ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 25, कुल 518 में से
संदर्भ में पढ़ें[H] प्रथमाध्याये प्रथमखण्डः । ५
वरणाभावमाश्रित्य द्राह्मायण उद्गातोरेवेदं प्रतिमन्त्रणम्मन्यते । यदि
तेषामपि वरणमङ्गीकुर्य्यात् तदा स्वकीयपरिभाषानुसारेण प्रस्तोता
प्रतिमन्त्रयेतेत्येवमादिशेत् , तदादेशाभावाद्बुद्गातोरेव वरणं प्रतिमन्त्रणं
च तन्मतमित्यवगम्यते ।
ननु तस्य मन्त्रस्य महन्म इत्येष आदिरिति प्रतीकग्रहणादेवाव-
गम्यते अन्तन्तु कथमवगम्यत इति चेत् । उत्तरमन्त्रस्यादिग्रहणादिति
ब्रूमः । उत्तरादिः पूर्वान्तलक्षणमिति सूत्रकारेण परिभाषितत्वात् । अत्र
सूत्रकारो ‘देवो देवमेत्वि’त्युत्तरमन्त्रादि ग्रहीष्यति, तस्माद्भुक्षिषीयेत्य
सौपूर्वमन्त्रस्यान्त इति द्रष्टव्यम् । मन्त्र पाठस्तु--
ॐ महन्मे वोचो भर्गो मे वोचो यशो मे वोचः
स्तोमं मे वोचो भुक्तिं मे वोचः सर्वं मे वोचस्तन्मावतु
तन्माविशतु तेन भुक्षिषीय ॥ १ ॥
हे सोमप्रवाक ! ‘मे’ मह्यमुद्गात्रे यजमानस्त्वामार्त्विज्यायार्थयत इति
यद्वचनं प्रायौक्षस्तत् ‘महत्’पूज्यं सर्वोत्कृष्टमेव ‘अवोचः’ उक्तवानसि, न
खल्वेतस्मात्पूज्यतमवचनं लोकेस्ति । तैत्तिरीयेऽपि वाजपेयफलत्वे-
नार्त्विज्यप्रशंसा कृता, तस्माद्वाजपेययाज्यः ऋत्विगधीनः सर्वा ह्यस्य
वाचोवरुद्धा इति । महाभाष्यकारेणापि व्याकरणाध्ययनफलतया-
र्त्विज्यं प्रशंसितुमिदं वाक्यमुदाहृतम्-‘यो वा इमां पदशः स्वरशो
वर्णशोऽक्षरशो वा वाचं विदधाति स आर्त्विजीनो भवतीति, तस्मा-
न्महदुक्तवानसि । तथा त्वं ‘भर्गः’ भर्जनं पापस्य विदारकं दीप्तं वा वचनं
‘मे’ मह्यं ‘अवोचः । तथा ‘यशः’ यशस्करं वचनं मे मह्यं अवोचः । सो-
मार्त्विज्यस्य यशस्करत्वं प्रसिद्धं श्रूयते च-‘सोमो वै यशः स एवं
विद्वान् सोममागच्छति यश एवैनमृच्छति’ इति । तथा ‘स्तोमं’ स्तुति-
साधनं त्रिवृदादिकं ‘मे’ मह्यं ‘अवोचः’ उद्गातृवरणस्य त्रिवृदादिप्रयो-
गार्थत्वादेवमुक्तम् । तथा ‘भुक्तिं’भोगसाधनमेव वचनं ‘मे’मह्यं ‘अवोचः’
आर्त्विज्यकरणेन हि भोगसाधनं गवादिद्रव्यं लभ्यते, अत एवोद्गा-
त्रादिवरणसमये कञ्चित्कल्याणो दक्षिणा इति पृच्छते । तथा ‘सर्वम्मे-
वोचः’ किमनया महद्भगं इत्यादि परिगणनया यद्यदस्मदभीप्सितं
तत्सर्वमपि मह्यमवोचः । त्वयोक्तम्महत्वभर्गत्यादिगुणविशिष्टं यदा-
र्त्विज्यमस्ति ‘तन्मावतु’ मां रक्षतु, रक्षार्थं ‘तत्’ आर्त्विज्यं ‘मा’ मां
विशतु । ‘तेन’ अनुष्ठितेनार्त्विज्येन ‘भुक्षिषीय’ भुक्षीय भोगान् भुञ्जीय ।