ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
विषयाणां सूची । ९
[वामभागः]
विषयाः— पृष्ठम्—
एकादशाध्याये द्वितीयखण्डे--
तत्रैवाऽऽज्यस्तोत्राणां स्तोमक्लृप्ति-
प्रदर्शनम् ३९६
एकादशाध्याये तृतीयखण्डे--
तत्रैव माध्यन्दिनपवमानस्य स्तोत्री-
याणां साम्नाञ्च प्रदर्शनम् ३९८
एकादशाध्याये चतुर्थखण्डे—
तत्रैव पृष्ठस्तोत्रस्य स्तोत्रीयाणां सा-
म्नाञ्च विधानम् ४०१
एकादशाध्याये पञ्चमखण्डे--
तत्रैवाऽऽर्भवपवमानस्य स्तोत्रीयाणां
साम्नाञ्च विधानम् ४०४
एकादशाध्याये षष्ठखण्डे--
दाशरात्रिकस्य द्वितीयदिने बहिष्प-
वमानस्य तृचविधानम् ४१२
एकादशाध्याये सप्तमखण्डे--
तत्रैवाऽऽज्यस्तोत्राणां विधानम् ४१४
एकादशाध्यायेऽष्टमखण्डे--
तत्रैव माध्यन्दिनपवमानस्य तृचप्र-
दर्शनम् ४१५
एकादशाध्याये नवमखण्डे--
तत्रैव होतुःपृष्ठस्य स्तोत्रीयविधानम् ४१९
एकादशाध्याये दशमखण्डे--
तत्रैवाऽऽर्भवपवमानस्य स्तोत्रीयाणां
साम्नाञ्च विधानम् ४२१
एकादशाध्याये एकादशखण्डे--
तत्रैवोक्थ्यस्तोत्राणां तत्साम्नाञ्च वि-
धानम् ४२६
द्वादशाध्याये प्रथमखण्डे--
दाशरात्रिकतृतीयदिने बहिष्पवमानस्य
स्तोमप्रदर्शनम् ४३०
[दक्षिणभागः]
विषयाः— पृष्ठम्—
द्वादशाध्याये द्वितीयखण्डे--
तत्रैवाऽऽज्यस्तोत्राणां तृचप्रदर्शनम् ४३२
द्वादशाध्याये तृतीयखण्डे--
तत्रैव माध्यन्दिनपवमानस्य स्तोत्री-
याणां साम्नाञ्च प्रदर्शनम् ४३४
द्वादशाध्याये चतुर्थखण्डे--
तत्रैव पृष्ठस्तोत्रस्य स्तोत्रीयाणां सा-
म्नाञ्च विधानम् ४३९
द्वादशाध्याये पञ्चमखण्डे--
तत्रैवाऽऽर्भवपवमानस्य स्तोत्रीयादी-
नां विधानम् ४४५
द्वादशाध्याये षष्ठखण्डे--
तत्रैवोक्थ्यानां स्तोत्रीयविधानम् ४५२
द्वादशाध्याये सप्तमखण्डे--
दाशरात्रिकचतुर्थदिने बहिष्पवमानस्य
स्तोत्रीयविधानम् ४५५
द्वादशाध्यायेऽष्टमखण्डे--
तत्रैवाऽऽज्यस्तोत्राणां स्तोमस्तोत्रीया-
दीनां विधानम् ४५९
द्वादशाध्याये नवमखण्डे --
तत्रैव माध्यन्दिनपवमानस्य स्तोत्रीय-
प्रदर्शनम् ४६२
द्वादशाध्याये दशमखण्डे--
तत्रैव पृष्ठस्तोत्रस्य तृचप्रदर्शनम् ४६७
द्वादशाध्याये एकादशखण्डे--
तत्रैवाऽऽर्भवपवमानस्य तृचसाम्नां
प्रदर्शनम् ४७३
द्वादशाध्याये द्वादशखण्डे--
तत्रैवोक्थस्तोत्रस्य तृचप्रदर्शनम् ४८०
द्वादशाध्याये त्रयोदशखण्डे--
तत्रैव षोडशिस्तोत्रस्य स्तोत्रीयाणां
साम्नाञ्च विधानम् ४८३
ताण्ड्यमहाब्राह्मणगतविषयसूची समाप्ता ॥
The provided image contains an essentially blank page showing only very faint bleed-through/ghost text from the reverse side, making the original text illegible and impossible to reliably transcribe.
The only visible printed/digitized text is the footer metadata:
CC-0. ASI Srinagar Circle, Jammu Collection. Digitized by eGangotri Siddhanta Gyaan Kosha
९
ॐ तत्सत् ।
ताण्ड्यमहाब्राह्मणम् ।
प्रथमाऽध्याये
प्रथमः खण्डः ।
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।
यन्नत्वा कृतकृत्याः स्युस्तन्नमामि गजाननम् ॥ १ ॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलञ्जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ २ ॥
तत्कटाक्षेण तद्रूपं दधद्बुक्कमहीपतिः ।
आदिशत्सायनाचार्य्यं वेदार्थस्य प्रकाशने ॥ ३ ॥
ये पूर्व्वोत्तरमीमांसे ते व्याख्यायातिसङ्ग्रहात् ।
कृपालुर्माधवाचार्य्यो वेदार्थं वक्तुमुद्यतः ॥ ४ ॥
व्याख्यातावृग्यजुर्वेदौ सामवेदेऽपि संहिता ।
व्याख्याता ब्राह्मणव्याख्याङ्करोम्यौद्गात्रबुद्धये ॥ ५ ॥
पञ्चविंशतिरध्याया महति ब्राह्मणे स्थिताः ।
आद्येऽध्याये श्रुता मन्त्रा उद्गा
२ ताण्ड्यमहाब्राह्मणे
ननु प्रथमाध्याये समाम्नाताना'म्महन्मेवोच' इत्यादीनां मन्त्राणा-
ङ्कत्वङ्गत्वमयुक्तम्, क्रतुप्रकरणमध्ये पाठाभावात् । चतुर्थाध्यायप्र-
भृतीनि हि क्रतुप्रकरणानि भविष्यन्ति । चतुर्थपञ्चमाध्यायौ गवाम-
यननामकस्य संवत्सरसत्रस्य प्रकरणम्। 'गावो वा एतत्सत्रमासते'-
त्यारभ्य तयोरध्याययोराम्नातत्वात् । षष्ठाध्यायेऽग्निष्टोमप्रकरणं 'प्रजा-
पतिरकामयत बहुस्यां प्रजायेयेति, स एतमग्निष्टोममपश्यदि'त्यारभ्य
तस्याध्यायस्याम्नातत्वात् । एवमुत्तराण्यपि क्रतुप्रकरणान्यवगन्त-
व्यानि । नन्वेवं प्रथमाध्यायगता मन्त्रा द्वितीयतृतीयाध्यायगता वि-
ष्टुतयश्च न कञ्चित् क्रतुमारभ्याम्नाताः, अतो नैतेषां कत्वङ्गत्वं युज्यत
इति चेत् । मैवम् । अनारभ्याधीतानां प्रकृतिगामित्वमिति न्यायेन क्रत्व-
ङ्कत्वावगमात् । स च न्यायस्तृतीयाध्याये षष्ठपादस्य प्रथमाधिकर-
णे पर्णवाक्यमुदाहत्याभिहितः—
प्रकृतौ विकृतौ वा स्याद्यस्य पर्णेत्यसौ विधिः ।
प्रकृतावेव वा तुल्याद्वचनादुभयोरसौ ॥
जुहूमाश्रित्य पर्णत्वविधिः प्रकृतिमात्रगः ।
चोदकेनोभयप्राप्तेर्विकृतौ विधिनात्र किम् ॥
अनारभ्य श्रूयते—'यस्य पर्णमयी जुहूर्भवति न स पापश्लोकं शृ-
णोती'ति । तत्राव्यभिचरितक्रतुसम्बन्धवतीं जुहूमाश्रित्य तद्धेतुः पर्ण-
वृक्षो वाक्येन विधीयते । 'या जुहूः सा पर्णमयी'ति वाक्यञ्च प्रकृतिवि-
कृत्योस्तुल्यमेव प्रवर्त्तते, उभयत्राश्रयभूताया जुह्वाः सत्त्वात् । तस्मा-
त्प्रकृतिविकृत्योरुभयोरप्ययं विधिरिति प्राप्ते ब्रूमः ।
किमयं विधिर्विकृतौ चोदकात्पूर्वन्निविशते, पश्चाद्वा ? नाद्यः, आ-
श्रयभूताया जुह्वाः चोदकमन्त्रेणासम्भवात् । द्वितीये तु पर्णत्वमपि जु-
ह्वा सहैव चोदकेनातिदिश्यते । तत्र पुनर्विधिवैय्यर्थ्यादयं विधिः प्रकृ-
तिमात्रगः। एवं 'यस्य खादिरः स्रुवो भवती'त्युदाहरणीयम् । ननु का प्रकृ-
तिः, का विकृतिरिति चेत् । उच्यते । यत्र कर्त्तव्यं सर्वं प्रकर्षेण कर्म्मान्तर-
नैरपेक्ष्येणोपदिश्यते सा प्रकृतिः । यत्र विशेषरूपमेव कर्त्तव्यं श्रुत्योप-
दिश्यते इतरत्सर्वं कर्म्मान्तरादतिदिश्यते, सा विकृतिः । स चातिदेशः
प्रत्यक्षश्रुतिवचनाद्वा साम्याद्वा लिङ्गाद्वाऽवगन्तव्यः । तत्सर्वं सप्तमाष्ट-
माध्यायाभ्यां बहुधा विचारितम् । प्रकृतिश्च द्विविधा मूलप्रकृतिरवान्त-
रप्रकृतिश्चेति । सर्वात्मना कर्म्मान्तरनिरपेक्षा मूलप्रकृतिः । कतिपयेष्वङ्गेषु
कर्म्मान्तरं चापेक्षते, स्वयञ्च कैश्चित् कर्म्माभिरपेक्षणीया भवति, से-
यमवान्तरप्रकृतिः । तत्र तिस्रो मूलप्रकृतयः, ताश्चाष्टमाध्यायस्य प्रथम-
प्रथमाध्याये प्रथमखण्डः । ३
पादे तृतीयाधिकरणस्य द्वितीयवर्णके विचारिताः-
इष्ट्यग्निहोत्रसोमानां मूलप्रकृतिता नहि ।
अस्ति वा नालौकिकत्वादियत्तानवधारणात् ॥
लोकवत् सन्निपत्यारादुपकारिद्वयश्रुतेः ।
इयत्ताया निश्चितत्वान्मूलप्रकृतिता त्रिषु ॥
अलौकिकत्वेनैतावद्भिरङ्गैः सम्पूर्ण उपकार इति निश्चेतुमशक्य-
त्वात् इष्ट्यादीनां नास्ति मूलप्रकृतित्वमिति चेत् । मैवम् । लौकिक-
सदृशत्वात् । यथा लोके भुजिक्रियायामोदनः करणं तस्य सन्नि-
पत्योपकारिणः शाकसूपादयः आरादुपकारिणः पीठप्रदीपादयः ।
तथा भावनायां यागः करणम्, अवघातादयः सन्निपातिनः
प्रयाजादय आरादुपकारिणः, अतो नात्यन्तिकमलौकिकत्वम् । इयत्ता
तु लौकिके यथा प्रत्यक्षेण निश्चीयते तथा श्रौते श्रुत्या निश्चीयताम्,
तस्मादिष्ट्यग्निहोत्रसोमानां मूलप्रकृतित्वमस्ति । तासु प्रकृतिष्वेव
'महनमेवोच' इत्यादिमन्त्राणामङ्गत्वेन प्रवेशोऽवगन्तव्यः । प्रकृतित्वस्य
तत्रैव मुख्यत्वात् । तास्वप्येते मन्त्राः सोमयागे नेतुं योग्याः सोमं
गमेयमित्यादिलिङ्गसम्भवात्, नानाविधब्राह्मणगतानामेतदीयविनि-
योगानामृषिभिः सूचितत्वाच्च । ते च विनियोगा अस्माभिस्तन्मात्रव्या-
ख्यानावसरे प्रदर्शयिष्यन्ते । यस्य तु मतं सोमयागप्रकरणमिदं तस्य
न कोपि सन्देहः ।
सोमयागे चार्षर्त्विजो वरणीयाः, तथा ह्यापस्तम्बेनोक्तम्-‘सोमेन
यक्ष्यमाणो ब्राह्मणानार्षेयानृत्विजो वृणीत’ इति । आश्वलाय-
नोऽपि दर्शपूर्णमासेष्टिपूर्वकत्वं सोमयागस्योक्त्वा पक्षान्तरोपन्यासपूर्वक-
मेवमाह-‘प्रागपि सोमेनैके तस्यार्त्विजः चत्वारस्त्रिपुरुषाः तस्य तस्यो-
त्तरे त्रयः होता मैत्रावरुणो च्छावाको ग्रावस्तुदध्वर्युः प्रतिप्रस्थाता
नेष्टोन्नेता ब्राह्मणाच्छंस्याग्नीध्रः पोतोद्गाता प्रस्तोता प्रतिहर्त्ता सुब्रह्म-
ण्य इति, एतेऽहीनैकाहैर्याजयन्ति, एत एवाहिताग्नय इष्टप्रथमयज्ञा
गृहपतिसप्तदशा दीक्षित्वा समोप्याग्नींस्तन्मुखाः सत्राण्यासते’ इति ।
अस्यायमर्थः। दर्शपूर्णमासाभ्यामिष्ट्वा पश्चाद्वा तद्यजमानः पुरस्ताद्वा
सोमेन यजेत तस्य सोमयागस्य होताध्वर्युर्ब्रह्मोद्गातेति चत्वारः
ऋत्विजो मुख्याः ते च प्रत्येकं त्रिभिः पुरुषैरुपैता अतस्तस्य तस्य
एकैकस्योत्तरे त्रयः पुरुषा भवन्ति, त एते होत्रादिनामकाः षोडश-
र्त्विजो द्विरात्रादिभिरहीनसंज्ञकैरग्निष्टोमादिभिरेकाहसंज्ञकैर्याजयन्ति ।
एत एव होत्रादयः षोडशर्त्विजः स्वयमप्याहिताग्नयः प्रथमयज्ञेनाग्नि-
ष्टोमेनेष्ट्वा गृहपतिसंज्ञकेन सप्तदशसंख्यापूरकेण सहिता द्वादशाहादि-
सत्रार्थं दीक्षित्वा स्वस्वसम्बन्धिनोऽग्नीनेकत्र स्थापयित्वा तत्प्रधानाः
सत्राण्युत्तिष्ठेयुरित्येकाहाहीनसत्रात्मका य एते सोमयागास्तदी-
यस्यार्त्विजो होत्रादिरूपस्य सामान्यलक्षणं द्राह्यायणाभिधो महर्षि-
श्छन्दोगसूत्रकार आह—'ऋत्विगार्षेयोऽनूचानः साधुचरणो वाग्म्यन्यू-
नाङ्गो नातिरिक्ताङ्ग' इति ।
तादृशं ऋत्विजं वरीतुं यजमानः सोमप्रवाकं प्रेषयेत् ।
सोमयागवृत्तान्तमृत्विजे प्रकर्षेण वक्तीति सोमप्रवाकः । स
च वरीष्यमाणस्य समीपं गत्वा प्रब्रूयात् अस्मदीयो यजमानः सोमेन
यजते स त्वां प्रत्यार्त्विज्यमर्थयत इति । एवमुक्ते इतरो यद्यार्त्विज्यं
कर्तुन्नेच्छेत् तदानीं सोमन्नम
[H] प्रथमाध्याये प्रथमखण्डः । ५
वरणाभावमाश्रित्य द्राह्मायण उद्गातोरेवेदं प्रतिमन्त्रणम्मन्यते । यदि
तेषामपि वरणमङ्गीकुर्य्यात् तदा स्वकीयपरिभाषानुसारेण प्रस्तोता
प्रतिमन्त्रयेतेत्येवमादिशेत् , तदादेशाभावाद्बुद्गातोरेव वरणं प्रतिमन्त्रणं
च तन्मतमित्यवगम्यते ।
ननु तस्य मन्त्रस्य महन्म इत्येष आदिरिति प्रतीकग्रहणादेवाव-
गम्यते अन्तन्तु कथमवगम्यत इति चेत् । उत्तरमन्त्रस्यादिग्रहणादिति
ब्रूमः । उत्तरादिः पूर्वान्तलक्षणमिति सूत्रकारेण परिभाषितत्वात् । अत्र
सूत्रकारो ‘देवो देवमेत्वि’त्युत्तरमन्त्रादि ग्रहीष्यति, तस्माद्भुक्षिषीयेत्य
सौपूर्वमन्त्रस्यान्त इति द्रष्टव्यम् । मन्त्र पाठस्तु--
ॐ महन्मे वोचो भर्गो मे वोचो यशो मे वोचः
स्तोमं मे वोचो भुक्तिं मे वोचः सर्वं मे वोचस्तन्मावतु
तन्माविशतु तेन भुक्षिषीय ॥ १ ॥
हे सोमप्रवाक ! ‘मे’ मह्यमुद्गात्रे यजमानस्त्वामार्त्विज्यायार्थयत इति
यद्वचनं प्रायौक्षस्तत् ‘महत्’पूज्यं सर्वोत्कृष्टमेव ‘अवोचः’ उक्तवानसि, न
खल्वेतस्मात्पूज्यतमवचनं लोकेस्ति । तैत्तिरीयेऽपि वाजपेयफलत्वे-
नार्त्विज्यप्रशंसा कृता, तस्माद्वाजपेययाज्यः ऋत्विगधीनः सर्वा ह्यस्य
वाचोवरुद्धा इति । महाभाष्यकारेणापि व्याकरणाध्ययनफलतया-
र्त्विज्यं प्रशंसितुमिदं वाक्यमुदाहृतम्-‘यो वा इमां पदशः स्वरशो
वर्णशोऽक्षरशो वा वाचं विदधाति स आर्त्विजीनो भवतीति, तस्मा-
न्महदुक्तवानसि । तथा त्वं ‘भर्गः’ भर्जनं पापस्य विदारकं दीप्तं वा वचनं
‘मे’ मह्यं ‘अवोचः । तथा ‘यशः’ यशस्करं वचनं मे मह्यं अवोचः । सो-
मार्त्विज्यस्य यशस्करत्वं प्रसिद्धं श्रूयते च-‘सोमो वै यशः स एवं
विद्वान् सोममागच्छति यश एवैनमृच्छति’ इति । तथा ‘स्तोमं’ स्तुति-
साधनं त्रिवृदादिकं ‘मे’ मह्यं ‘अवोचः’ उद्गातृवरणस्य त्रिवृदादिप्रयो-
गार्थत्वादेवमुक्तम् । तथा ‘भुक्तिं’भोगसाधनमेव वचनं ‘मे’मह्यं ‘अवोचः’
आर्त्विज्यकरणेन हि भोगसाधनं गवादिद्रव्यं लभ्यते, अत एवोद्गा-
त्रादिवरणसमये कञ्चित्कल्याणो दक्षिणा इति पृच्छते । तथा ‘सर्वम्मे-
वोचः’ किमनया महद्भगं इत्यादि परिगणनया यद्यदस्मदभीप्सितं
तत्सर्वमपि मह्यमवोचः । त्वयोक्तम्महत्वभर्गत्यादिगुणविशिष्टं यदा-
र्त्विज्यमस्ति ‘तन्मावतु’ मां रक्षतु, रक्षार्थं ‘तत्’ आर्त्विज्यं ‘मा’ मां
विशतु । ‘तेन’ अनुष्ठितेनार्त्विज्येन ‘भुक्षिषीय’ भुक्षीय भोगान् भुञ्जीय ।
भुजिधातोराशिलिङि बहुलमिति सिप्, इडागमः, उकारादेश-
श्छान्दसः ॥ १ ॥
अथ द्राह्यायणो द्वितीयमन्त्रस्य विनियोगमित्थमाह- 'स्वयं व्रजेत्
क्रय उपवसथ्येवोदङ्ङेव तु गृहेभ्यः प्रथमन्दे वो देवमेत्विति' । यः सोम-
क्रयस्य दिवसो यश्चोपवसथ्याख्यः सुत्यादिवसात् पूर्वो दिवसस्तयो-
रन्तरस्मिन्दिवसे उद्गाता स्वयमेव देवयजनदेशं गच्छेत्, न त्वन्यं
प्रहिणुयात्, गमने त्वास्ति कश्चिद्विशेषः । यद्यपि स्वगृहाद्दक्षिणतो देव-
यजनं स्यात्तथापि 'देवो देवमेत्वि'ति मन्त्रेण स्वगृहेभ्यो निर्गच्छन्
प्रथमं कतिचित् पदान्यदृष्टार्थमुदङ्मुख एव गत्वा पश्चाद्देवयजनाभि-
मुखो भवेत् । ऋत्विग्वरणसोमक्रययोर्मध्यवर्तिनमाध्वर्यवं प्रयोगं क्रतु-
सङ्ग्रहकारः सूचयामास । ग्रन्थोऽत्र बुद्धिसमाधानायोदाह्रियते ।
अथाग्निष्टोमसंस्थेन ज्योतिष्टोमेन याजयेत् ।
स पूर्वमृत्विजो वृत्वा देवभूमिविनिश्चये ॥
दीक्षणायां निर्वपेत्सोऽपि पत्नीसंयाजसंस्थितिः ।
कृते प्राचीनवंशेऽथ संस्कारा वपनादयः ॥
हुत्वा दीक्षाहुतीः कार्या दीक्षा कृष्णाजिनादिभिः ।
दीक्षितो नियमैर्युक्तो भवेत् क्षीरव्रतादिभिः ॥
द्वादशाहं दीक्षितोथ भिक्षित्वा द्रव्यमानयेत् ।
सोमञ्चर्मण्यवस्थाप्य विवशेत्सोमविक्रयी ॥
शंय्वन्ता प्रायणीया स्याद्गृह्णीयात् क्रयणीपदम् ।
क्रीत्वा सोमं रथे क्षिप्त्वा प्राग्वंशाग्रे समानयेत् ॥ इति ॥
मन्त्रपाठस्तु--
दे॒वो दे॒वमे॑तु॒ सोम॑:॒ सोम॑मे॒त्वृतस्य॑ प॒था ॥ २ ॥
'देवः' द्योतमानः सोमः 'देवं' दानादिगुणयुक्तं इन्द्रादिकं 'ऋतस्य'
यज्ञस्य 'पथा' मार्गेणादावाहुतिप्राणादिनाऽद्या 'एतु' प्राप्नोतु । यद्वा
दीव्यतिस्तुतिकर्मकादेव स्तोतोद्गाता। अथवा 'पर्ज्जन्यो म उद्गातेति' वर-
णमन्त्रे श्रवणात् पर्जन्याख्यदेवतारूप उद्गाता देवं दीप्यमानं फलप्रका-
शकं वातयज्ञमृतस्य सम्बन्धिना पथा देवयजनमार्गेणैतु गच्छतु ।
'सोमः' अभिषवादिसंस्कृतो रसात्मकः 'सोमं' देवतारूपममृतं द्यु-
स्थानं स्वमूर्त्यन्तरं 'एतु' प्राप्नोतु रसात्मकः सोम एवामृतमयो
द्युस्थानः सोमो भवत्वित्यर्थः । 'तमेव खलु देवा उपजीवन्ति यम-
क्षितिमः क्षितयः पिबन्ति' इति श्रुतेः ॥ २ ॥
प्रथमाध्याये प्रथमखण्डः। ७
द्राह्मायणः-'दूरं व्रजित्वा विहाय दौष्कृत्यमिती'ति। यदि दूरमध्वानं
व्रजेत् तदानीमप्रयतदेशा तिक्रमणादिकमवर्जनीयं स्यात् ततो यत्कि-
ञ्चित् दुष्कृतमवश्यं भवेत् तच्छान्तये विहाय दौष्कृत्यमित्येवं
मन्त्रं जपेत् ।
विहाय दौष्कृत्यम् ॥ ३ ॥
दुष्कृतस्य भावः दौष्कृत्यं तद्विहाय मनसा परिहृत्य देवयजनं
गच्छामीति मन्त्रार्थः ॥ ३ ॥
द्राह्मायणः-'बद्धानामासीति पन्थानमापद्ये'ति । देवयजनस्य समी-
पवत्तिनं पन्थानमासाद्य बद्धेति मन्त्रं जपेत् ।
मन्त्रपाठस्तु-
बद्धानामासि सृतिः सोमसरणी सोमं गमेयम् ॥ ४ ॥
हे देवयजनमार्ग ! त्वं 'बद्धानामासि' नामाशब्दः प्रसिद्धः प्रसिद्धार्थः ।
बद स्थैर्ये इति धातो रन्येभ्योपि दृश्यन्ते इति वनिप् । बद्धा स्थिर
इतरस्माल्लौकिकान्मागाद्द्दढतर इति प्रसिद्धो भवति, स्थिरफलप्राप्ति-
हेतोर्यज्ञस्य साधनत्वात् । यद्वा बद्धेत्येषा देवयजनमार्गस्य वैदिकी संज्ञा
एतत्संज्ञो भवतीत्यर्थः । अथवा बवर्णस्य व्यत्ययेन यकारस्य स्थाने
वकारः । यद्वा नामेत्येव सूत्रं, तदाहापस्तम्बः,-'यद्वा देवयजनं प्रति
गन्ता एतत्संज्ञस्त्वमसि । 'सोमसरणी' सोमस्य प्राप्तिसाधनाभूता
'सृतिः' मार्गो भवसि । तया सृत्त्या 'सोमं' सोमयागं 'गमेयं' प्राप्नुयां,
गमिधातोर्लिंङ्याशिष्यङित्यङ् ॥ ४ ॥
द्राह्मायणः-'उत्तरवेद्यन्तमाक्रम्य दक्षिणमीक्षमाणः पितरोभूरि'ति ।
देवयजनं प्रविश्यमाणः महावेदिपार्श्वमाक्रम्य 'पितरोभूरिति' मन्त्रेण
पितॄनुपतिष्ठेत् । तथा चापस्तम्बः-'पितरोभूरिति दक्षिणावृत्तः
पितॄनुपतिष्ठेत' इति । मन्त्रपाठस्तु--
पितरो भूः पितरो भूः पितरो भूः ॥ ५ ॥
हे पितरः ! इयं 'भूः' दक्षिणवेद्यन्तलक्षणा भूमियुष्माकं निवासायेति
शेषः, कर्मसमाप्तिपर्यन्तमत्र निवसतॆति भावः । त्रिरुक्तिरादरातिश-
यद्योतनार्था, पितृपितामहप्रपितामहानां त्रित्वापेक्षया वा ॥ ५ ॥
द्राह्मायणः-'यूपमुच्छ्रीयमाणमनुमन्त्रयेरन्नृमणऊर्ध्वभरसं त्वेती'-
ति । अध्वर्युर्यूपं यदोच्छ्रयेत् तदानीमुद्गातारो नृमणं इत्यनुमन्त्रयेरन् ।
८ ताण्ड्यमहाब्राह्मणे
अत्रापि पूर्ववत् क्रतुसङ्ग्रहः—
क्रीत्वा सोमं रथे क्षिप्त्वा प्राग्वंशाग्रे समानयेत् ।
आतिथ्यां निर्वपेत्सोममासंद्यामुपसादयेत् ॥
आतिथ्येष्टिरिडान्ता स्यात्तानूनपत्रमवद्यति ।
दीक्षामवान्तरामेति प्रवर्ग्योपसदोः कृतिः ॥
दिनत्रये तत्कृतं स्याद्वेदिर्मध्यन्दिने भवेत् ।
षट्त्रिंशत्पददीर्घैषा प्राग्वंशात् पूर्वतः स्थिता ॥
प्रातः प्रवर्ग्यमुद्वास्य पश्चादुत्तरवेदितः ।
शकटे द्वे हविर्द्धाने हविर्द्धानंश्च मण्डपम् ॥
पश्चात्सदस्तस्य मध्ये निखातौदुम्बरी मिता ।
दक्षिणस्यानसोऽधस्तात् गर्त्तानूपरवान् खनेत् ॥
विधाय फलकाभ्यान्तानग्रे कुर्यात् मृदा खरम् ।
निर्वपेद्धिष्ण्यगानग्नीषोमीयं पशुमाचरेत् ॥
प्रयुज्योचितपात्राणि दर्शवत्सर्वमाचरेत् ।
आज्यमासादिते वेद्या अन्ते यूपं समुच्छ्रयेत् ॥ इति ॥
पाठस्तु—
नृमण ऊर्द्धभरसं त्वोर्द्धभरा दृशेयम् ॥ ६ ॥
हे ‘नृमण’! नृषु यज्ञस्य नेतृषु यजमानेषु मनोऽनुग्रहबुद्धिर्यस्य विष्ण्वा-
त्मनो यूपस्य सोऽयं नृमणः एतादृशविष्णुरूपयूप ! ‘ऊर्द्धभरसं त्वा’ऊर्द्ध-
मुपरिभागेऽध्वर्युभिर्ब्रियमाणं त्वामहं ‘ऊर्द्धभराः’ सन् ‘दृशेयं’ अनुग्रा-
हकेण त्वया ऊर्द्धमुन्नतगुणोयमिति धार्य्यमाण ऊर्द्धभराः, दृशिधातोलिँ-
ङ्याशिषि अङ्िप्राप्ते तदपवादत्वेन दृशेरग्वक्तव्य इत्यक् । अङ्ि तु सति
ऋदृशोऽिङ्गुणः इति गुणः स्यात् ॥ ६ ॥
द्राह्मायणः—‘होता प्रातरनुवाकमनूच्याऽभूदुषा इति यदा ब्रूयादथ वेदि-
माक्रामेयुः मृदाशिथिरेती’ति । उपवसथदिवसस्य मध्यरात्रादूर्द्धं होता
प्रातरनुवाकं ब्रूते । तदाहाश्वलायनः—‘अथैतस्या रात्रिविवासकाले प्रा-
ग्वयसां प्रवादात्प्रातरनुवाकायामन्त्रितो वाग्यतस्तीर्थेन प्रपद्येत्यादि’ ।
अध्वर्युणामन्त्रितो होता प्रातरनुवाकमनूच्य तस्यावसानगता‘मभूदुषा’
इत्येतामृचं यदा ब्रूयात्तदानीमुद्गातृप्रस्तोतृप्रतिहर्त्तारो ‘मृदेति’ मन्त्रेण
वेदिमाक्रामेयुः । क्रतुसङ्ग्रहस्तु--
यूपस्योच्छ्रयणादूर्ध्वं समापय्य पशुं ततः ।
वैसर्जनानि हुत्वाऽग्निं सोमं ग्रावादि चानयेत् ॥
प्रथमाध्याये प्रथमखण्डः । ९
हविर्द्धाने स्थापयित्वा गृह्णीयाद्वसतीवरीः ।
प्रयुञ्ज्यात्सोमपात्राणि महारात्रे खरादिषु ॥
ग्रावस्तुत स्थापिते सोमे पक्षिणां ध्वनितः पुरा ।
स्यात्प्रातरनुवाकार्थमुपाकरणमादरात् ॥ इति ॥
वेद्याक्रमणमन्त्रपाठस्तु-
मृदा शिथिरा देवानां तीर्थं वेदिरसि मा मा हिंसीः ॥७॥
हे वेद्यात्मिके भूमि ! 'मृदा' यज्ञायुधेन खाता या मृत्तन्मया 'शिथिरा'
प्रशिथिलावयवा त्वं 'देवानां' उद्गात्रादीनामृत्विजां देवानामेव वा 'तीर्थं'
एव तरणस्थानं असि, तथा 'वेदिरसि' असुरैरपहतानां धनानां लम्भयि-
त्र्यसि । 'यत्तद्वित्तं वेद्यमसुराणां वेद्यमविन्दत तदेकं वेद्यैर्वेदित्व'मिति
श्रुत्यन्तरात् । उक्तलक्षणां त्वां अधितिष्ठन्तं 'मा मा हिंसीः' 'मा वाधस्व'॥७॥
द्राह्यायणः-'हविर्द्धानं प्रवेश्यमाना वसतीवरीरनुप्रविशेयुस्तस्य
रराट्यामालभ्य विष्णोः शिर इती'ति । अध्वर्युणा प्रातरनुवाक उपाकृते
प्रतिप्रस्थात्रा सवनीयपुरोडाशेष
१० ताण्ड्यमहाब्राह्मणे .
विशन्त 'इष ऊर्ज' इति मन्त्रं जपेयुः । पाठस्तु--
इष ऊर्ज॒ आयु॑षे वर्च॑से च ॥ ९ ॥ १ ॥ १ ॥
इडन्नम्, ऊर्ग्रसः क्षीराज्यादिः, आयुः प्रसिद्धं, वर्चो वेदशास्त्राणि
विज्ञतृत्वं रूपं ब्रह्मवर्चसं, चकारात् पुत्रपौत्रादयः, सर्वसम्पत्त्यर्थं
हविर्द्धानं प्रविशामीति शेषः ॥ ९ ॥ १ ॥ १ ॥
इति ताण्ड्यब्राह्मणे प्रथमाध्यायस्य प्रथमखण्डः ।
अथ द्वितीयः खण्डः ।
द्राह्मायणः 'अन्तरेणेषे बाहूनवहृत्य पार्ष्णीरनुद्यच्छन्तो युनज्मी-
ति राजानमभिमृशेयुः प्रातःसवनीयाविभक्तश्चेत् सर्वन्न चेत्प्राप्नुयु-
र्देशेनैवेति । हविर्द्धानमण्डपे दक्षिणशकटस्याधस्तात् पश्चिमभागे-
ऽभिषवार्थं सोमोवस्थापितो वर्त्तते । तं सोमं हस्तैः स्पृष्ट
closing quote.
- इति : yes.
- । : danda.
- सव्यावृतः : yes.
- सव्येन : yes.
- पार्श्वेनावर्त्तमानाः : double त (र्त्त).
- । : danda.
- पाठस्तु- : yes, with hyphen.
Line 9:
ऋतस्य सदने सीदामि ॥ २ ॥
- bold / larger centered:
ऋतस्य सदने सीदामि ॥ २ ॥
Line 10:
‘ऋतस्य’ सोमस्य अवश्यं फलसाधनात्वात्सोमः सत्यः, सत्य-
- ‘ऋतस्य’ : yes.
- सोमस्य : yes.
- अवश्यं : yes.
- फलसाधनात्वात्सोमः : wait, is it फलसाधनात्वात् or फलसाधनत्वात्?
Let's check line 10 carefully:
फलसाधनात्वात् or फलसाधनत्वात्?
फ-ल-सा-ध-ना-त्वा-त्: yes, there is an aa-kāra on ध: ध is followed by ना, so फलसाधनात्वात्सोमः.
Wait, let's look at the letter between ध and त्वा:
It's 'ना'! फलसाधनात्वात्सोमः. - सत्यः, : satyaḥ with a comma! Yes, comma is visible: सत्यः,
- सत्य- : hyphen at end.
Line
१२ ताण्ड्यमहाब्राह्मणे
कलशाभिमर्शनमन्त्रेऽवगम्यते । तथा चाध्वर्युशाखायामाम्नायते-
‘उपयामगृहीतोसि प्रजापतये वेति द्रोणकलशमभिमृशेदिति’ । प्राजा-
पत्यो ह्येष देवतया यत् द्रोणकलश इति ब्राह्मणम् । ‘प्रजापतेर्मू-
र्द्धाऽसि’ अस्य तन्मूर्द्धत्वं ब्राह्मणे समाम्नातम् । प्रजापतिरकामयत
बहुस्यां प्रजायेयेति सोऽशोचत्तस्य शोचत आदित्यो मूर्द्धनोऽसृज्यत
सोस्य मूर्द्धानमुदहरन् स द्रोणकलशोऽभवत् इति, अन्योऽर्थो बाहुल्ये-
नागच्छति सोमोस्मिन्द्रोणकलशपात्रे ततस्त्वं ‘अत्यायु’ नाम्नाभिधेयं
‘पात्रमसि’ ‘इदं’ सर्वेषां प्रत्यक्षं यथा ‘अहं’ उद्गाता इमं द्रोणकलसं
‘प्राञ्चं’ पूर्वदिग्गामिनं तन्वा ‘प्रोहामि’ । तच्च प्रोहणं मम ‘तेजसे’
शारीरकान्तये ‘ब्रह्मवर्चसाय’ श्रुताध्ययनसम्पत्तये च भवतु ॥ ४ ॥
द्राह्यायणः-‘तानभिमृश्य जपेयुर्मरुत इती’ति । अभिषवसाधनभूता
ग्रावाण उद्गात्रादिभिरेकत्र योजितत्वेन प्राक्तनत्वात्तच्छब्देन परामृश्यन्ते ।
तान् ग्रावाणो हस्तैरभिमृश्योद्गात्रादयो ‘मरुत’ इत्यादिकं मन्त्रं जपेयुः ।
पाठस्तु—
मरुतो नपातोऽपङ्क्षयाः पर्वतानाङ्ककुभः श्येना
अजिरा इन्द्रं वग्नुना वहत घोषेणामीवां चातयध्वं
युक्तास्थ वहत ॥ ५ ॥
हे ग्रावाणः ! यूयं मरुद्बलात् ‘नपातः’ न पतीति नपात् तस्य
बहुवचनं नपात इति । यथा वृक्षगतपर्णादीनि वायुबलेन पात्यन्ते न
तथा ग्रावाणः । यद्वा मरुतो मितराविणः नपातो यज्ञस्य नपातयितारो
रक्षकाः । ‘अपां’ जलानां क्षयाः निवासस्थानभूताः नदीमध्ये घर्मकालेपि
तत्र पाषाणानां सन्धिषु जलन्निवसति । तथा ‘पर्वतानाङ्ककुभः’शृङ्गभूताः,
ककुभं शृङ्गे विन्दुः प्रधानेपि च निघण्टे । ‘श्येनाः’ एतन्नामकपक्षि-
सदृशाः शंसनीयगमनाद्वा । ‘अजिराः’ क्षिप्रनामैतत् क्षिप्रगमना, ‘इन्द्रं’
‘वहत’ उक्तलक्षणा यूयं सोमयागार्थमिन्द्रमाह्वयत, केन साधनेन ‘वग्नुना’
वचनेन वाक्यसदृशेन ध्वनिनेत्यर्थः । ग्रावाणां सोमाभिषवध्वनिं श्रुत्वा
इन्द्र आहूत इव शीघ्रमागच्छति । घोषेण भवदीयेनोग्रध्वनिना
‘अमीवान्’ रोगवदुपद्रवकारिणोऽसुरान् ‘चातयध्वं’ पराभूतान् कुरुध्वम्,
अत एव तैत्तिरीया आमनान्ति-‘श्रद्धा देवस्य यजमानस्यासुरघ्नीवाऋतुः
यज्ञायुषेषु प्रविष्टासीत्, तेसुरायादन्तो यज्ञायुधानामुद्वहतामुपाशृण्वन्
ते पराभवन्निति’ ‘युक्तास्थ वहत’ इन्द्रमाहूयासुरांश्च पराभाव्य ततो
द्रोणकलशं वोढुम्परस्परं संयुक्ता भवत संयुज्य च कलशं वहत ॥ ५ ॥
प्रथमाध्याये द्वितीयखण्डः । १३
द्राह्मायणः-'पश्चाद्दक्षिणतो वा द्रोणकलशमध्यूहेयु'रिदमहमसुमि-
ती'ति। युक्तानां ग्राव्णामुपरिष्टाद् द्रोणकलशं पश्चादारभ्य प्राञ्चं दक्षिणत
आरभ्योदञ्चं वा स्थापयेयुः। पाठस्तु—
इद॑म॒हम॒मुं यज॑मानं प॒शुष्वध्यू॑हामि प॒शुषु च॒ मां
ब्रह्म॑वर्च॒से च॑ ॥ ६ ॥
'इदं' प्रत्यक्षं यथाभवति तथा 'अहं' उद्गाता 'अमुं' परतो दृश्यमानं,
इममिति केषांचित्पाठः। 'यजमानं' 'पशुषु' गोषु 'अध्यूहामि'उपरि स्थाप-
यामि। कलशाध्यूहनप्रसादात् मया यजमानेन च पशवो लभ्यन्ता-
मित्यर्थः, न केवलं पशुलाभः किन्तु ब्रह्मवर्चसनिमित्तमप्येतदध्यूहनं
भवतु ॥ ६ ॥
द्राह्मायणः-'पवित्रेण द्रोणकलशँ संमृज्याद्वसवस्त्वेति बुध्नँ
रुद्रास्त्वेति मध्यमादित्यास्त्वेति बिलमिती'ति । दशापवित्रनामको
यो वस्त्रखण्डस्तेनोद्गाता द्रोणकलशमूलमध्यबिलभागान् मन्त्रगतै-
स्त्रिभिः भागैः शोधयेत् । पाठस्तु--
वस॑वस्त्वा गाय॒त्रेण॒ छन्द॑सा संमृ॑जन्तु रु॒द्रास्त्वा॑
त्रैष्टु॑भेन॒ छन्द॑सा संमृ॑जन्त्वादि॒त्यास्त्वा॒ जाग॑तेन॒ छन्द॑-
सा संमृ॑जन्तु ॥ ७ ॥
स्पष्टार्थः ॥ ७ ॥
द्राह्मायणः-'अवधूय पवित्रमुदग्दशमवाङ्नाभिर्वितनुयुः पवित्रन्त
इती'ति । दशापवित्रस्य मध्ये शुक्ला ऊर्णा सूत्रं सोमधाराश्रावणार्थं
यजमान आबध्नाति सा नाभिरित्युच्यते । उदीचीनदशमवाचीनना-
भि च दशापवित्रं कृत्वा द्रोणकलशस्योपरिष्टादुद्गात्रादयस्त्रयो वितनुयुः
वितत्य च दशापवित्रस्य कोणान् धारयेयुः । तथाच ब्राह्मणं 'पवित्रं
विगृह्णाती'ति ।
पाठस्तु--
प॒वित्र॑न्ते॒ वित॑तं॒ ब्रह्म॑णस्पते प्रभुर्गात्रा॑णि॒ पर्ये॑षि
वि॒श्वत॑ो तप्तत॒नूर्न तदामो॑ अश्नुते शृ॒तास॒ इद्वहन्तः॒
सन्त॑दाशतः ॥ ८ ॥
हे ब्रह्मणस्पते मन्त्रस्य स्वामिन् सोम ! ते 'पवित्रं' शोधकमन्त्रं 'वि-
ततं' सर्वत्र विस्तृतं सः 'प्रभुः' प्र भविता त्वं 'गात्राणि'गातुरङ्गानि 'पर्ये-
२
CC-0. ASI Srinagar Circle, Jammu Collection. Digitized by eGangotri Siddhanta Gyaan Kosha
षि' परिगच्छसि। 'विश्वतः' सर्वतस्तव 'तत्' पवित्रं 'अतप्तनूः' पयोव्रता-
दिना असन्ताप्तगात्रः 'आमः' अपरिपक्वः 'न अश्नुते' न व्याप्नोति। 'शृतास
इत्' शृता एव परिपक्वा एव 'वहन्तः' 'तत्' पवित्रं 'आशत' व्याप्नुवन्ति८
द्राह्यायणः—'सन्तातायां धारायामुद्गाता जपेत् प्रशुक्रैत्विति' । द-
शापवित्रस्योपरि सोमरसस्य धारा सन्तता श्राव्यते तदानीमुद्गाता प्र-
शुक्रैत्विति मन्त्रं जपेत् ।
पाठस्तु—
प्रशु॒क्रैतु॑ दे॒वी म॑नी॒षा॒स्मद्रथः॑ सु॒तष्टो॒ न वा॒ज्या-
युषे॑ मे पवस्व॒ वर्च॑से मे पवस्व वि॒दुः पृ॑थि॒व्या दि॒वो ज॑नि॒-
त्राच्छृ॒ण्वन्त्वापो॒धः क्षर॑न्ती॒ः सोमे॒होद्गाय॒ ममायु॑षे॒ मम॑
ब्रह्मवर्च॒साय॒ यज॑मानस्य॒र्द्ध्या अ॒मुष्य॒ राज्या॑य ॥९॥१॥२॥
'शुक्रा' शुद्धा निर्मला 'देवी' द्योतनात्मिका 'मनीषा' स्तुतिः 'अस्मत्'
अस्मतः 'प्रैतु' प्रगच्छतु सोमम् । तत्र दृष्टान्तः 'रथो न' रथ इव कीदृशः
'सुतष्टः' सुष्ठु, तत्तक्षणक्रियया निष्पादितः। 'वाजी' वेगवान् उग्रबुद्धिं प-
रित्यज्य 'मे' ममोद्गातुः 'आयुषे' आयुर्वृद्ध्यर्थं 'पवस्व' पूतो भव। तथा 'मेव-
र्चसे' ब्रह्मवर्चसनिमित्तं पूतो भव । 'पृथिव्या दिवः' च 'जनित्रात्' याग-
द्वारेण उत्पादकाद्दशापवित्रात् 'अधः क्षरन्तीः' क्षरन्त्यः 'आपः' सोमर-
सात्मिकाः 'विदुः' अस्मदीयां मनीषां जानन्तु तदर्थं 'शृण्वन्तु' हे
'सोम' त्वं 'इह' अस्मिन् कर्मणि 'उद्गाय' उद्गानं कृत्वा उरुधारया
पूयमानस्य सोमस्य शब्द उद्गीथत्वेन स्तूयते । श्रूयते हि 'एष वै
सोमस्योद्गीथो यत्पवन इति' । यदुद्गातृत्वं त्वया कृतं तत्र 'मम' उद्गातु-
रायुर्वृद्ध्यर्थं सम्पद्यते । तथा 'मम' ब्रह्मवर्चसार्थं सम्पद्यते । तथा यज-
मानस्य धनधान्यादिसमृद्ध्यै सम्पद्यते । 'अमुष्य राज्याय' अमुष्य राज्ञो
राज्याय अमुष्येत्यस्य स्थाने तस्य राज्ञो नाम निर्देष्टव्यम् । तत्र बुद्ध्य-
न्यतरस्यां सोमस्य राज्ञो राज्यायेति इत्येव निर्देष्टव्यमिति सिद्धान्ति-
तत्वात् सूत्रकार आह 'अमुष्य राज्यायेति' प्रियं४राजानमादिशेद्राज्ञो
राज्यायेति वा सोमस्येत्येवं ब्रूयात्सोमराजानो हि ब्राह्मणा इति। क्षत्रिय-
वैश्ययोरपि दीक्षया ब्राह्मणत्वात् सोमस्येत्येव तयोरपि निर्देशः ।
'ब्राह्मणो वा एष जायते यो दीक्षित' इति श्रुतेर्ब्राह्मणत्वमवसीयते । अत
एव सूत्रान्तरं 'तस्माद्राजन्यवैश्यावपि ब्राह्मण इत्येवावेदयती'ति॥९॥१॥
इति द्वितीयखण्डः ।
प्रथमाध्याये तृतीयखण्डः । १५
अथ तृतीयः खण्डः ।
द्राह्मायणः—'अध्वर्युणा हुते प्रवृत्तहोमौ जुहुयुर्गत्यानुपूर्व्येण बेकुरा-
णामासि सूर्योमेती'ति । अध्वर्युणा वै एषु होमेषु हुतेषूद्गातारस्त्र-
योऽपि प्रवृत्तहोमौ जुहुयुः । प्रस्तोता प्रथमं ततः उद्गाता ततः प्रतिहर्त्तेति
एवं प्रसर्पणक्रमेण जुहुयुः प्रथममन्त्रो वाग्देवतयः । तत् पाठस्तु—
बेकु॑रानामासि॒ जुष्टा॑ दे॒वेभ्यो॒ नमो॑ वा॒चे नमो॑ वाच-
स्पत॑ये देवि वाग्यत्ते॑ वा॒चो मधु॑मत्तस्मिन्माधाः सर॑स्व-
त्यै स्वाहा॑ ॥ १ ॥
हे सरस्वति ! त्वं 'वेकुरा' विकिर्थ्याप्तिकर्मा नामशब्दः प्रसिद्धौ
सर्वत्र व्यापनात् वेकुरेति प्रसिद्धा भवसि । 'देवेभ्यः' तेषामर्थाय
'जुष्टा' स्तोतृभिः स्तुता 'असि', तस्यै 'वाचे' वाग्देवतायै 'नमः'
अस्तु 'वाचस्पतये' ब्रह्मणे 'नमः' अस्तु । हे 'देवि' ! द्योतमाने हे
वाग्देवते ! 'ते' तव 'वाचः' शब्दराशेः 'यत् मधुमत्' अतिशयेन
माधुर्योपेतं वस्त्विति तत् 'तस्मिन्' 'माधाः' निधेहि स्थापय तस्यै
'सरस्वत्यै' 'स्वाहा' इदं हविस्त्यजामि । स्वाहेति हविस्त्यागार्थो
निपातः ॥ १ ॥
द्वितीयमन्त्रपाठस्तु—
सूर्यो॑ मा दि॒व्याभ्यो॒ नाष्ट्राभ्यः॑ पातु वा॒युर॒न्तरि॑क्षा-
भ्यो॒ ऽग्निः पार्थि॑वाभ्यः॒ स्वाहा॑ ॥ २ ॥
'सूर्यः' सर्वस्य प्रेरको द्युस्थानो देवः 'मा' मां 'दिव्याभ्यः' दिवि
भवाभ्यः 'नाष्ट्राभ्यः' नाशकारिभ्यो रक्षोजातिभ्यः 'पातु' 'वायुः'
अन्तरिक्षस्थानः 'अन्तरिक्षाभ्यः' तत्रोत्पन्नाभ्यः नाष्ट्राभ्यः पातु ।
तथा 'अग्निः' भूस्थानः 'पार्थिवाभ्यः' नाष्ट्राभ्यः पातु 'स्वाहा' । तेभ्यः
सूर्यादिभ्यो हविस्त्यजामि ॥ २ ॥
द्राह्मायणः 'सव्यैः पाणिभिः पृथग्दक्षिणा तृणानि निरस्येयुर्योद्य
सौम्य इती'ति । बहिष्पवमानस्तोत्रार्थं अध्वर्युमनुचात्वालसमीपे
प्रसर्पन्तस्त्रयोऽपि स्वकीयैर्वामहस्तैर्मार्गस्थितानि तृणानि दक्षिणस्या
दिशि निरस्येयुः । दक्षिणेस्तृणैरन्वारम्भविधानात् सव्यैरित्युक्तम् ।
पाठस्तु--
योऽद्य सौम्यो वधो॑घा॒यूनामुदी॑रते वि॒ष्वूकु॑हस्य
धन्व॑न्नाप॒ तान् वरु॑णोऽपधमत् ॥ ३ ॥
योगः । तत्पाठस्तु—`
Wait, "स्तोमयोगः": स्तो म यो गः
Yes, "स्तोमयोगः । तत्पाठस्तु—".
Line 22:
अग्नेस्तेजसेन्द्रस्येन्द्रियेण सूर्य्यस्य वर्च्चसा बृहस्प-
Wait, let's look at "अग्नेस्तेजसेन्द्रस्येन्द्रियेण":
अग्नेस्तेजसेन्द्रस्येन्द्रियेण - is there a space between तेज and सेन्द्र?
Look at line 22:
"अग्नेस्तेज" then a distinct small gap, then "सेन्द्रस्येन्द्रियेण"?
Wait! Let's measure the gap:
अग्नेस्तेज [gap] सेन्द्रस्येन्द्रियेण
Wait, the gap is because of the justification, but look at the shirorekha (top line):
Is the shirorekha broken between तेज and सेन्द्र?
Yes, the shirorekha is broken!
Wait, why is it broken?
"अग्नेस्तेज" has its own bar, and "सेन्द्रस्येन्द्रियेण" has its own bar!
Wait, let's look at the text:
In the mantra: "अग्नेस्तेजसा। इन्द्रस्येन्द्रियेण..."
Wait! The mantra is:
"अग्नेस्तेजसा इन्द्रस्येन्द्रियेण..."?
Wait, what is printed in line 22?
अ-ग-्-न-
प्रथमाध्याये तृतीयखण्डः । १७
वर्चसा युनक्तीत्यस्याप्युपलक्षणम् । 'यजमानस्य कामाः' काम्यमानाः
आशिषः 'सत्याः' 'सन्तु' यथार्था भवन्तु ॥ ५ ॥
द्राह्मायणः 'अन्नङ्करिष्यामीति जपेदिति स्तोमयोगादूर्द्धमेतस्य म-
न्त्रस्य जपः । पाठस्तु--
अन्नं करिष्याम्यन्नं प्रवेक्ष्याम्यन्नञ्जनयिष्यामि ॥ ६ ॥
अनेन स्तोत्रेणाहमुद्गाता बहुप्राण्युपकाराय प्रसूतं 'अन्नं करिष्या-
मि' तच्च 'अन्नं प्रवेक्ष्यामि' भूतिः समृद्धिःसमृद्धं करिष्यामि।तत् 'अन्न-
ञ्जनयिष्यामि' जनने व्रीह्यादिरूपेण पुनः पुनः प्ररोहणे हेतुत्वेन करि-
ष्यामि ॥ ६ ॥
द्राह्मायणः- 'अन्नमकरमिति स्तुत्वा जपेत्' । बहिष्पवमानस्तोत्रादूर्-
द्धं अयं जपः । पाठस्तु--
अन्नमकरमन्नमभूदन्नमजीजनम् ॥ ७ ॥
स्तोत्रसामर्थ्यमन्नसमृद्धेर्निश्चितत्वादभूतार्थप्रयोगः ॥ ७ ॥
द्राह्मायणः-'श्येनोसीति प्रस्तरे यजमानं वाचयेदिति' । प्रस्तरे प्र-
स्तरे स्पर्शं कारयित्वेति शेषः । पाठस्तु -
श्येनोऽसि गायत्रच्छन्दा अनु त्वारभे स्वस्ति मा
सम्पारय।मा स्तोत्रस्य स्तोत्रं गम्यादिन्द्रवन्तो वनेम-
हि भक्षीमहि प्रजामिषम् ॥ ८ ॥
हे बहिष्पवमान ! त्वं गायत्र्याख्यं छन्दो विशिष्टः सन् 'श्येनः' श्ये-
नाख्यपक्षिसदृशः 'असि' तथा प्रबलोसीत्यर्थः । 'त्वा' तथाविधं त्वां
'अन्वारभे' आनुकूल्येन स्पृशामि 'स्वस्ति' क्षेमो विघ्नाभावरूपो यथा
भवति तथा 'मा'मां 'सम्पारय' सम्यग्यज्ञस्य पारन्नय 'स्तोत्रस्य' बहिष्प-
वमानरूपस्य यतः स्तोत्रमात्रमाज्यपृष्ठादिकमन्तरभावित्वेन सम्बद्धम-
स्ति।यद्वा 'स्तोत्रस्य स्तोत्रं' प्रशस्तं स्तोत्रं बहिष्पवमानादिकं तन्मा 'माग-
म्यात् 'आगच्छतु 'इन्द्रवन्तः' बहिष्पवमानदेवतारूपेणेन्द्रेण तद्वन्तो वयं
'वनेमहि' सर्वाः स्तोत्रदेवता सम्भजेमहि । तत्प्रसादात् 'प्रजां' पुत्रादि-
रूपां 'इषं' इष्यमाणमन्नं च 'भक्षीमहि' न तु भजेमहि ॥ ८ ॥
द्राह्मायणः-'संवर्चसेतीक्षकान् सहकारिणश्च प्रेक्षमाणो जपे'दिति ।
स्तोत्रप्रयोगं द्रष्टुमागता ईक्षकाः प्रस्तोत्रादयः उपगातारः सहकारि-
णस्तान् सर्वान् प्रेक्ष्यमाण उद्गाता संवर्चसेति मन्त्रं जपेत् । पाठस्तु-
संवर्चसा पयसा सन्तपोभिरगन्महि मनसा सं०
‘वर्चोधाः’ च वर्चसस्तेजसो धारयिता ‘असि’ अतो मयि
उद्गातरि ‘वर्चः’ तेजः ‘धेहि’ निधेहि ॥ १० ॥
इति तृतीयखण्डः ।
Everything matches line-by-line precisely. Perfect.१८ ताण्ड्यमहाब्राह्मणे
शिवेन संविज्ञानेन मनसश्च सत्यैर्यथा वोऽहं चारुतमं
वदानीन्द्रो वो दृशे भूयासꣳ सूर्य्यश्चक्षुषे वातः प्राणाय
सोमो गन्धाय ब्रह्म क्षत्राय ॥ ९ ॥
हे ईक्षकाः प्रस्तोत्रादय उपगातारश्च ! ‘वर्चसा’ ब्रह्मवर्चसेन ‘समग-
न्महि’ वयं सङ्गता अभूम, तथा ‘पयसा’दक्षिणारूपाणां गवां हि क्षीरेण
समगन्महि । तथा कर्मानुष्ठानरूपै‘स्तपोभिः’ समगन्महि । तथा ‘शि-
वेन’ मङ्गलेन आस्तिक्ययुक्तेन समगन्महि । तथा ‘मनसा’ सम्बन्धिभिः
सत्यैर्यथार्थभूतैः संकल्पैश्च । किञ्च ‘यथा वः’ युष्माकं