सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 296, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 296

पूर्वं साध्याख्या देवा आसन्। ते सर्वेण यज्ञेन सोपकरणेन सोमादि-
साधनमादायैव स्वर्गं लोकमायन्नगमन् । ते प्रसिद्धा वस्वादयो देवा
आदौ स्वर्गसाधनयज्ञार्थसोमाहरणाय च्छन्दांसि गायत्र्यादीनि यूयं सोमं
द्युलोकादाहरतेत्युक्तवान्। तान्यपि तथैवाङ्गीचक्रुरिति शेषः। तथोक्ता-
स्ते जगतीं प्राहिण्वन्नप्रेरयन्। सा तत्रत्यैः सोमपालैः सह युद्धा त्रीण्यक्ष-
राणि हित्वैकाक्षरा भूत्वा पुनर्देवानागच्छत् । चतुरुत्तराणि वै तर्हि
च्छन्दांसि वक्ष्यति तदभिप्रायकमिदम्। पुनस्ते त्रिष्टुभं प्राहिण्वन्। सापि
पूर्ववत् सोमपालेष्वेकमक्षरं हित्वा त्र्यक्षरा भूत्वा पुनरागच्छत् । ते पु-
नर्गायत्रीं प्राहिण्वन् । च्छन्दांसि सर्वाणि चतुरुत्तराण्यासन् । अतः सा
गायत्री द्युलोके सोमरक्षकैः कृष्णप्रभृतिभिर्जितानि जगतीत्रिष्टुभोश्च-
तुरक्षराणि हरन्ती अष्टाक्षरा भूत्वा आगच्छत् । पुनः किं कुर्वन्त्यागच्छ-
दित्युच्यते त्रीणि च सवनानि सवनत्रयपर्याप्तानि सोमद्रव्याण्यादा-
येति । तद्विविच्योच्यते हस्ताभ्यां द्वे सवने धृत्वा दन्तैस्तृतीयसवनं
दंष्ट्वाऽऽगच्छत् । यस्मादेवं तस्माद्धस्ताभ्यां धृते द्वे सवने प्रातर्मध्यन्दिन-
सवनयोग्ये सोमद्रव्ये पीडाभावात् अंशुमती अभूताम्। तृतीयसवनं धीतं
पीतसारभूतं तत्र हेतुमाह दन्तैर्हि तद्द्रव्यं दष्ट्वा धयन्ती पिबन्ती अह-
रत् । ह्रियमाणस्य सोमस्य पतिताः अंशवः पूतीका अभवन् । तस्य सो-
मस्य यानि पुष्पाण्यवाशीयन्त अवशाादितानि प्रभ्रष्टान्यासन् । शदेः
पात्रेत्यादिना शीयादेशः । तान्यर्जुनानि हरितवर्णान्यभवन् । यत्
प्राप्रोथत् अधनुताङ्गानि प्रप्रोथाख्या ओषधय आसन्। तस्मात्सोमाभावे
पूतीकादीनां प्रतिनिधित्वेन स्वीकर्त्तव्यतामभिधातुं प्रासङ्गिकानामेषां
उपन्यासः। तस्माद्धीतत्वात्तृतीयसवन आशिरं दधिपयोद्रव्यमवनय-
न्ति । यमेव तं सोममोषधीनां सारं गावोऽदन्ति भक्षयन्ति तस्य सोम-
स्य तं रसमवनयन्ति । आशिरावनयने हेतुः ससोमत्वाय सरसत्वाय ॥१॥
एवं गायत्रीं प्रशस्येदानीं सवनसम्बन्धमाह—
ते त्रिष्टुब्जगत्यौ गायत्रीमब्रूतामुप त्वायावेति साऽ-
ब्रवीत् किं मे ततः स्यादिति यत्कामयस इत्यब्रूतां
साब्रवीन्मम सर्व्वं प्रातः सवनमहमुत्तरे सवने प्रणया-
नीति तस्माद्गायत्रं प्रातःसवनं गायत्र्युत्तरे सवने प्र-
णयति ॥ २ ॥
ते गायत्र्यपहृताक्षरचतुष्टये त्रिष्टुब्जगत्यौ गायत्रीमब्रूताम् किमिति ?
त्वा त्वां उपायावेति उपगच्छावेति । सा पुनरब्रवीत्। मे मह्यं ततो युष्म-