सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 21, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 21

९
ॐ तत्सत् ।
ताण्ड्यमहाब्राह्मणम् ।
प्रथमाऽध्याये
प्रथमः खण्डः ।
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे ।
यन्नत्वा कृतकृत्याः स्युस्तन्नमामि गजाननम् ॥ १ ॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलञ्जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ २ ॥
तत्कटाक्षेण तद्रूपं दधद्बुक्कमहीपतिः ।
आदिशत्सायनाचार्य्यं वेदार्थस्य प्रकाशने ॥ ३ ॥
ये पूर्व्वोत्तरमीमांसे ते व्याख्यायातिसङ्ग्रहात् ।
कृपालुर्माधवाचार्य्यो वेदार्थं वक्तुमुद्यतः ॥ ४ ॥
व्याख्यातावृग्यजुर्वेदौ सामवेदेऽपि संहिता ।
व्याख्याता ब्राह्मणव्याख्याङ्करोम्यौद्गात्रबुद्धये ॥ ५ ॥
पञ्चविंशतिरध्याया महति ब्राह्मणे स्थिताः ।
आद्येऽध्याये श्रुता मन्त्रा उद्गा