ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 287, कुल 518 में से
संदर्भ में पढ़ेंअष्टमाध्याये प्रथमः खण्डः । २६७
ङ्करोति प्रजापतिरेव भूत्वा प्रजा अभिजिघ्रति ॥ १६ ॥
स्पष्टोऽर्थः ॥ १६ ॥
तत्रत्यवसुनिधनं प्रशंसति—
०वसुनिधनं भवति पशवो वै ०वसु पशुष्वेव प्रति-
तिष्ठति ॥ १७ ॥
पशूनां निवाससाधनत्वेन धनरूपत्वं प्रसिद्धमतस्तत्प्रयोगेण प-
शुषु प्रतिष्ठितो भवति यजमानः ।
वेदार्थस्य प्रकाशेन तमोहार्द्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १७ ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीवीरबुक्कभूपा-
लसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये
सामवेदार्थप्रकाशे ताण्ड्यमहाब्राह्मणे सप्तमाध्यायस्य
दशमः खण्डः ।
सप्तमाध्यायः समाप्तिमगमत् ।
अष्टमोऽध्यायः ।
अथ प्रथमः खण्डः ।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
उक्तो माध्यन्दिनस्तस्मिंश्च पवमानश्च सप्तमे वरुणहोत्रादीनाञ्च
पृष्ठानि त्रीण्युक्तानि यथाक्रमं तस्मिन् । ब्रह्मसामानि काम्यानि कालेयतः
आर्षभं यज्ञायज्ञीयमुक्थानि प्रवक्ष्यन्तेऽधुनाष्टमे। श्येतनौधसे उभे अपि
नित्य एवाग्निष्टोमे विकल्पेन प्रयुज्यमाने अभिसन्धिभेदात्काम्ये अपि
भवत इत्युक्तमथाभिचारप्रयोगार्थं ब्रह्मसाम विदधाति—
आष्कारणिधनं काण्वं ०वषट्कारणिधनमभिचरणी-
यस्य ब्रह्मसाम कुर्यादभिनिधनम्माध्यन्दिने पवमाने॥१॥
अभिचरणीयस्याभिचारसम्बन्धिनस्तत्प्रयोजनस्य यागस्य ब्रह्म-
साम ब्राह्मणाच्छंसिनः साम वषट्कारनिधनं कुर्यात् 'अभित्वा
पूर्व्वपीतये' इत्यत्र ब्रह्मसाम कार्ये तत्र 'उपा'निधनमस्ति तत् स्थाने