सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 291, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 291

अष्टमाध्याये द्वितीयः खण्डः। २७१
यत्र साम्नि दिवेति निधनमुपयन्तीह गातारः सा दिवा व्युष्टिर्वै
'उच्छीविवासे' विवासस्तमोऽपवर्ज्जनं प्रकाश इत्यर्थः । अतस्तत्प्रयोगेना
स्मै ज्योगामयाविने आमयाख्यं तमो विवासयति परिहरत्येव ॥ १३ ॥
इति ताण्ड्यमहाब्राह्मणे अष्टमाध्यायस्य प्रथमः खण्डः ।
अथ द्वितीयः खण्डः ।
अथ प्रतिष्ठार्थिनः प्रयोगे ब्रह्मसाम विधत्ते—
आष्‌कारनिधनं काण्वं प्रतिष्ठाकामाय ब्रह्मसाम कु-
र्यात् ॥ १ ॥
'आष्' इतिकरणमुच्चारणमाष्कारः तन्निधनोपेतं काण्वं काण्वेन दृष्टं
ब्रह्मसाम 'तञ्चोदस्ममृतीष्वह'मित्यादिषु कुर्यात् ॥ १ ॥
अथ निधनद्वारैतत्प्रशंसति—
कण्वो वा एतत्सामर्त्ते निधनमपश्यत् स न प्रत्य-
तिष्ठत्स वृषदंशस्याषिति क्षुवत उपाशृणोत्स तदेव नि-
धनमपश्यत्ततो वै स प्रत्यतिष्ठद्यदेतत्साम भवति प्रति-
ष्ठित्यै ॥ २ ॥
कण्वः पूर्वमेव तत्साम निधनरहितं केवलमपश्यत् । स निधनस्य
प्रतिष्ठारूपत्वात्तदभावेनाप्रतिष्ठितोऽभूत् । स किन्निधनं प्रतिष्ठासाधन-
त्वेन करवाणीति चिन्तयन् तदा वृषदंशस्य मार्जारस्य 'आष्' इति क्षुव-
तः शब्दमुपाशृणोत् । स एतदेवोपश्रयणन्निधनं भविष्यतीत्यवगत्य तदेव
प्रयुक्तवान् । ततश्च प्रतिष्ठितोऽभूत् । अतो यत्साम एतन्निधनकं भवेत्
तच्च प्रतिष्ठित्यै भवति ॥ २ ॥
अप्रजार्थिनः प्रयोगे ब्रह्मसाम विदधाति—
ऽवसिष्ठस्य जनित्रं प्रजाकामाय ब्रह्मसाम कुर्य्यात् ॥ ३ ॥
तञ्चोदसमित्यादि वसिष्ठस्य जनित्रम् ॥ ३ ॥
अस्य प्रजासम्बन्धमाह—
ऽवसिष्ठो वा एतत्पुत्रहतः सामापश्यत्स प्रजया प-
शुभिः प्राजायत यदेतत्साम भवति प्रजात्यै ॥ ४ ॥
पूर्वे हतपुत्रो वसिष्ठः प्रजात्यर्थमेतत्‌सामापश्यत्तदेव प्रयुज्य प्रजाप-
शुसमृद्धोऽभूत् अतः प्रजार्थिभिरेतत्कर्त्तव्यम् ॥ ४ ॥