्युद्गाता तत्तेन तृतीयसवनमेवाभिलक्ष्याति वदति अतीति
धात्वर्थानुवादः ॥ ६ ॥
अथैतत्साम सर्वपृष्ठस्वरूपत्वेन प्रशंसति—
सर्व्वाणि वै रूपाणि कालेयं यत्पदप्रस्तावन्तेन रा-
थन्तरं यद्बृहतो रोहान् रोहति तेन बार्हतं यत्