सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 23, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 23

प्रथमाध्याये प्रथमखण्डः । ३

पादे तृतीयाधिकरणस्य द्वितीयवर्णके विचारिताः-
इष्ट्यग्निहोत्रसोमानां मूलप्रकृतिता नहि ।
अस्ति वा नालौकिकत्वादियत्तानवधारणात् ॥
लोकवत् सन्निपत्यारादुपकारिद्वयश्रुतेः ।
इयत्ताया निश्चितत्वान्मूलप्रकृतिता त्रिषु ॥
अलौकिकत्वेनैतावद्भिरङ्गैः सम्पूर्ण उपकार इति निश्चेतुमशक्य-
त्वात् इष्ट्यादीनां नास्ति मूलप्रकृतित्वमिति चेत् । मैवम् । लौकिक-
सदृशत्वात् । यथा लोके भुजिक्रियायामोदनः करणं तस्य सन्नि-
पत्योपकारिणः शाकसूपादयः आरादुपकारिणः पीठप्रदीपादयः ।
तथा भावनायां यागः करणम्, अवघातादयः सन्निपातिनः
प्रयाजादय आरादुपकारिणः, अतो नात्यन्तिकमलौकिकत्वम् । इयत्ता
तु लौकिके यथा प्रत्यक्षेण निश्चीयते तथा श्रौते श्रुत्या निश्चीयताम्,
तस्मादिष्ट्यग्निहोत्रसोमानां मूलप्रकृतित्वमस्ति । तासु प्रकृतिष्वेव
'महनमेवोच' इत्यादिमन्त्राणामङ्गत्वेन प्रवेशोऽवगन्तव्यः । प्रकृतित्वस्य
तत्रैव मुख्यत्वात् । तास्वप्येते मन्त्राः सोमयागे नेतुं योग्याः सोमं
गमेयमित्यादिलिङ्गसम्भवात्, नानाविधब्राह्मणगतानामेतदीयविनि-
योगानामृषिभिः सूचितत्वाच्च । ते च विनियोगा अस्माभिस्तन्मात्रव्या-
ख्यानावसरे प्रदर्शयिष्यन्ते । यस्य तु मतं सोमयागप्रकरणमिदं तस्य
न कोपि सन्देहः ।
सोमयागे चार्षर्त्विजो वरणीयाः, तथा ह्यापस्तम्बेनोक्तम्-‘सोमेन
यक्ष्यमाणो ब्राह्मणानार्षेयानृत्विजो वृणीत’ इति । आश्वलाय-
नोऽपि दर्शपूर्णमासेष्टिपूर्वकत्वं सोमयागस्योक्त्वा पक्षान्तरोपन्यासपूर्वक-
मेवमाह-‘प्रागपि सोमेनैके तस्यार्त्विजः चत्वारस्त्रिपुरुषाः तस्य तस्यो-
त्तरे त्रयः होता मैत्रावरुणो च्छावाको ग्रावस्तुदध्वर्युः प्रतिप्रस्थाता
नेष्टोन्नेता ब्राह्मणाच्छंस्याग्नीध्रः पोतोद्गाता प्रस्तोता प्रतिहर्त्ता सुब्रह्म-
ण्य इति, एतेऽहीनैकाहैर्याजयन्ति, एत एवाहिताग्नय इष्टप्रथमयज्ञा
गृहपतिसप्तदशा दीक्षित्वा समोप्याग्नींस्तन्मुखाः सत्राण्यासते’ इति ।
अस्यायमर्थः। दर्शपूर्णमासाभ्यामिष्ट्वा पश्चाद्वा तद्यजमानः पुरस्ताद्वा
सोमेन यजेत तस्य सोमयागस्य होताध्वर्युर्ब्रह्मोद्गातेति चत्वारः
ऋत्विजो मुख्याः ते च प्रत्येकं त्रिभिः पुरुषैरुपैता अतस्तस्य तस्य
एकैकस्योत्तरे त्रयः पुरुषा भवन्ति, त एते होत्रादिनामकाः षोडश-
र्त्विजो द्विरात्रादिभिरहीनसंज्ञकैरग्निष्टोमादिभिरेकाहसंज्ञकैर्याजयन्ति ।
एत एव होत्रादयः षोडशर्त्विजः स्वयमप्याहिताग्नयः प्रथमयज्ञेनाग्नि-