ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
२३६ ताण्ड्यमहाब्राह्मणे
तेषु भूयिष्ठवीर्येषु सामसु त्रिणिधनं निधनत्रयोपेतं यौधाजयं
ज्योतिष्टोमे द्वितीयं भवतीति तद्विधिरवगन्तव्यः। ननु पूर्वं 'गायत्रं निध-
नवदनिधनम्' इत्यत्र यौधाजयस्यानिधनशब्देन व्यवहारः। इदानीन्तु त्रि-
निधनमित्युच्यते। अतो व्याहतमिति ? नैतदस्ति । पूर्वं यौधाजयं वहि-
र्निधनाभावादनिधनमित्युक्तम्। इह तु 'बासी'त्येकं निधनं १ 'दासी'त्यपरं
२ 'प्या या' ३ इत्युत्तममिति निधनत्रयसद्भावात्त्रिणिधनमित्युक्तम्॥१७॥
अथ तत् प्रशंसति—
अबलिष्ठ इव वा अयम्मध्यमो लोकस्तस्यैव तदाय-
तनं क्रियते ॥ १८ ॥
मध्यमोऽन्तरिक्षलोकोऽबलिष्ठ इव वै । अत्यन्तमप्रबल इव प्रतिभा-
तीतरलोकद्वयवदनाश्रयत्वात् । तस्यैवाबलिष्ठस्यैवान्तरिक्षस्य तत्त-
दानीं यदा यौधाजये त्रिणिधनं प्रयुज्यते तदाऽयतनं क्रियते कृतं भवति।
कैश्चिद्दूरिष्ठ इवेत्यभिधीयते ॥ १८ ॥
तदेव पुनः प्रशंसति—
त्रिणिधनं भवति त्री
षष्ठाध्याये तृतीयः खण्डः । २३७
उक्तन्त्रिणिधनं प्रतिष्ठाहेतुरिति तद्व्यतिरेकेणाप्रतिष्ठितत्वसंकीर्त्त-
नेन प्रशंसति—
त्रिणिधनं भवत्येतेन वै माध्यन्दिनंꣳसवनं प्रति-
ष्ठितं यत्त्रिणिधनं यत्त्रिणिधनन्न स्यादप्रतिष्ठितम्मा-
ध्यन्दिनंꣳसवनंꣳस्यात् ॥ २१ ॥
त्रिणिधनं प्रतिष्ठाहेतुरिति पूर्वमुक्तम् । शिष्टं सुज्ञानम् ॥ २१ ॥
इदानीं निधनगताक्षरसंख्ययापि स्तौति—
द्व्यक्षराणि निधनानि भवन्ति द्विपाद्यजमानो यज-
मानमेव यज्ञे पशुषु प्रतिष्ठापयति ॥ २२ ॥
निधनेष्वक्षरद्वयं यजमानोऽपि द्विपात् । उभयोरपि प्रतिष्ठारूपत्वा-
न्निधनप्रयोगेण यजमानमेव यज्ञे पशुषु च प्रतिष्ठापयति ॥ २२ ॥
तदेव रौरवयोधाजये उक्त्वौशनमाह—
अनिधनमन्ततो भवति स्वर्गस्य लोकस्यानतिपा-
दाय ॥२३॥
अनिधनन्निधनहीनमौशनमन्ततो भवति । तच्च स्वर्गस्य लोकस्यान-
तिपादायानाशाय भवति । न कदाचिद्यजमानं स्वर्गाय युज्यत
इत्यर्थः ॥२३॥
व्यतिरेके बाधमाह—
यत्त्रिणिधनवत्स्याद्यजमानंꣳ स्वर्गाल्लोकान्निर्हन्यात् ॥२४॥
अन्ततो यदि निधनवत्साम भवेत् स्वर्गाल्लोकान्निर्हन्यात् । नि-
धनं हि प्रतिष्ठा प्रतिष्ठायामतीय पश्वन्नादिसमृद्धिः । अतः क्रतुफलेन
स्वर्गे प्राप्तेऽप्यन्ततो निधनप्रयोगात् प्रतिष्ठा । पश्वन्नाद्यर्थं स्वर्गादिकमेव
लोकं यजमानः पुनरागच्छेदित्यभिप्रायः ॥ २४ ॥
अनिधनमन्ततो भवतीत्युक्तमनिधनमौशनमनुवदति स्तुत्यर्थम्—
स्वारं भवति ॥ २५ ॥
अन्त्यस्वरेण स्वरितेन यत्समाप्यते तत्स्वारम् । सर्वत्र तावत् च-
त्वार एव सामान्ताः। स्वारो निधनमिडावागिति । अत्रान्त्यमक्षरं स्वर-
यित्वा समापितं ‘हाई’कारश्च । द्वयमपि रूढ्या स्वर इति व्यपदिश्यते ।
अत्र हाईकारप्रसङ्गादुक्तार्थनिश्चयः ॥ २५ ॥
प्रवर्ग्यं प्रवृञ्जन्ति यज्ञस्यैव तच्छिरः प्रतिदधति ॥ ६ ॥
पूर्वमग्न्यादयश्चत्वारो देवा यशोऽर्थं सत्रमासत तस्मिन् समये
ते देवा एवमब्रुवन् । यद्यशो नोऽस्माकम्मध्ये प्रथमं ऋच्छात् प्राप्नुया-
त्perspectiveत्तद्यशो नोऽस्माकं सह साधारणमसद्भवत्विति समयं कृत्वा सत्रमा-
सत । तेषाम्मध्ये मखो देवं यश आर्च्छत् प्राप्नोत् । स तद्यश आदाया-
पाक्रामत् । अस्यापगतस्य तद्यशः प्रासहा प्रसहेन बलात्कारेणादित्सन्त
तदर्थन्तं पर्ययतन्त परितोऽयुध्यन् । स धन्वी धनुः प्रतिष्टभ्य शिर
आततज्यं कृत्वाऽतिष्ठत् । तस्य धनुर्ज्यां वल्मीका भूमावुत्पतिता अखा-
दन्त । ततो धनुरार्तिर्धनुषः कोटिरूर्ध्वा पतित्वा तस्य मखस्य शिरो-
ऽच्छिनत् । उपदीकानां धनुर्ज्याच्छेदः शाखान्तरतोऽवगन्तव्यः । तथाहि
तैत्तिरी
षष्ठाध्याये पञ्चः खण्डः । २४५
रूरु इति शब्दायमानो दहतीति रुरोऽग्निस्तत्सम्बन्धाद्रौरवं
साम ॥ १० ॥
प्रकारान्तरेण रौरवसंज्ञां विब्रुवन् स्तौति—
असुरा वै देवान् पर्य्ययतन्त तत एतावग्नी रुरौ
विष्वञ्चौ स्तोभावपश्यत्ताभ्यामेनान् प्रत्यौषते प्रत्युष्य-
माणा अरवन्त यदरवन्त तस्माद्रौरवम् ॥ ११ ॥
पूर्वे हि देवानसुराः पर्य्ययतन्त परितोऽयुध्यन्त । ततोऽग्नेरेतौ
रुरौ विष्वञ्चौ सर्वतो व्याप्तौ 'ऊहो ३ 'ऊवाऽण्यया औ ३ होवा'इति
द्वौ स्तोभावपश्यत्ताभ्यामेनान्प्रत्यौषददहत् । ते प्रत्युष्यमाणा अरवन्त
शब्दमकुर्वन् । यदरवन्त तत्तस्माद्रौरवनाम सम्पन्नम्। रूरुरवयोरुभयत्र
रेफसाम्यादूरसम्बन्धाद्रवसम्बन्धाच्च रौरवमिति नाम भवति ॥ ११ ॥
इन्द्रस्य यौधाजयख्ययशःसम्बन्धमाह—
अथेन्द्रो यौधाजयं प्राबृहत तद्वै स ऽवज्रं प्राबृहत
ऽवज्रो वै यौधाजयम् ॥ १२ ॥
अथेत्यानन्तर्य्यार्थे । इन्द्रो यौधाजयं यौध्यान् अजयत । वज्रप्रभा-
वकल्पनमेवं वज्रस्यैव परिकुर्वन्द्धिस्तेन तत्कार्य्यसिद्धेर्यौधाजयस्य
वज्रकारणत्वमेवं वज्रं वाक् इत्यनेनोच्यते ॥ १२ ॥
अथ विदुषः फलमाह—
ऽवज्रं भ्रातृव्याय प्रहरति य एवं ऽवेद ॥ १३ ॥
स्पष्टोऽर्थः ॥ १३ ॥
अथ निर्वचनद्वारा तदेव प्रशंसति ।
इन्द्रो वै युधाजित्तस्यैतद्यौधाजयम् ॥ १४ ॥
युधा युद्धेन शत्रून् जयतीतीन्द्र एव युधाजित् तस्य सम्बन्धि तत्
साम यौधाजयम् ॥ १४ ॥
अथ निर्वचनान्तरप्रदर्शनेन प्रशंसति—
युधा मर्त्या अजैष्मेति तस्माद्यौधाजयम् ॥ १५ ॥
हे मर्त्या मर्त्याः, युधा अजैष्म असुरानितीन्द्रोऽब्रवीदिति शेषः ।
तस्माद्युधाजस्य हेतुत्वात् यौधाजयमिति नाम सम्पन्नमिति स्तुतिः ॥१५॥
अथ वायोरौशनसम्बन्धमाह—
अथ वायुरौशनं प्राबृहत ॥ १६ ॥
स्पष्टम् ॥ १६ ॥
२४० ताण्ड्यमहाब्राह्मणे
बृहत्याः स्तोत्रे दक्षिणा दीयन्ते स्व एव तदायतने दी-
यन्ते ॥ ४ ॥
तान् तानि दिशां सारभूतानि चत्वार्यक्षराणि पशून् वै पशुरूपा-
ण्येवास्यां बृहत्यां येनाक्षरोपाधानेन बृहती भवति तस्यामुपादधुः।
तस्माद्बृहती पशव एव । तस्याः स्तोत्रे दक्षिणादानं स्वकीय एवायतने
दत्तं स्यात् ॥ ४ ॥
अथ बृहतीत्वं प्रश्नप्रतिवचनरूपेण प्रशंसति—
यन्वित्याहुरन्यानि च्छन्दाꣳसि वर्षीयाꣳसि क-
स्माद्बृहत्युच्यत इत्येषा हीमाँल्लोकान् व्यापनोन्ना-
न्यच्छन्दः किञ्चन यानि सप्त चतुरुत्तराणि च्छन्दाꣳसि
तानि बृहतीमभिसम्पद्यन्ते तस्माद्बृहत्युच्यते ॥ ५ ॥
अन्यानि पङ्क्तिप्रभृतीनि च्छन्दांसि वर्षीयांसि चतुरुत्तराणि बह्वक्ष-
राणि तानि परित्यज्य कथमेषा बृहत्युच्यते ? इति यथा ब्रह्मवादिन
आहुस्तत्रेदमुत्तरम् । एषेत्यादि तच्च स्पष्टम्। किञ्चैतानि सप्तचतुरुत्तराणि
गायत्र्यादीनि जगत्यन्तानि च्छन्दांसि सन्ति तानि बृहतीमभिसम्पद्य-
न्ते। कथं? उच्यते। एका गायत्री जगती चैका तयोरक्षराणि मिलित्वा
द्वासप्ततिर्भवन्ति। तानि द्वेधाविभागे सति षट्त्रिंशदक्षरात्मिके द्वे बृह-
त्यौ भवतः। एवमुष्णिग् त्रिष्टुभौ द्वे बृहत्यौ तथानुष्टुप्पङ्क्ती द्वे बृहत्यौ
स्वयञ्च बृहतीति। एवं सर्वाण्यपि च्छन्दांसि बृहतीमभिसम्पद्यन्तेऽतो
बृहत्युच्यत इति प्रशंसा ॥ ५ ॥
अथ माध्यन्दिने बृहत्यस्तित्वविषये ब्रह्मवादिन आक्षेपमवतारयति—
यन्वित्याहुर्गायत्रं प्रातःसवनं त्रैष्टुभम्माध्यन्दिन-
ꣳसवनआगतं तृतीयसवनङ्कस्माद्बृहत्या मध्यन्दिने
स्तुवन्तीति ॥ ६ ॥
स्पष्टोऽर्थः ॥ ६ ॥
तस्योत्तरमाह—
बहिष्पवमानेन वै देवा आदित्यꣳ स्वर्गं लोकमह-
रन् स नाध्रियत तं बृहत्या मध्यन्दिने स्तभ्नुवंस्तस्माद्
बृहत्या मध्यन्दिने स्तुवन्त्यादित्यꣳ ह्येषा मध्यन्दिने
दाधार ॥ ७ ॥
पूर्व्वे देवा बहिष्पवमानेनादित्यं स्वर्गं लोकमहरन्नगंमयन् । स ना-
ध्रियत तेन पवमानेन तत्र धृतो नाभूत् । तम्मध्यन्दिने पवमाने बृहत्याः
स्तोत्रेण स्तभ्नुवन्नधः प्रच्युतितः स्तम्भितवन्तः । यस्मादेवन्तस्मा-
न्मध्यन्दिने स्तुवन्ति । हि यस्मादेषा मध्यन्दिने दाधारादित्यमित्येतदु-
त्तरम् । एतावता बृहत्या मध्यन्दिने प्रसङ्गमुक्तम् ॥ ७ ॥
कथं माध्यन्दिनसवनस्य त्रैष्टुभत्वप्राप्तिरिति तत्प्रकारमाह—
यैरु कैश्च च्छन्दोभिर्म्मध्यन्दिने स्तुवन्ति तानि त्रि-
ष्टुभमभि सम्पद्यन्ते तस्मात्त्रिष्टुभो नयन्ति माध्यन्दिना-
त्सवनात् ॥ ८ ॥
उशब्दोऽप्यर्थे । यैः कैश्चापि च्छन्दोभिर्म्मध्यन्दिने सवने माध्यन्दिन-
पवमाने पृष्ठेषु चतुर्षु स्तुवन्ति तानि त्रिष्टुभो न गच्छन्ति । समवेतानि
च्छन्दांसि त्रिष्टुभमभि सम्पद्यन्ते । तस्मान्माध्यन्दिनात्सवनात्त्रिष्टुभः
सकाशात्नयन्ति। त्रिष्टुप्सम्पत्तिप्रकारं छन्दसामित्युन्नेतव्यम्।कथम्मा-
ध्यन्दिने पवमाने 'उच्चात' इति गायत्रे तृचे गायत्रामहीयवे द्वे सामनी
गातव्ये तदर्थं तृचस्य द्विरावृत्त्या षट् गायत्र्यो भवन्ति । तथा मैत्रावरु-
णे पृष्ठे 'कया न' इति गायत्रीतृचोत्पन्ने वामदेव्यसप्तदशस्तोमकत्वात् सप्त-
दश गायत्र्यस्ताः संयतास्त्रयोविंशतिगायत्र्यो भवन्ति । पुनश्च 'पवमा-
ने पुनान' इति बार्हते तृचे रौरवयौधाजयसामद्वयार्थं द्विरावृत्तेः षट्
बृहत्यो भवन्ति । तथा होतुः पृष्ठे 'अभित्वा शूर' इति प्रगाथे ककुबुत्तराका-
रं गानात्प्रथमे पर्याये प्रथमविष्टुतावास्तिस्रो बृहत्यः। इतरयोः पर्याय-
योरेकैकैति मिलित्वा पञ्च बृहत्यः शिष्टा द्वादशककुभः स्युः । यद्वा रथ-
न्तरमकृत्वा 'त्वामिद्धि'इति बृहत्सामपक्षेऽपि पञ्चैव बृहत्यो द्वादश ककु-
भः स्युः। तथा ब्राह्मणाच्छंसिनः पृष्ठेऽपि 'तञ्चोदस्मम्' इति प्रगाथे नौध-
सः प्रयोगे सप्तदशस्तोमकत्वात् सप्तदश बृहत्यः । एवमच्छावाकपृष्ठे 'त-
रोभिः' इति प्रगाथे कालेये सप्तदशबृहत्य इति द्वयोर्मेलने चतुस्त्रिंशद्भव-
न्ति पूर्वोक्तैः षड्भिः पञ्चभिश्च मिलित्वा सर्वाः पञ्चचत्वारिंशद्बृह-
त्यः । पूर्वोक्तरथन्तरबृहतोरन्यतरस्मिन्प्रयोगेऽवशिष्टा द्वादश ककु-
भस्त्रयोविंशतिषु गायत्रीषु मध्ये चतसृभिर्गायत्रीभिर्मिलित्वा द्वादश-
बृहत्यो भवन्ति । तन्मेलनमेवं छत एकैकस्याः ककुभोऽष्टाविंशत्यक्षरा-
णि गायत्र्याश्चैकस्मिन् पादे अष्टावक्षराणि तानि मिलित्वा षड्विंश-
दक्षरैरेका बृहती सम्पद्यत एवं द्वादश बृहत्योऽपि योजनीयाः। तदेवं पञ्च-
चत्वारिंशद्बृहतीभिः सप्तपञ्चाशद्बृहत्यो भवन्ति । एता अवशिष्टैकोनविं-
२१ ता०
२४२ ताण्ड्यमहाब्राह्मणे
शतिर्गायत्रीणां सप्तपञ्चाशतपादैर्मिलित्वा तावत्संख्याकास्त्रिष्टुभः स्युः ।
'पवमाने प्रतुद्रव'इति तृचेऽशने तिस्रः सिद्धास्तिस्रस्त्रिष्टुभ इति माध्य-
न्दिनसवनगतानि सर्वाणि च्छन्दांसीत्यष्टषष्टित्रिष्टुभो भवन्ति । अयं त्रि-
ष्टुप्सम्पत्तिप्रकारो भगवता कात्यायनेनोपग्रन्थे दर्शितः । तद्यथा 'यैरु-
कैश्च च्छन्दोभिरिति षष्टित्रिष्टुभ आसां सिद्धिस्त्रयोविंशतिगायत्र्यः
पञ्चचत्वारिंशतं बृहत्यो द्वादश ककुभश्चतसृभिर्गायत्रीभिस्ता बृहत्य-
स्ताः सप्तपञ्चाशतं तावन्त्यक्षराणि गायत्र्यस्तैस्त्रिष्टुभस्त्रिष्वाश्वोशने
'इति' इति ॥ ८ ॥
इति ताण्ड्यमहाब्राह्मणे सप्तमाध्यायस्य चतुर्थः खण्डः ।
अथ पञ्चमः खण्डः ।
अस्मिन् खण्डे गायत्रव्यतिरिक्तानि चत्वारि सामानि स्तूयन्ते
क्रमेण तत्रादावामहीयवं स्तौति—
प्रजापतिरकामयत बहु स्यां प्रजायेयेति स शोच-
न्नमहीयमानोऽतिष्ठत्स एतदामहीयवमपश्यत्तेनेमाः प्रजा
असृजत ताः सृष्टा अमहीयन्त यदमहीयन्त तस्मादाम-
हीयवम् ॥ १ ॥
पूर्वं प्रजापतिरेकाकी सन्नकामयत 'बहु स्यां प्रजायेय' इति । स
तस्यामवस्थायां स्वव्यतिरिक्तस्य कस्यचिदभावादमहीयमानोऽपूज्य-
मानः शोचन्नतिष्ठत् । स प्रजोत्पत्त्युपायत्वेनैतदामहीयवन्नाम सामा-
पश्यत् । तेन प्रयुक्तेन साम्नेमा देवमनुष्यादिरूपाः प्रजा असृजत
ताः सृष्टाः प्रजा अमहीयन्त अपूज्यन्त स्वाभिः प्रजाभिः । यदमहीयन्त
येन साम्ना सृष्टास्तस्मादामहीयवमिति शब्दसामान्येन स्तुतिः । अम-
हीयुना प्रजापतिना दृष्टत्वात् आमहीयवमिति तन्नाम सम्पन्नमित्यर्थः॥१॥
अथोक्तसाम्नः 'स्तौषे' इति निधनं प्रजापतेः श्रैष्ठ्यसाधनत्वेन
प्रशंसति—
ता अस्मात्सृष्टा अपाक्रामꣳस्तासान्दिवि सद् भूम्या-
दद इति प्राणानादत्त ता एनं प्राणेष्वात्तेषु पुनरुपावर्त्त-
न्त ताभ्य उग्रꣳशर्म्म महि श्रव इति पुनः प्राणान्
प्रायच्छत्ता अस्मादुदेवायोधꣳस्तासाꣳ स्तौष इति
? No, look at: त्त(double ta with repha? No,र्च्छत्त). Then: दा दा या? Wait, let's look at character 7: दा? Wait, compare to दाinआदादायापाक्रामत्vsतदादाय: In line 30: यश आर्च्छत्तदादादायापाक्रामत्तदस्य प्रासहादित्सन्त तं Wait, look at PB 6.5.6: "देवा वै यशस्कामाः सत्रमासताग्निरिन्द्रो वायुर्मखः। तेऽब्रुवन् यन्नो यश ऋच्छात्तन्नः सहासदिति। तेषां मखो यश आर्च्छत्। तदादायापाक्रामत्। तदस्य प्रासहादित्सन्त। तं पर्य्ययतन्त..." Wait! In PB 6.5.6: "तेषां मखो यश आर्च्छत्। तदादायापाक्रामत्।" Wait, why "मखो"? In line 28-29: L28 ends with:वायुर्म्म- L29 begins with:खस्तेऽब्रुवन्न्यन्नो... Wait!वायुर्मखः। तेऽब्रुवन्->वायुर्म्मखस्तेऽब्रुवन्! Then: ...तेष
१३८ ताण्ड्यमहाब्राह्मणे
स्वरं प्रशंसति—
स्वरेण वै देवेभ्योऽन्ततोऽन्नाद्यं प्रदीयते स्वरेणैव त-
देवेभ्योऽन्ततोऽन्नाद्यं प्रयच्छति ॥ २६ ॥
अन्ततो मन्त्राणां स्वाहान्ते स्वरितभूते देवेभ्योऽन्नाद्यं हविः प्रदी-
यते । तत्तस्मात्तेन स्वरप्रयोगेण देवेभ्योऽन्ततः सामान्तेऽन्नाद्यं प्रय-
च्छति दत्तवान् भवति ॥ २६ ॥
माध्यन्दिनपवमानगतानामाद्यन्तसामनी स्तोतुमनुवदति—
गायत्रं पुरस्ताद्भवति स्वारमन्ततः ॥ २७ ॥
स्पष्टोऽर्थः ॥ २७ ॥
अथ स्तौति—
प्राणो वै गायत्रं प्राणः स्वरः प्राणानेव तदुभयतो
दधाति तस्मादुभयतः प्राणाः पशवः ॥ २८ ॥
गायत्रस्य प्राणरूपत्वम् । गायत्र्याः प्राथम्येन मुखजन्यत्वेन तद्रूपत्वं
पूर्वमेवोक्तम् । स्वरस्यापि प्राणनिरोधमन्तरेणानुत्पत्तेः प्राणत्वम् । तत्तेन
प्राणानेवोभयत आद्यन्तयोर्युपर्यधश्च दधाति । तस्मात्पशव उभयतः
प्राणा उपर्यूर्ध्ववृत्तिः प्राणोऽधस्तादधोवृत्तिरपान इत्युभयतः प्राणाः
पशवः ॥ २८ ॥
पुनः प्रशंसति—
यद्गायत्रं पुरस्ताद्भवति स्वारमन्ततः प्राणैरेव प्रै-
त्यपाने प्रतितिष्ठति ॥ २९ ॥
पुरस्ताद्गायत्रस्य करणात्पुरोगमनहेतुना प्राणेन प्रैति प्रगच्छति ।
अन्तःप्रतिष्ठायां स्वरस्य करणात्प्रतिष्ठाहेतुनापानेन प्रतितिष्ठति ॥ २९ ॥
इति ताण्ड्यमहाब्राह्मणे सप्तमाध्यायस्य
तृतीयः खण्डः ।
अथ चतुर्थः खण्डः ।
अथास्मिन् खण्डे बृहत्याख्यं मध्यमं छन्दः स्तूयते । आदौ तावत्स्व-
र्ग्यत्वेन दक्षिणा योज्येति प्रशंसति—
एतद्वै यज्ञस्य स्वर्ग्यं यन्माध्यन्दिनं सवनꣳ मा-
ध्यन्दिनस्य पवमानः पवमानस्य बृहती यद्बृहत्याः
सप्तमाध्याये चतुर्थः खण्डः । २३९
स्तोत्रे दक्षिणा दीयन्ते स्वर्गस्यैव तल्लोकस्यायतने
दीयन्ते ॥ १ ॥
माध्यन्दिनं सवनं यदस्त्येतद्वै-एतदेव यज्ञस्यावयवेषु मध्ये स्व-
र्ग्यम् । यद्येवं तन्माध्यन्दिनसवनस्यावयवेषु मध्ये माध्यन्दिनः पवमानः
स्वर्ग्यः । तद्रूच्छन्दसां मध्ये बृहती स्वर्ग्या । तथा सति यद्यदि बृहत्याः
स्तोत्रे रौरवयौधाजययोर्गानसमये दक्षिणा दीयन्ते यजमानैः । सिद्धम-
न्यत् । अनेन माध्यन्दिनपवमानस्य मध्ये दक्षिणा दातव्येत्युक्तम्। तच्चा-
सन्नेषु नाराशंसेषु दक्षिणा दातव्येत्यनेन सह विकल्प्यते । यद्वा बृहत्याः
स्तोत्रे निवृत्ते दक्षिणा देयेति व्याख्येयम् । यथोक्तेन सह विरोधो न
भवति ॥ १ ॥
अथ प्रकारान्तरेण तां प्रशंसति—
देवा वै च्छन्दाँस्यब्रुवन्युष्माभिः स्वर्गँ लोकमया-
मेति ते गायत्रीं प्रायुञ्जत तया न व्याप्नुवँस्त्रिष्टुभं प्रा-
युञ्जत तया न व्याप्नुवञ्जगतीं प्रायुञ्जत तया न व्या-
प्नुवन्ननुष्टुभं प्रायुञ्जत तयाऽल्पकादि न व्याप्नुवँस्त
आसान्दिशाँ रसान्प्रबृह्य चत्वार्यक्षराण्युपादधुः
सा बृहत्यभवत्तयेमाँल्लोकान् व्याप्नुवन् ॥ २ ॥
ते देवा गायत्रीं प्रायुञ्जत लोकव्याप्त्यर्थं प्रयुक्तवन्तः । तया न व्या-
प्नुवन् लोकान् । एवं त्रिष्टुभं जगतीं च प्रयुज्य ताभ्यां न व्याप्नुवन् ।
ततोऽनुष्टुभं प्रायुञ्जत तयाऽल्पकादि न देशान् व्याप्नुवन् । ते पश्चाद-
स्यामव वीर्यमाधाय व्याप्नुयामेति बुद्ध्वा—आसाम्मुख्यदिशां रसान् प्र-
बृह्योद्धृत्य चत्वार्यक्षराणि कृत्वा अनुष्टुभ्युपादधुः । सा ऽक्षरचतु-
ष्टयोपेताऽनुष्टुब्बृहत्यभवत् । तयेमान् भूरादिलोकान् व्याप्नुवन् ॥२॥
अथ बृहत्या बृहत्त्वमुक्तव्याप्तिप्रवृत्तिनिमित्तकमित्याह—
बृहती मर्य्या ययेमाँल्लोकान् व्यापामेति तद्बृह-
त्या बृहत्त्वम् ॥ ३ ॥
हे मर्य्या मर्त्या बृहत्येषा ययेमान् लोकान् व्यापाम व्याप्ताः स्मे-
ति । तस्माद्बृहत्या बृहत्त्वं महत्त्वम् ॥ ३ ॥
पशुरूपाक्षरचतुष्टयसम्बन्धादपि बृहती स्वस्तोत्रे दक्षिणायोग्येत्याह—
पशून्वा अस्यान्तानुपादधुः पशवो वै बृहती यद्-
२४६ ताण्ड्यमहाब्राह्मणे
औशनस्वीकार एव प्राणाख्यवीर्य्यस्वीकार इत्याह-
तद्वै स प्राणवीर्य्यं प्रावृहत प्राणा वा औशनम् ॥ १७ ॥
औशनसामभागपृथक्करण एव प्राणाख्यस्य वीर्य्यस्य पृथक्कारः ।
तत्र हेतुः, औशनं साम प्राणाः खलु तस्मिन् स्वरनिधनसद्भावात् स्व-
रस्य प्राणनिरोधमन्तरेणोच्चारणानुपपत्तेः ॥ १७ ॥
विदुषः स्तुतिः-
सर्व्वमायुरेति य एवँ वेद ॥ १८ ॥
स्पष्टोऽर्थः ॥ १८ ॥
औशनसंज्ञानिर्व्वक्ति-
वायुर्व्वा उशनꣳस्तस्यैतदौशनम् ॥ १९ ॥
उशन् वशकान्तावित्यस्य कर्म्मणि रूपम् । काम्यते सर्व्वैः प्राणरूपत्वे-
नेत्युशन्वायुरेव तस्य सम्बन्धित्वादौशनमिति साम्नो नाम सम्पन्नम्॥१९॥
उशन् सम्बन्धादौशनमित्युक्त्वोशनसः सम्बन्धादौशनमाह-
उशना वै काव्योऽसुराणां पुरोहित आसीत्तं देवाः
कामदुघाभिरुपामन्त्रयन्त तस्मा एतान्यौशनानि प्राय-
च्छन् कामदुघा वा औशनानि ॥ २० ॥
पूर्वं ह्युशना नाम कवेः पुत्रोऽसुराणां विरोचनादीनां पुरोहित आ-
सीत्तं देवाः कामदुघाभिर्गोभिरुपामन्त्रयन्त । कथन्ताभिरनुमन्त्रण-
न्तत्राह । अस्मा उशनस एतान्यौशनानि सामानि कामधेनुसदृशानि
प्रायच्छन् । तेषां कामधुक्त्वप्रसिद्धिरुच्यते 'कामदुघा'इत्यादिना ॥२०॥
अथ विदुषः स्तुतिः-
कामदुघा एनमुपतिष्ठन्ते य एवँ वेद ॥ २१ ॥
य एवं जानाति-एनं कामदुघा गाव उपतिष्ठन्ते समीपं प्राप्नुवन्ति
दोहनशीलबहुगोयुक्तो भवतीत्यर्थः ॥ २१ ॥
इति ताण्ड्यमहाब्राह्मणे सप्तमाध्यायस्य पञ्चमः खण्डः ।
अथ षष्ठः खण्डः ।
एवं माध्यन्दिनं पवमानमुक्त्वा बृहद्रथन्तरं विवक्षुः प्रजापतेर्मन-
सि बृहतः प्रादुर्भावमाह-
प्रजापतिरकामयत बहु स्यां प्रजायेयेति स तूष्णीँ
मनसा ध्यायत्तस्य यन्मनस्यासीत्तद्बृहत्समभवत् ॥१॥
बहुभावाय प्रकर्षोत्पत्तिं कामयमानः स प्रजापतिस्तूष्णीम्बिभ्रद्व्या-
पारम्मनसाऽन्येन यदचिन्तयत्तस्य ध्यातुर्मनसि यदासीत्तद्बृह-
त्साम समभवत् सम्भूतं सामत्वेन परिणतमित्यर्थः ॥ १ ॥
अथान्तःस्थितगर्भस्य प्रजननार्थं प्रजापतेर्ध्यानमाह—
स आदधीत गर्भो वै मेऽयमन्तर्हितस्तं वाचा
प्रजनया इति ॥ २ ॥
स प्रजापतिरादधीत आध्यायत् । ध्यानप्रकार उच्यते मेऽन्त-
स्थं गर्भो निहितस्तं खलु गर्भं वाचा साधनेन प्रजननायोत्पाद-
यामीति ॥ २ ॥
अथ वाक्सृष्टिमाह—
स वाचं व्यसृजत सा वाग्रथन्तरमन्वपद्यत ॥ ३ ॥
स ध्यायन् प्रजापतिर्वाचं व्यसृजत सा च सृष्टा वाक् रथन्तरमनु
रथन्तरसामानुसृज्य पश्चादपद्यतागच्छ
२४८ ताण्ड्यमहाब्राह्मणे
ज्येष्ठब्राह्मणं वा एतत् ॥ ७ ॥
ज्येष्ठं प्रथमं ब्राह्मणं यस्य बृहत एतत् ज्येष्ठब्राह्मणम् । तथाहि रथन्त-
रसृष्टिप्रकाशकात्स वाचं व्यसृजत सा वाग्रथन्तरमन्वपद्यत तद्रथन्तरं
मर्त्या इत्यादिकाद् ब्राह्मणात्प्रथमं बृहत्सामप्रकाशकं तस्य यन्मनस्या-
सीत्तद्वृहत् समभवदिति ब्राह्मणं पूर्वभावित्वाज्ज्येष्ठम् । अतः पश्चादु-
त्पन्नस्यापि बृहतो रथन्तरादपि ज्येष्ठपुत्रत्वं युक्तम् ॥ ७ ॥
अथ विदुषः फलम्—
प्रज्यैष्ठ्यमाप्नोति य एवँ वेद ॥ ८ ॥
स्पष्टोऽर्थः ॥ ८ ॥
एवं बृहतो ज्येष्ठत्वं सिद्धं कथं रथन्तरस्य पूर्वप्रयोगप्राप्तिरिति
कश्चिद्ब्रह्मवादिनां प्रश्नमवतारयति—
यन्वित्याहुर्बृहत्पूर्वं प्रजापतौ समभवत्कस्माद्रथ-
न्तरं पूर्वं योगमानश इति ॥ ९ ॥
यद्यदि नु-अथ-इति-एवं वक्ष्यमाणप्रकारेणाहुर्ब्रह्मवादिनः । इति
शब्दानिर्दिष्टमर्थं विवृणोति । बृहत्साम पूर्वं प्रजापतौ सम्भूतम् । कस्मात्का-
रणाद्रथन्तरं सामोभयसामसु अहःसु पृष्ठ्यषडहादिषु सर्वेषु पृष्ठ्ये-
षु पूर्वं योगमानश इति प्रयोगं प्राप्नोति ॥ ९ ॥
तस्य परिहारमाह—
बृहदेव पूर्वꣳ समभवद्रथन्तरन्तु पूर्वꣳ सृष्ट्याऽसृ-
जत तस्मात्पूर्वं योगमानशे ॥ १० ॥
यद्यपि बृहदेव पूर्वं प्रजापतेर्मनसि समभवत् । न पितुर्विशेषोऽस्ति
रथन्तरं पूर्वं सृष्ट्या उत्पत्त्या असृजत सृष्टमभूत् । तस्मादिति तस्यैवो-
पसंहारः ॥ १० ॥
अथ ज्योगामयाविनः प्रयोग उभेऽपि कार्ये इति विवक्षुराह—
तयोः समानन्निधनमासीत्तस्मिन्नातिष्ठेतान्त आजि-
मैतां तयोर्हासिति बृहत्प्राणमुदजयदसिति रथन्तरम-
पानमभिसमवेष्टत ॥ ११ ॥
पूर्वं द्वयोर्बृहद्रथन्तरयोः समानं निधनमासीत् । तस्मिन्नेकस्मिन्नि-
धने नातिष्ठेतां न समजानीताम् । ममैवेदम ममैवेदमिति कलहमकुरुता-
न्तदर्थन्त आजिं संग्रामं समेतां समगच्छताम् । तयोर्मध्ये बृहत्
स्वेन निधनेन ‘हम्’ इत्यनेन प्राणमुदजयत् जितवत् । रथन्तरन्तु स्वेन-
षष्ठाध्याये षष्ठः खण्डः। २४९
'अस्' इतिनिधनेनापानमन्तरभिसमवेष्टत समावृणोत्। अनेनोभय-
त्रानुगतं सकारमेव पूर्वनिधनमुभयोरासीदिति मन्तव्यम् ॥ ११ ॥
ज्योगामयाविने ते उभे विदधाति—
प्राणापानौ वै बृहद्रथन्तरे ज्योगामयाविन उभे कु-
र्यादपक्रान्तौ वा एतस्य प्राणापानौ यस्य ज्योगामयति
प्राणापानावेवास्मिन्दधाति ॥ १२ ॥
'हस्'इति निधनस्य प्राणमुदजयद्धेतुत्वात्तन्निधनं बृहत्सामापि प्राण
एव। अपानसंवेष्टनहेतुत्वात् 'अस्'इति निधनस्य तद्युक्तं रथन्तरमपानम्।
तथा सति यस्य ज्योगामयति तस्य प्राणापानावपक्रान्तौ खलु। अत-
स्तस्य प्रयोग उभे बृहद्रथन्तरे कुर्यात्। तेनास्मिन् रोगिणि प्राणापाना-
वेव दधाति पुनः स्थापयति। माध्यन्दिने पवमाने बृहतीषु रथन्तरं का-
र्यं बृहत्सामपृष्ठं कार्यमिति तयोर्व्यवस्था ॥ १२ ॥
अथ बृहद्रथन्तरप्रसङ्गात्तद्विषयं कञ्चित्प्रश्नमुपक्षिपति—
यान्वित्याहुरुभे बृहद्रथन्तरे बहिर्णिधने कस्माद् बृह-
द्बहिर्णिधनानि भजतेऽन्तर्णिधनानि रथन्तरमिति॥१३॥
'हस् अस्' इति बृहद्रथन्तरयोरुभयोर्बहिर्निधनत्वात् कथं ? बार्ह-
तेष्वहःसु श्येतादीनि बहिर्निधनानि प्रयुज्यन्ते रथन्तरेष्वन्तर्निधनानि
प्रयुज्यन्ते ॥ १३ ॥
रथन्तरेष्वन्तर्निधनानि नौधसादीनि यदि विरुद्धमित्याक्षिपेयु-
स्तेषामुत्तरम्—
प्राणो बृहत्तस्माद्बहिर्णिधनानि भजते बहिर्हि प्रा-
णोऽपानो रथन्तरं तस्मादन्तर्णिधनानि भजतेऽन्त-
र्ह्यपानः ॥ १४ ॥
बृहतः प्राणरूपत्वाद्वहिर्निधनभाक्त्वं युक्तन्तत्र हेत्वभिधानं 'बहि-
र्हि प्राण' इति रथन्तरं त्वपान एव तस्मादन्तर्वर्त्यपानरूपत्वादन्तर्निध-
नभाक्त्वम्। तस्मादित्यस्य विवरणमन्तर्ह्यपान इति ॥ १४ ॥
निधनवैषम्ये हेत्वन्तरमाह—
महावृक्षौ वै बृहद्रथन्तरे निधनेन समर्ये ॥१५॥
बह्वाश्रयत्वाद्वृहद्रथन्तरे महावृक्षत्वेन निरूप्येते। अतस्ते निधनेन
विषमेण समर्ये सङ्गमयितव्ये ॥ १५ ॥
निधनसाम्ये दोषमाह—
१६० ताण्ड्यमहाब्राह्मणे
यद्द्वै महावृक्षौ समृच्छेते बहु तत्र निर्भग्नं प्रभ-
ग्नꣳ शेते ॥ १६ ॥
यद्यत्र खलु महावृक्षौ समृच्छेते । तत्र बहुशाखास्वङ्गादिकं परस्पर-
संघर्षणान्निर्भग्नं प्रभग्नं च सङ्कच्छेते भूमौ वैषम्ये तु नोक्तदोष इत्यर्थः॥१६॥
अथ बृहद्रथन्तरयोरन्यतरप्रयोगेऽप्यन्तरस्यापि फलसिद्धयेतयो-
र्द्वयोर्माहात्म्यं मनसा ज्ञातव्यमित्याह—
ऐरं वै बृहदैडꣳरथन्तरम्मनो वै बृहद्वाग्रथन्तरꣳ
साम वै बृहदृग्रथन्तरं प्राणो वै बृहदपानो रथन्तरमसौ
वै लोको बृहदयंꣳरथन्तरमेतानि मनसान्वीक्ष्योद्गाये
त्क्लृप्ताभ्यामेवाभ्यामुद्गायति ॥ १७ ॥
यद्बृहत्सामतदैरं वै'इरा-अन्नं तत्सम्बन्धि तत्साधनमित्यर्थः । यद्रथ-
न्तरन्तदैडं वै पशुसाधनं खलु शिष्टं सुज्ञानम् । एतानीरादिरूपाण्येते-
योः सम्बन्धीनि मनसाऽन्वीक्ष्य सम्भाव्य पश्चादेते उद्गायेत्।एवं कुर्वन्नु
द्गाताऽन्यतरप्रयोगेऽपि क्लृप्ताभ्यां प्रयुक्ताभ्यामुभाभ्यामुद्गायति । उ-
भयोरुद्गाने यत् फलन्तदन्यतरेणापि लभत इत्यर्थः । एतेषां मनसान्वी-
क्षणस्यान्यतरप्रयोगेऽपि कर्त्तव्यत्वं सूत्रकारोऽप्याह 'बृहता रथन्तरेण
वा स्तोष्यमाणः प्राक् स्तोमयोगाद्दश व्याहतीर्मनसा ध्यायेदैरमैड-
मिती'ति ॥ १७ ॥
इति ताण्ड्यमहाब्राह्मणे सप्तमाध्यायस्य
षष्ठः खण्डः ।
अथ सप्तमः खण्डः ।
बृहद्रथन्तरयोः स्तुतिप्रकारं समुच्चित्य दर्शयति—
पशवो वै बृहद्रथन्तरे अष्टाक्षरेण प्रथमाया ऋचः
प्रस्तौत्यष्टाशफाꣳस्तत्पशूनवरुन्धे ॥ १ ॥
बृहद्रथन्तरे उभे अपि पशवो वै तयोरनुष्ठानात् सिद्धेः । अत उभयोः
प्रथमाया ऋचः 'अभित्वा'त्वामिद्धि' इत्यनयोर्ऋचोरित्यर्थः । अष्टाक्षरे-
णादितोऽष्टाक्षरैः प्रस्तौति प्रस्तावभागं गायेत् । 'अष्टाक्षरसंख्या ऋगक्ष-
रसंख्या ऋगक्षरमात्रविषया न स्तोभादिविशिष्टविषया 'अभित्वाशूर-
नोनुमो वा' इति रथन्तरे 'औ हो ई त्वामिद्धि हवामहा३ए' इति बृहती-
ति विभागसंज्ञेनाष्टाक्षरप्रस्तावेनाष्टाशफान् पशून् प्राप्नोति यजमानः ॥१॥
अथोत्तरयोर्ऋचोः प्रस्तावभागमाह—
द्व्यक्षरेणोत्तरयोर्ऋचोः प्रस्तौति द्विपाद्यजमानो य-
जमानमेव यज्ञे पशुषु प्रतिष्ठापयति ॥ २ ॥
रथन्तरस्योत्तरयोर्ऋचोः ‘ईशानमस्य जगतः’ ‘न जातो न जनिष्यते’
इत्यनयोर्ऋचोः ‘ईशो वा न जीवे’ति द्व्यक्षरेण प्रस्तावभागं गायेत्। तथा
च बृहति ‘औ हाई तु वा३मे औहाई महा३ ए’ इति द्व्यक्षरेण प्रस्तौति ।
द्व्यक्षरस्यैाकाष्टाक्षरं मिलित्वा प्रशस्यते । यजमानोऽपि द्विपात्तमेव यज्ञे
यज्ञफलभूतेषु पशुषु प्रतिष्ठापयति प्रस्तोता ॥ २ ॥
अथ प्रस्तावमुक्त्वा रथन्तरस्य प्रतिहारभागनियममाह—
पञ्चाक्षरेण रथन्तरस्य प्रतिहरति पाङ्क्ताँस्तत्पशून-
वरुन्धे ॥ ३ ॥
आ ईशानमार२३ ईन्द्रा३’ इति प्रथमायां ‘न जातो नार ३ जा३’ इति
मध्यमायां ‘गव्यन्नस्त्वार ३हा३’ इत्युत्तमायामिति रथन्तरस्य तिसृष्वपि
प्रतिहारनियमात्तेन पञ्चाक्षरप्रतिहारेण पाङ्क्तानवयवगतपञ्चसंख्या-
योगेन पङ्क्तिसम्बन्धान् पशूनवरुन्धे यजमानः । रोमाणि त्वङ्मांसास्थि-
मज्जेति पशूनां पञ्चावयवाश्चत्वारः पादा आत्मा चेति वा ॥ ३ ॥
अथ बृहतः प्रतिहारभागमाह—
चतुरक्षरेण बृहतः प्रतिहरति चतुष्पदस्तत्पशून-
वरुन्धे ॥ ४ ॥
बृहतः प्रथमायां ‘त्वां काष्ठा ४ औ होवा’ इति । मध्यमायां ‘महस्तघा
३४ औहो वा’ इति । उत्तमायां ‘सत्रावाजा ३४ औहो वा’ इति ॥ ४ ॥
अथ बृहद्रथन्तरयोः ककुबुत्तरा गानं विदधाति—
न वै बृहन्न रथन्तरमेकञ्छन्दो यच्छत्ततः ककुभा-
वुत्तरे उपादधुस्तस्माद्बृहती प्रथमा ककुभावुत्तरे तस्मा-
द्वैबृहद्रथन्तरे एकर्चेन कुर्व्वन्ति न हि ते एकञ्छन्दोऽ-
यच्छत् ॥ ५ ॥
बार्हते प्रगाथे बृहद्रथन्तरे गीयेते तत्र पूर्वा बृहत्युत्तरा विष्टा-
रपङ्क्तिः । एवञ्च सत्युक्तेप्रगाथे एकां बृहतीं द्वे ककुभौ च सम्पादयितु-
म्प्राह । बृहतसाम रथन्तरं वा एकं छन्दो न खल्वयच्छत्-नियन्तुन्न श-
विष्यन्तानेवा-
Wait, look at "प्रथमायाँ": it has a candrabindu!
Yes, "प्रथमायाँ" with candrabindu.
Wait, let's look at "भवद् भविष्यन्तानेवा-":
Is there a space between 'भवद्' and 'भविष्यन्तानेवा-'?
Yes, a distinct space!
And is it 'भविष्यन्तानेवा-' or 'भविव्यन्तानेवा-'?
Let's look at 'विष्य': it is definitely 'भविष्यन्तानेवा-'.
वरुन्धे त्रीन् मध्यमायाँ रोहत्यात्मानं प्रजां पशुँ-
Wait, "मध्यमायाँ" has candrabindu! "पशुँ-" has candrabindu!
स्तानेवावरुन्धे त्रीनुत्तमायाँ रोहति त्रय इमे लोका
Wait, "त्रीनुत्तमायाँ": candrabindu on 'याँ'!
एष्वेव लोकेषु प्रति तिष्ठति ॥ ७ ॥
प्रथमायामृचि त्रीन् रोहति द्वितीयायां तृतीयायाञ्च त्रीनिति नव
रोहाः स्युः । प्रथमायां रोहत्रयेण भूतवर्त्तमानभविष्यत्कालीना भोगाः
सन्ति तानेव यज
[Header] सप्तमाध्याये सप्तमः खण्डः । २५३
प्रस्तोतोद्गातारं प्रवर्त्तयति प्रेरयति । अतस्तत्परिहाराय समुद्रमन्त-
र्द्धाय व्यवधायोद्गायेदुद्गाता । समुद्रस्यान्तर्धातुमशक्यत्वात्तदुपाय
उच्यते वागिति । वागेवेदमित्यादेयं मनस्याधानं कर्त्तव्यं ध्यातव्य-
मित्यर्थः । वाचः समुद्रस्य च कः प्रसङ्ग ? इत्यत्राह यः समुद्रः स वाग्वै ।
समुद्रवत् सर्वपदार्थानां स्वान्तर्निधानाद्वाक् समुद्र इत्युच्यते । तथा च
वाङ्निधानेन समुद्रमेवान्तर्निहितवान् भवत्यहिंसायै ॥ ९ ॥
अथोक्तदोषपरिहाराय तत्र कञ्चिद्विशेषमाह—
बलवद्गेयं व्वज्रमेवं प्रवृत्तं प्रत्युद्गृह्णाति ॥ १० ॥
बलवदिति स्पष्टाक्षरमुद्गात्रा गातव्यम्।तथा सत्यस्य दौर्बल्याभावा-
त्प्रस्तावस्वरूपं वज्रमेवोद्गृह्णात्यूर्ध्वमेव स्तभ्नाति ॥ १० ॥
तत्रैवोपायान्तरमाह—
बल्वला कुर्व्वता गेयमभिलोभयतेव व्वज्रमेवाभि-
लोभयति ॥ ११ ॥
बल्वला कुर्व्वता गेयं स्तोभवता गेयमभिलोभयता--इवेति । अभि-
लोभनं हिंसनं वज्रमभिलोभयामीति ध्यायता गेयमित्यर्थः । तथा सति
वज्रमेवाभिलोभयति हिनस्ति ॥ ११ ॥
रथन्तरगाने नियमविशेषमाह—
क्षिप्रङ्गेयं॑ स्वर्ग॑स्य लोकस्य समष्ट्यै॑ ॥ १२ ॥
क्षिप्रमविलम्बेन गातव्यम् । तच्च स्वर्गस्याविलम्बेन समष्ट्यै संप्राप्त्यै
भवति ॥ १२ ॥
अत्रैव नियमविशेषमाह—
देवरथो वै रथन्तरमक्षरेणाक्षरेण प्रतिष्ठापयतोद्गेय-
मरेणारेण हि रथः प्रतितिष्ठति ॥ १३ ॥
रथन्तरं साम देवानां वै रथः। तदक्षरेणाक्षरेण प्रतिष्ठापयतोद्गेयम् ।
हि यस्माद्रथः अरेणारेण रथाङ्गस्य शङ्कवो नेम्याधारभूता अराः प्र-
त्यरं हि रथः प्रतितिष्ठति ॥ १३ ॥
अथ तस्य भूस्पर्शनं विधत्ते—
यो वै देवरथमन्वन्वालभ्यातिष्ठत्यवास्मात्पद्यत इयं
वै देवरथ इमामालभ्योद्गायेन्नास्मादवपद्यते ॥ १४ ॥
यो हि देवरथं रथन्तरमन्वन्वालभ्यालम्भनं स्पर्शनमकृत्वा आतिष्ठ-
त्यारोहति सोऽस्माद्देवरथादवपद्यतेऽधःपतति । यथा लौकिकरथमन्-
२३ ता०
२६४ ताण्ड्यमहाब्राह्मणे
वलम्भ्यारोहन्नवपद्यते तद्वत् । अतस्तदवलम्बनस्य क उपाय ? इत्यु-
च्यते। इयं पृथिव्येव हि देवरथः। इयं वै लोको रथन्तर'मित्युक्तत्वात्त-
स्मादिमामालभ्योद्गेयम् ॥ १४ ॥
पुनस्तत्रैव कांचिन्नियममाह—
ईश्वरं वै रथन्तरमुद्गातृश्चक्षुः प्रमथितोः प्रस्तूयमाने
सम्मीलेत्स्वर्दृशं प्रतिवीक्षेत नैनञ्चक्षुर्जहाति ॥ १५ ॥
रथन्तरं साम स्तूयमानमुद्गातृश्चक्षुः प्रमथितोः प्रमाथितुमीश्वरं वै
समर्थं खलु । अतस्तस्मिन् प्रस्तूयमाने चक्षुः सम्मीलेन्मुकुलितं कु-
र्यात् । पुनः स्वर्दृशं स्वर्दृशमिति पदं गीयमानं प्रतिवीक्षेतावलोकयेत् ।
एवं सत्येनमुद्गातारं चक्षुर्न जहाति नान्धो भवति ॥ १५ ॥
रथन्तराश्रयभूतायामृच्यध्ययनप्राप्तं 'तस्थुष' इति पदं निन्दित्वा
प्रकारान्तरेण पठितव्यमित्याह—
प्र॒जन॑नं॒ वै र॑थन्त॒रं यत्त॑स्थुष इत्या॒हास्था॑युकोद्गातु-
र्वाग्भ॑वत्यपि प्र॒जन॑नं॒ हन्त्यस्थुष इति॑ व॒क्तव्य॑ꣳ॒ सु॒स्थु-
ष इति॑ वा स्था॒युकोद्गातु॒र्वाग्भ॑वति॒ न प्र॒जन॑मपि
हन्ति ॥ १६ ॥
रथन्तरं साम प्रजननस्यापत्योत्पादनस्य हेतुत्वात् स्वयमपि प्र-
जननमेव । तथा च यद्यदि तस्थुष इत्याहोद्गाता न हि तस्य वाग्रथ-
न्तरात्मिका स्थायुका स्थितिस्वभावा भवति न प्रसृता । अत एव प्रज-
ननमुद्गातुः प्रजोत्पादनसामर्थ्यमपिहन्ति । कथं तस्य परिहार ? इति
तत्राह । अस्थुष इति वक्तव्यन्तथोक्ते वाचामस्थायुकदोषः परिहृतो भ-
वति । अथवा सुस्थुष इति वक्तव्यं तेनास्य रथन्तररूपाया वाचः शो-
भनस्थायुकत्वं भवति प्रजननमपि नपिहन्ति । अयमभिप्रायः अस्थुष
इत्युक्तेरुद्गातु रथन्तररूपा वाक् प्रसृता भवति । रथन्तरगानस्य फल-
रूपं प्रजननमपि न हन्ति । सुस्थुष इत्युक्तौ सुशब्दश्रवणात् प्रजननक्ष-
याभावेन सुप्रजननं भवति ॥ १६ ॥
अथ रथन्तरगानात्पूर्वं 'व्यस्ते गोषु' इत्ययं मन्त्रो जप्तव्य इति वि-
धित्सुराह—
पृ॒ष्ठानि॒ वा अ॑सृज्यन्त॒ तैर्दे॒वाः स्व॒र्गं लो॒कमाय॑ꣳ॒स्ते-
षाꣳ॒ रथ॑न्तरम्महि॒म्ना नाश॑क्नोदुत्प॑तत् ॥ १७ ॥
पूर्वे देवा रथन्तरादीनि षट् पृष्ठानि सृष्ट्वा रथन्तरव्यतिरिक्तै-
[header]
सप्तमाध्याये अष्टमः खण्डः । २५५
रितरैः प्रयुक्तैः सह स्वर्गं लोकमायन् । तेषां मध्ये रथन्तरपृष्ठं महिम्ना
प्रवृद्धेन माहात्म्येन निमित्तेन तत्र तत्र विप्रकीर्णत्वेनेत्यर्थः। तेनोत्पतद्-
पि रथन्तरं स्वर्गं गन्तुं नाशक्नोत् ॥ १७ ॥
इदानीं स्वर्गसाधनत्वेन विदधाति—
तस्य॒ व्वशि॑ष्ठो महि॒म्नो वि॑नि॒धाय॒ तेन॑ स्तु॒त्वा स्वर्गँ॑
लो॒कमै॑त्तान् सं॒भृत्योद्गा॑येत ॥ ॥ १८ ॥
तस्य रथन्तरस्य महिम्नो माहात्म्यानि विप्रकीर्णानि विनिधाय
विशेषेणैकत्र स्थाप्य तेन स्तुत्वा वशिष्ठः स्वर्गं लोकमैदगच्छत् । तस्मा-
त्तन्महिम्नः संभृत्योद्गेयमितरैरपि ॥ १८ ॥
अथ गातव्यं संभृतमहिमानमन्त्रन्दर्शयति ।
यस्ते॑ गो॒षु म॑हि॒मा यस्ते॑ अ॒प्सु रथे॑ वा ते स्त॒न-
यि॒त्नौ य उ॑ ते॒ यस्ते॑ अ॒ग्नौ महि॑मा॒ तेन॑ सम्भव रथन्तर
द्रवि॑णवन्न एधि॑ ॥ १९ ॥
अस्यायमर्थः' हे रथन्तर यो यो महिमा ते तव सम्बन्धी गवादिषु
अग्न्यन्तेषु विप्रकीर्णो वर्त्तते तेन सर्वेण सम्भव समर्चितं प्रवृद्धं
भव । तथा भूतं सत् द्रविणवत् बहुद्रविणोपेतं सन्नोऽस्मदर्थमेधि
भव समागच्छ वा ॥ १९ ॥
इति ताण्ड्यमहाब्राह्मणे सप्तमाध्यायस्य सप्तमः खण्डः ।
अथाष्टमः खण्डः ।
अथाष्टमनवमयोर्वामदेव्यं स्तूयते तत्रादौ निर्वचनद्वारा तत्प्र-
शंसति—
अपो॒ वा ऋ॒त्व्य॒माच्छ॑त्तासां॒ व्वा॑युः पृ॒ष्ठे व्य॑वर्त्तत॒
ततो॒ व्वसु॑ व्वा॒मँ॑समभवत्तस्मि॒न् मित्रावरु॑णौ पर्य्य॑प-
श्यतां ताव॑ब्रूतां॒ व्वामं॒ मर्य्या॑ इ॒दं दे॒वेष्वाजा॑नीति॒ तस्मा॑-
द्वामदे॒व्यम् ॥ १ ॥
ऋत्व्यमृतुसंबन्धि प्रजननसामर्थ्यमप उदकानि खल्वाच्छद्-
गच्छत् । तासां प्राप्तर्त्वियानामपां वायुः पृष्ठे देशे व्यवर्त्तत-अनुप्रवृत्तोऽ-
भूत् । ततोऽद्भ्यः सकाशात् वामं वननीयं वसु धनं समभवत् । तत्सम्मू-
तं धनं मित्रावरुणौ पर्य्यपश्यतां दृष्टवन्तौ दृष्ट्वा च तावब्रूताम्। किमिति ?