सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 274, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 274

२६४ ताण्ड्यमहाब्राह्मणे
वलम्भ्यारोहन्नवपद्यते तद्वत् । अतस्तदवलम्बनस्य क उपाय ? इत्यु-
च्यते। इयं पृथिव्येव हि देवरथः। इयं वै लोको रथन्तर'मित्युक्तत्वात्त-
स्मादिमामालभ्योद्गेयम् ॥ १४ ॥
पुनस्तत्रैव कांचिन्नियममाह—
ईश्वरं वै रथन्तरमुद्गातृश्चक्षुः प्रमथितोः प्रस्तूयमाने
सम्मीलेत्स्वर्दृशं प्रतिवीक्षेत नैनञ्चक्षुर्जहाति ॥ १५ ॥
रथन्तरं साम स्तूयमानमुद्गातृश्चक्षुः प्रमथितोः प्रमाथितुमीश्वरं वै
समर्थं खलु । अतस्तस्मिन् प्रस्तूयमाने चक्षुः सम्मीलेन्मुकुलितं कु-
र्यात् । पुनः स्वर्दृशं स्वर्दृशमिति पदं गीयमानं प्रतिवीक्षेतावलोकयेत् ।
एवं सत्येनमुद्गातारं चक्षुर्न जहाति नान्धो भवति ॥ १५ ॥
रथन्तराश्रयभूतायामृच्यध्ययनप्राप्तं 'तस्थुष' इति पदं निन्दित्वा
प्रकारान्तरेण पठितव्यमित्याह—
प्र॒जन॑नं॒ वै र॑थन्त॒रं यत्त॑स्थुष इत्या॒हास्था॑युकोद्गातु-
र्वाग्भ॑वत्यपि प्र॒जन॑नं॒ हन्त्यस्थुष इति॑ व॒क्तव्य॑ꣳ॒ सु॒स्थु-
ष इति॑ वा स्था॒युकोद्गातु॒र्वाग्भ॑वति॒ न प्र॒जन॑मपि
हन्ति ॥ १६ ॥
रथन्तरं साम प्रजननस्यापत्योत्पादनस्य हेतुत्वात् स्वयमपि प्र-
जननमेव । तथा च यद्यदि तस्थुष इत्याहोद्गाता न हि तस्य वाग्रथ-
न्तरात्मिका स्थायुका स्थितिस्वभावा भवति न प्रसृता । अत एव प्रज-
ननमुद्गातुः प्रजोत्पादनसामर्थ्यमपिहन्ति । कथं तस्य परिहार ? इति
तत्राह । अस्थुष इति वक्तव्यन्तथोक्ते वाचामस्थायुकदोषः परिहृतो भ-
वति । अथवा सुस्थुष इति वक्तव्यं तेनास्य रथन्तररूपाया वाचः शो-
भनस्थायुकत्वं भवति प्रजननमपि नपिहन्ति । अयमभिप्रायः अस्थुष
इत्युक्तेरुद्गातु रथन्तररूपा वाक् प्रसृता भवति । रथन्तरगानस्य फल-
रूपं प्रजननमपि न हन्ति । सुस्थुष इत्युक्तौ सुशब्दश्रवणात् प्रजननक्ष-
याभावेन सुप्रजननं भवति ॥ १६ ॥
अथ रथन्तरगानात्पूर्वं 'व्यस्ते गोषु' इत्ययं मन्त्रो जप्तव्य इति वि-
धित्सुराह—
पृ॒ष्ठानि॒ वा अ॑सृज्यन्त॒ तैर्दे॒वाः स्व॒र्गं लो॒कमाय॑ꣳ॒स्ते-
षाꣳ॒ रथ॑न्तरम्महि॒म्ना नाश॑क्नोदुत्प॑तत् ॥ १७ ॥
पूर्वे देवा रथन्तरादीनि षट् पृष्ठानि सृष्ट्वा रथन्तरव्यतिरिक्तै-