सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

क्षतइति। पिच्छोला वादनदण्डेन वाद्यमाना काण्डमयी काण्डवीणा इत-
रयोरेव अपघाटिलासंज्ञेत्यर्थः ॥ ८ ॥
अस्मिन्नहनि सर्वेषामपि यजमानानां गृहेषु ब्राह्मणभोजनार्थं पाकः
कर्त्तव्य इति विधत्ते—
कुले कुलेऽन्नं क्रियते तद्यत्पृच्छेयुः किमिदं कुर्व्वन्ती-
तीमे यजमाना अन्नमत्स्यन्तीति ब्रूयुः ॥ ९ ॥
अन्येष्वहःसु गृहपतिप्रधाना एव सर्वे ब्राह्मणान् भोजयितुमन्नानि
कामयन्ते। अस्मिन् अहनि कुले कुले यजमानानां गृहे गृहे अन्नं क्रियते
पृथक् पृथक् ब्राह्मणान् भोजयितुमन्नं कर्त्तव्यम्। तत्तत्र एवं क्रियमाणे य-
द्यदि पृच्छेयुः प्रेक्षका जनाः किमिदं कुले कुले कुर्वन्तीति तदैवं प्रति-
ब्रूयुः इमे यजमाना अन्नमत्स्यन्तीति अस्मिन् लोके बहुलमन्नं प्रदाय
अमुष्मिन् लोके बहुलमेते भोक्ष्यन्त इति ॥ ९ ॥
अथैतत्प्रशंसति—
यो वै दीक्षितानां पापं कीर्त्तयति तृतीयमेवाऽध्‍शं
पाप्मनोहरत्यन्नादस्तृतीयं पिपीलिकास्तृतीयम् ॥ १० ॥
यः खलु दीक्षितानां दीक्षणीयेषु संस्कृतानां पापमशुभं कीर्त्तयति
स पुरुषः एषां पापस्य तृतीयमंशं हरति। यो दीक्षितानामन्नमत्ति सोऽ-
न्नादस्तृतीयमंशं हरति। आज्येष्वन्नेषु च बहुषु सत्सु बह्व्यः पिपीलिका-
स्तद्भक्षणार्थमागच्छन्ति तास्तृतीयमंशं पापं हरन्ति। अत आज्यादिषु
पिपीलिकापतने दोषाशंका न कार्येत्यर्थः ॥ १० ॥
परिमादः पूर्वमुक्ताः ता अन्नस्य प्रशंसति—
परिमद्भिश्‍चरन्ति त्वक्च वा एतल्लोम च महाव्रतस्य
यत् परिमादस्त्वचञ्चैव तल्लोम च महाव्रतस्याप्त्वाव-
रुन्धते ॥ ११ ॥
याः पूर्वमुक्ताः परिमादस्ता महाव्रतस्य त्वक्लोमस्थानीयास्ततस्ता
आप्त्वा प्राप्य अवरुन्धते स्वयमपि त्वचं लोम च लभन्त इत्यर्थः। 'यद्दे-
तान् ह वै पुरुषो देवेभ्यः करोति तादृगस्मै देवाः कुर्वन्ती'ति श्रुतेः॥११॥
अथ वीणाविशेषस्य वादनं विधत्ते—
वाणं वितन्वन्त्यन्तो वै क्वाणोऽन्तो महाव्रतमन्ते-
नैव तदन्तमभिवादयन्ति ॥ १२ ॥
वाणं महावीणा तम् वितन्वन्ति तंत्रीभिः संयोज्य वादयन्तीत्यर्थः।

१६२ ताण्ड्यमहाब्राह्मणे
वाणो वीणानामन्तः परमः श्रेष्ठ इत्यर्थः । वाणः खलु सर्वेषां वाद्याविशे-
षाणां अन्तोऽवसानभूतः महाव्रतमहामन्तः तत्तेनान्तेनैवान्तमभिलक्ष्य
वादयन्ति ॥ १२ ॥
तस्य वाणस्य तन्त्रीसंख्यां विधाय प्रशंसति-
शततन्त्रीको भवति शतायुर्वै पुरुषः शतवीर्य्यः ॥ १३॥
"सर्वमायुर्य्यन्ती"ति शेषोऽर्थो निगदसिद्धः ॥ १३ ॥
वाणस्योल्लेखनं विधाय प्रशंसति-
तमुल्लिखेत्'प्राणाय त्वाऽपानाय त्वा व्यानाय त्वेति
प्राणापानव्यानानेव तदाप्त्वाऽवरुन्धते' ॥ १४ ॥
प्राणाय त्वेत्यादिना मन्त्रेण औदुम्बर्य्याः शाखया वाणमुपलिखति
हे वाण ! त्वां प्राणायर्थमुल्लिखामीति मन्त्रार्थः । तत्तेन प्राणादीनि चाप्त्वा
प्राप्य निरुन्धते इति ॥ १४ ॥

पञ्चमाध्याये सप्तमः खण्डः । १६३
देवाः खलु पुरा वाचं छन्दोरूपां व्यभजन्त गायत्रीं प्रातःसवने
अग्नये वसुभ्यो व्यभजन्त । त्रिष्टुभं माध्यन्दिने सवने इन्द्राय रुद्रेभ्यो
व्यभजन्त । जागतं तृतीयसवने विश्वेभ्यो देवेभ्यो आदित्येभ्यो व्यभजन्त ।
एवं विभज्यमानायास्तस्या वाचः यो रसः सारोऽत्यरिच्यत तद्गौरी-
वितन्नाम सामाभवत् । तच्च अनुष्टुभमनुलक्ष्य परिप्लवते सञ्चरति । कुत-
एतत् ? यदिदमनुष्टुप्छन्दः सा वाक् गौरीवितं च वाचो रसः अतो
अनुष्टुप्च्छन्दस्कामेवर्चं आधारतया गृह्णाति ॥ १ ॥
एवं विशिष्टच्छन्दस्येतत्साम विधाय प्रशंसति—
यद्गौरीवितेनान्वहं स्तुवते वाच्येव तद्वाचा रस-
न्दधति ॥ २ ॥
'अभि प्र गोपतिं गिर' इत्यस्यां योनावुत्पन्नं साम गौरीवितं तच्चानु-
[

१६४ ताण्ड्यमहाब्राह्मणे
यद्गौरीवितं साम एतत् खलु यज्ञस्य यज्ञसम्बन्धि श्वस्तनं श्वः पर-
स्मिन् दिने भवं पूर्वापरयोरह्नोः सन्धायकमित्यर्थः । यद्यदि तद्गौरीवित-
मनुत्सृजेयुः परित्यजेयुः तदा सत्रिणोऽश्वस्तनाः उत्तरकाले सम्बन्ध-
हिताश्च अप्रजसः प्रजारहिताः स्युर्भवेयुः । अतोऽन्वहं कर्त्तव्यमित्यर्थः ५॥
प्रकारान्तरेण प्रशंसति—
सं वा अन्यो यज्ञस्तिष्ठत इत्याहुर्वागेव न सन्ति-
ष्ठत इति यद्गौरीवितमन्वहं भवति वाचमेव तत्पुनः
प्रयुञ्जते ॥ ६ ॥
अन्यो वाग्रहितो यज्ञः सन्तिष्ठते वै परिसमाप्त एव भवतीति ब्रह्म-
वादिन आहुः तथा अन्येषु सन्तिष्ठमानेष्वपि वागेव न सन्तिष्ठत इत्या-
हुर्यस्मादेवं तस्माद्गौरीवितं वाचः स्वरात्मकं सामान्वहं भवति तत्तेन ।
असंस्थितां पुनः प्रयुञ्जते श्वस्तनाभावाय गौरीवितं साम प्रत्यहमनु-
ष्टुप्सु कर्त्तव्यमित्युक्तं भवति । अत एतत् आद्यन्ते अहनी मुक्त्वा अन्ये-
षु मध्यवर्त्तिष्वहःसु कर्त्तव्यमिति ज्ञायते ॥ ६ ॥
अथ सुज्ञानाख्यं सामान्वहं कार्य्यमिति विधित्सुस्तस्य निधनं
विदधाति—
स्वर्णिधनमन्वहं भवति ॥ ७ ॥
'सोमः पुनानं ऊर्मिणे'त्यस्यां योनावुत्पन्नं सुज्ञानं तस्योपेति निधनं
तस्य स्थाने स्वरिति निधनं कर्त्तव्यमित्यर्थः । तथा च सूत्रकृतोक्तं 'उपा-
स्थानेष्वन्यानि निधनानि स्वरानादेशे तथा स्वराणि स्युरि'ति प्रकृत्य
स्वरसकाशात्ते दैवोदाससुज्ञानयोश्चेति ॥ ७ ॥
अथैतत् प्रशंसति—
देवक्षेत्रं वा एतेऽभ्यारोहन्ति ये स्वर्णिधनमुपयन्ति
स उ वै सत्रिणः सत्रमुपनयेदित्याहुर्य एनान्देवक्षेत्रम-
भ्यारोहयेदिति न वै देवक्षेत्र आसीन आर्त्तिमार्च्छति
यत् स्वर्णिधनमन्वहं भवति नैव काञ्चनार्त्तिमार्च्छन्ति ॥ ८ ॥
ये स्वर्णिधनमुपयन्ति उपगच्छन्ति प्रयुञ्जते इत्यर्थः । एते देवक्षेत्रं
देवानां स्थानं स्वर्गशब्दवाच्यमेवाभ्यारोहन्ति । अपि च य उद्गातादि-
रेतान् यजमानान् देवक्षेत्रं स्वर्णिधनेनाभ्यारोहयेत् । इतिर्हेतौ अतः
कारणात् स एव सत्रिणो यजमानान् सत्रमुपनयेत फलप्रदानशक्तं
सम्पूर्णप्रयोगं प्रापयेदित्याहु र्ब्रह्मवादिनः । किञ्च न वै खलु देवक्षेत्रे देवा-

पञ्चमाध्याये सप्तमः खण्डः । १६५
नां स्थाने आसीनः पुरुषः आर्त्तिमार्च्छति कदाचिदपि तस्यार्त्तिर्न भवती-
त्यर्थः। एवं सति यत् स्वर्णिधनमन्वहमनुष्ठितं भवति तेन काञ्चनार्त्तिं-
कामपि हिंसां नैवार्च्छन्ति न प्राप्नुवन्ति ॥ ८ ॥
अस्मिन् स्वर्णिधने किञ्चिद्दोषमाशङ्क्य परिहरति—
च्यवन्ते वा एतेऽस्माल्लोकादित्याहुर्यै स्वर्णिध-
नमुपयन्तीति यदृचा स्वरूपं यन्त्यस्मिँल्लोके प्रति तिष्ठ-
न्ति यदेकारोऽन्तरिक्षे यत्सानामुष्मिन्त्सर्वेषु लोकेषु
प्रति तिष्ठन्ति स्वर्णिधनेन तुष्टुवानाः ॥ ९ ॥
अन्वहं स्वर्णिधनमुपयन्तः सद्य एवैते स्वर्गं गच्छन्ति । अतोऽस्मा-
ल्लोकात् च्यवन्त इत्याहुर्ब्रह्मवादिनस्तस्यायं परिहारः यदृचा स्तोत्री-
यया स्वरूपं यन्ति स्वर्णिधनमुपगच्छन्ति । ऋचि हि स्वर्णिधनं गीयते
तेनास्मिन् लोके प्रतितिष्ठन्ति ऋगात्मको हि भूर्लोकः । एषुवरिति (?)य-
देकारस्तत्र विद्यते तेनान्तरिक्षलोके प्रतितिष्ठन्ति यत् साम्ना स्वर्णिधन-
मुपयन्ति तेनामुष्मिन् स्वर्गे प्रतितिष्ठन्ति । एवं च स्वर्णिधनेन तुष्टुवा-
नाः स्तुवन्तः सत्रिणः सर्वेषु लोकेषु प्रतिष्ठिता भवन्ति ॥ ९ ॥
अथ सुज्ञानं विधत्ते—
सुज्ञानं भवति ॥ १० ॥
स्पष्टोऽर्थः ॥ १० ॥
सोमः पुनान इत्यस्यामुत्पन्नं साम शोभनज्ञानहेतुत्वात् सुज्ञानम् एत-
देव आख्यायिकामुखेन प्रदर्श्य सत्रिणामपि अनेन साम्ना शोभनज्ञान-
प्राप्तिर्भवतीत्याह—
देवा वै स्वर्गँल्लोकं यन्तोऽज्ञानादबिभयुस्त एतत्
सुज्ञानमपश्यँस्तेन ज्ञात्रमगच्छन्यत् सुज्ञानमन्वहं भ-
वति ज्ञात्रमेव गच्छन्ति ॥ ११ ॥
देवाः पुरा स्वर्गे लोकं गच्छन्तः शङ्कमाना अज्ञानादबिभयुः भीता
आसन् तदेतत्सुज्ञानं साम दृष्ट्वा प्रायुञ्जत प्रायुङ्क्त तेन ज्ञात्रं संज्ञा-
नमगच्छन् प्राप्ताः । तथा सति इदानीमपि सत्रे अन्वहं सुज्ञानं क्रियते
इति यत् तेन ज्ञात्रं ज्ञानमेव गच्छन्ति सर्वे यजमानाः ॥ ११ ॥
इति ताण्ड्यमहाब्राह्मणे पञ्चमाध्यायस्य सप्तमः खण्डः ।

above it: it's न्वि!
Wait, no, look at the circle with dot:
In line 4, under ये वै:
There is a circle with a dot ꣳ on the left margin? No, under ये there is a small circle with a dot: ꣳ!
Wait, why is there a small circle with a dot under ये?
Wait, that's a stray mark or an insertion mark!
Wait, look above it: between वै and वाचमन्न:
There is ꣳ!
Wait, look at line 4:
ये वै ꣳवाचमन्नमादयन्त्यन्नादा भवन्ति ये न्वितर्षय-?
Wait, let's search Tandya Brahmana 8.8.1:
Let's search my memory of Tandya Brahmana 8.8.1:
"ये वै वाचमन्नमादयन्त्यन्नादा भवन्ति ये विवृषयन्ति..." no.
Wait, what are the two Samans in 8.8?
Line 3 says:
अथ श्यावाश्वन्निहवश्चैते द्वे सामनी अन्वहं भवेतामिति विधित्सुराह-
"श्यावाश्व" and "निहव"!
Line 9 says:
`गौरीवितं

वा अप्लवः समुद्रं प्रस्नाति न स तत उदेति यत्प्लवो
भवति स्वर्गस्य लोकस्य समष्ट्यै ॥ ५ ॥
ये संवत्सरं संवत्सरसाध्यं गवामयनमुपयन्ति एते समुद्रमेव प्रस्ना-
न्ति अवगाहन्ते समुद्रवदस्य सत्रस्यातिगाम्भीर्यात् । यः खलु अप्लवः
उडुपरहितः सन् समुद्रमवगाहते स ततः समुद्रात्नोदेति नोद्गच्छति
निमग्न एव भवति यस्तु प्लवात् समुद्रं प्रस्नाति स तु ततः सकाशादुदे-
त्येव । एवं सति समुद्रकल्पे संवत्सरसत्रे अन्वहं प्लवो भवतीति यत्
तेन प्लवेन संवत्सराख्यं सत्रन्तीर्त्वा स्वर्गलोकस्य सम्प्राप्त्यै यजमाना
भवन्ति ॥ ५ ॥
अत्रत्यन्निधनमनूद्य प्रशंसति—
अति विश्वानि दुरिता तरेमेति यदेवैषां दुष्टुतं
दुःशस्तं तदेतेन तरन्ति ॥ ६ ॥
अस्य साम्नो निधनम् 'अति विश्वानि दुरिता तरेमे'ति अस्मिन्निधने
विश्वानि दुरितानि अतितरेमेत्याशासनं दृश्यते एषां सत्रिरणां यद्दु-
ष्टुतम् अयथाशास्त्रं स्तुतं यच्च दुःशस्तम् अयथाशंसनम् स्तवनं
कृतम् एते 'नातितरणप्रार्थनेन तदुभयन्तरन्ति ॥ ६ ॥
अथाभिप्लवषडहस्य प्रथमेऽहनि अनुष्टुप्स्वोकोनिधनाख्यं साम
कर्त्तव्यमिति विधत्ते—
ओकोनिधनꣳ षडहमुखे भवति ॥ ७ ॥
'तमु अभिप्रगायत आजाविरक्ते अव्यत' इत्येतस्यां योनावुत्पन्नं
साम ओकोनिधनं तत्र हि ओक इति निधनं दृश्यते । तत् साम षड-
हस्य मुखे षडहस्य प्रमुखे प्रथमेऽहनि कार्य्यम् ॥ ७ ॥
तदेतत् स्तौति—
परां वा एते परावतं गच्छन्ति ये षडहस्यान्तं
गच्छन्ति यदोकोनिधनꣳ षडहमुखे भवति प्रज्ञात्यै ॥८॥
ये सत्रिरणः षडहस्य अन्तं गच्छन्ति प्रथममहरारभ्य यावत् षष्ठ-
महस्तावत्पर्य्यन्तन्नैरन्तर्य्येणानुतिष्ठन्ति ते पराम्परावतम् अतिदूरं
गच्छन्ति अतिदूरं हि गच्छतां मार्गज्ञानमपेक्षितं यत् षडहमुखे ओको-
निधनं मवति तत् यज्ञस्य प्रज्ञात्यै भवति ॥ ८ ॥
कथमोकोनिधनेन प्रज्ञातिर्भवति तत्राह—
यदा वै पुरुषः स्वमोक आगच्छति सर्व्वं तर्हि प्रजा-

१६८ ताण्ड्यमहाब्राह्मणे
नाति सर्व्वमस्मै दिवा भवति ॥ ९ ॥
यदा वै खलु पुरुषः स्वं स्वकीयम् ओको गृहं स्थानमागच्छति
प्राप्नोति तर्हि तस्मिन् काले सर्वं प्रजानाति स्वगृहप्राप्तेः पूर्वं समा-
धिक्येन किञ्चिन्न ज्ञायते गृहप्राप्तौ सत्यां समपनोदे सति ज्ञानवान्
भवतीत्यर्थः। सर्वञ्च विद्यमानं वस्तु अस्मै गृहप्राप्ताय दिवा दिवे प्रका-
शाय भवति प्रज्ञातं भवतीत्यर्थः। अत ओको निधनेन तस्य प्रज्ञातिर्यु-
क्तेत्यर्थः ॥ ९ ॥
इति ताण्ड्यमहाब्राह्मणे पञ्चमाध्यायस्य अष्टमः खण्डः ।
अथ नवमः खण्डः ।
उक्तं गवामयनमथ तस्य दीक्षाकालमाह—
एकाष्टकायां दीक्षेरन् ॥ १ ॥
माघकृष्णाष्टमी एकाष्टका । उक्तं हि आपस्तम्बेन 'माघ्याः पौर्णमास्या
उपरि षडष्टका तस्यामष्टमी ज्येष्ठा या सम्पद्यते तामेकाष्टकेत्या-
चक्षत' इति ॥ २ ॥
अथ तस्यामेकाष्टकायां संवत्सरसत्राय दीक्षेरन्—
एषा वै सँवत्सरस्य पत्नी यदेकाष्टकैतस्यां वा एताᳪ
रात्रिं वसति साक्षादेव तत् सँवत्सरमारभ्य दीक्षन्ते ॥
यत या इयमेकाष्टका एषा खलु संवत्सरस्य प्रजापत्यात्मकस्य पत्नी
स्त्री तथा सति एकस्यामेवैकाष्टकायाम् एताᳪ रात्रिम् 'अत्यन्तसंयोगे
द्वितीया' वसति । संवत्सरात्मकः प्रजापतिः शेते । लोके पत्न्याः
समीपे हि पतीरात्रौ वसति । एवं चैकाष्टकायां दीक्षमाणाः साक्षात्
प्रत्यक्षमेव संवत्सरं प्रजापत्यात्मकमारभ्य गीत्वा दीक्षन्ते ॥ २ ॥
अस्मिन् पक्षे एको दोषः स्यादित्याह—

पञ्चमाध्याये नवमः खण्डः । १६९
अपरोऽप्ययं दोषः स्यादित्याह—
विच्छिन्नँ वा एते सव्ँवत्सरस्याभिदीक्षन्ते य एका-
ष्टकायां दीक्षन्तेऽन्तनामानावृतू भवेते ॥ ४ ॥
संवत्सरस्य विच्छिन्नं विच्छेदमभिमुखीकृत्यैते दीक्षन्ते य एकाष्ट-
कायां दीक्षन्ते दीक्षितान् कुर्वन्ति । कुत एतत् ? उच्यते 'मधुश्च माधवश्च
व्वासन्तिकावृतू' इत्यादाविव । अत्रापि ऋतुशब्देन मास एवोच्यते । या-
वेतौ माघफाल्गुनौ मासौ ऋतुशब्दवाच्यौ एतावन्तनामानौ शिशिरर्त्तुः
संवत्सरान्त इति ॥ ४ ॥
तौ मासावन्तशब्दवाच्यौ तयोर्हि संवत्सरः समाप्यते तथा चैवा-
स्मिन् संवत्सरे सत्रारम्भः अपरस्मिन् यजत इत्यत आह—
आर्त्तँ वा एते सव्ँवत्सरस्याभि दीक्षन्ते येऽन्तनामा-
नावृतू अभि दीक्षन्ते ॥ ५ ॥
ये अन्तनामानौ अन्तशब्दवाच्यौ ऋतू मासावभिलक्ष्य दीक्षन्ते एते
संवत्सरस्यान्तं हि अन्तमेवाभिलक्ष्य दीक्षन्ते ॥ ५ ॥
एवं दोषग्रस्तत्वादयं पक्षो न कार्य इत्याह—
तस्मादेकाष्टकायांन्न दीक्ष्यम् ॥ ६ ॥
यस्मादेते पूर्वोक्ता दोषाः प्रसज्येरन् तस्मादेकाष्टकायान्न दीक्ष्यं
दीक्षणं न कार्य्यम् ॥ ६ ॥
एवं प्रथमपक्षं निन्दित्वा पक्षान्तरमाह—
फाल्गुने दीक्षेरन् ॥ ७ ॥
यस्मिन् मासे फाल्गुनी पौर्णमासी युज्यते स फाल्गुनः । तस्मिन्
दीक्षा कार्य्या ॥ ७ ॥
तदेतद्गुणकथनेन प्रशंसति—
मुखं व्वा एतत्सव्ँवत्सरस्य यत फाल्गुनो मुखत एव
तत्सव्ँवत्सरमारभ्य दीक्षन्ते ॥ ८ ॥
यत् फाल्गुनो मास एतत् संवत्सरस्य मुखं यदुत्तरे फाल्गुनो मु-
खत एव तत् संवत्सरस्याग्निमाधायेति । एतदुक्तं भवति यदा फाल्गुनी
पौर्णमासी उत्तरफल्गुनीयुक्ता तदा फाल्गुनमासः संवत्सरस्यादिर्भव-
तीति तत्तथा सति मुखत एव प्रथमत एव संवत्सरमारभ्योपक्रम्य
दीक्षन्ते ॥ ८ ॥
अस्मिन् पक्षसि दोषो विद्यत इत्याह—
१५ ता०

१७० ताण्ड्यमहाब्राह्मणे
तस्य सानिर्या यत्सम्मेघे विषुवान् सम्पद्यते ॥९॥
तस्य फाल्गुने दीक्षणस्य सानिर्या दोषः यत् संमेघे मेघसंघयुक्ते
सत्रे विषुवान् मध्यमहः सम्पद्यते । आदित्यस्तुतो हि विषुवान् तस्य
मेघैरन्तर्द्धानं सम्भाव्यते इति यत् स दोषः स्यादित्यर्थः ॥ ९ ॥
तर्हि सर्वदोषविनिर्मुक्तो दीक्षायाः कालः क ? इत्याशङ्क्याह—
चित्रापूर्णमासे दीक्षेरन् ॥ १० ॥
चित्रायुक्तः पौर्णमासः चित्रापूर्णमासः तस्मिन् दीक्षेरन् ॥१०॥
तदेतत् स्तौति—
चक्षु॒र्वा एतत्सवँत्सरस्य यच्चित्रापूर्णमासो मुखतो
वै॑ चक्षुर्मुखत एव तत्सवँत्सरमारभ्य दीक्षन्ते तस्य न
निर्यास्ति ॥ ११ ॥
चित्रापूर्णमास इति यत् एतत् संवत्सरस्य चक्षुर्वै । जायमानस्य हि
प्रथमं मुखञ्जायते तत्रापि चक्षुरेव प्रथममाविर्भवति । अतस्तत्साहश्या-
दस्य चक्षुषः । उक्तक्रमेण मुखतो मुखप्रदेश एव चक्षुः । अतो मुखत एव
तत् संवत्सरमारभ्य गृहीत्वा दीक्षन्ते । यः फाल्गुनगुण उक्तः सोऽप्यत्र
विद्यत इत्युक्तं भवति। तस्य न निर्यास्ति कश्चिदपि दोषो न विद्यते॥११॥
इत्थं चित्रापौर्णमास्यां दीक्षितव्यमित्युक्तम् अथ तस्मिन्नेव मासे शु-
क्लैकादश्यां दीक्षितव्यमित्याह—
चतुरहे पुरस्तात् पौर्णमास्या दीक्षेरन् ॥ १२ ॥
चैत्र्याः पौर्णमास्याः पुरस्ताच्चतुरहे चतुर्णामह्नां समाहारश्चतुरह-
स्तस्मिन्विद्यमाने गवामयनस्य दीक्षा कार्या ॥ १२ ॥
एवं दीक्षणस्य गुणमाह—
तेषामेकाष्टकायां क्रयः सम्पद्यते तेनैकाष्टकान्न सं-
वद् कुर्व्वन्ति ॥ १३ ॥
सर्वेषां सत्राणां द्वादश दीक्षा भवन्ति तत एकादशीप्रभृति द्वाद-
शसु गतासु रात्रिषु त्रयोदशीरात्रिरष्टमी स्यात् । एकाष्टका च बहुलाष्ट-
मीति अस्यामेकाष्टकेत्युपचारः तस्याः क्रयः सम्पद्यते । प्रथमे ह्युपस-
र्जने राजक्रयस्तस्मिन् दिने प्रातःकाले प्रायणीयाद्या यज्ञावयवाः प्रक्र-
म्यन्ते तेन प्रक्रमेण एकाष्टकां न संवद् कुर्वन्ति क्रियानुपयोगेन व्यर्थं
न कुर्वन्ति । अत एव एकाष्टकाप्रारम्भकृतो गुणश्चास्मिन् पक्षेऽन्त-
र्भवतीत्यर्थः ॥ १३ ॥

पञ्चमाध्याये दशमः खण्डः । १७१
अन्येऽपि गुणा अस्मिन् पक्षे सन्तीत्याह-
तेषां पूर्वपक्षे सुत्या सम्पद्यते पूर्वपक्षे मासाः
सन्तिष्ठमाना यन्ति पूर्वपक्ष उत्तिष्ठन्ति तानुत्तिष्ठतः
पशव ओषधयोऽनूत्तिष्ठन्ति तान्कल्याणी वागभिवद-
त्यरात्सुरिमे सत्रिरण इति ते राध्नुवन्ति ॥ १४ ॥
तेषामेकादश्यां दीक्षमाणानां सुत्या सोमयागः पूर्वपक्षे सम्पद्यते ।
सत्राणां सर्वेषां द्वादशोपसदः तत्राष्टमीप्रभृति द्वादशसु गतासु त्रयोद-
शी शुक्लपक्षपञ्चमी तस्यां प्रथमोऽतिरात्र इति पूर्वपक्षे सुत्या प्रारभ्यत
इत्यर्थः । त्रिंशता त्रिंशताऽहोभिर्मासेषु सन्तिष्ठमानेषु पूर्वपक्ष एव
सर्वमासाः सन्तिष्ठमाना यन्ति वर्त्तन्ते । एवं द्वादशसु मासेषु गतेषु
पूर्वपक्ष एव सत्रादुत्तिष्ठन्ति । तानुत्तिष्ठतः सत्रादुत्थानं कुर्वतो यज-
मानाननु पश्चात् पशव ओषधयश्चोत्तिष्ठन्ति उर्द्धं रोहन्ति । तान्यजमा-
नान् कल्याणी शोभना वाक् यशस्करी वाक् वदति । किमिति इमे सत्रि-
णो यजमानाः अरात्सुः समृद्धा अभवन्निति तदनन्तरन्ते सत्रिरणो रा-
ध्नुवन्ति समृद्धा भवन्ति ॥ १४ ॥
इति ताण्ड्यमहाब्राह्मणे पञ्चमाध्यायस्य नवमः खण्डः !
अथ दशमः खण्डः ।
उक्तो गवामयनस्य दीक्षाकालः । अथ तस्मिन्नेव गवामयने विकल्पे-
न मासि मास्येकमहरुत्सृजेयुरिति विधास्यन्नाह-
आ वा एते सव्ँवँत्सरं प्याधयन्ति य उत्सृजन्ति ॥१॥
ये अहान्युत्सृजन्ति एते संवत्सरमाप्याययन्ति । छिद्रवान् हि देहो
रसादिभिरायत्तो भवति एवमेव संवत्सरमध्ये एवमनुशिष्टः संवत्स-
रेऽपि तदन्तर्भवति । ततः केषाञ्चिदह्लामुत्सर्गस्य संवत्सरछिद्रवत्त्वेनाप्या-
यितो भवति ॥ १ ॥
अनुत्सर्गे बाधमाह-
यथा वै दृतिराध्मात एवँसंवँत्सरोऽनुत्सृष्टो यन्नो-
त्सृजेयुरमेहेन प्रमायुकाः स्युः ॥ २ ॥
यथा चर्ममयो दृतिराध्मातः छिद्रराहित्येन वायुना पूरितः एव-
महामुत्सर्जनाभावे संवत्सरोऽप्याध्मातो भवति । एवं स्थिते यद्यदहानि
नोत्सृजेयुः अमेहेन आध्मानकृतेन उदावर्त्ताख्येन रोगेण प्रमायुकाः मर-
णशीलाः स्युर्भवेयुः सत्रिरणः । अतोऽहरुत्सर्गः कर्त्तव्य इत्यर्थः ॥ २ ॥

तथा प्रकारान्तरेणैतत् प्रशंसति—
प्राणो वै संव्वँत्सर उदाना मासा यदुत्सृजन्ति प्राण
एवोदानान्दधति यो दीक्षितः प्रमीयते या सव्वँत्सर-
स्यानुत्सृष्टस्य शुक् सा तमृच्छति ॥ ३ ॥
देहधारकः प्राण एव संवत्सरः । उदानाः ऊर्द्धगमनादिप्रवृत्तिहेतवः
तस्य वृत्तयः उदाना मासाः । एवं स्थिते मासे अहानि यदुत्सृजन्ति तेन
उदानान् स्तिमितान् प्राण एव दधति धारयन्ति । अनुत्सर्गे तु ऊर्द्धगम-
नेन स्तिमित्यभावात्प्राणसकाशादुदाना निर्गताःस्युः । अपि च अहोभि-
रनुत्सृष्टस्य संवत्सरस्य या शुक् शोकः सा तमृच्छति प्राप्नोति । यो
दीक्षितः सत्रमध्ये प्रमीयते म्रियते । तस्मादहमुत्सर्जनं कार्य्यमित्युक्तं
भवति ॥ ३ ॥
अथ किं कृत्स्नमहुरुत्सृज्यं उत किञ्चिदनुत्सृज्यमिति जिज्ञासायां
ब्रह्मवादिनां विचारं दर्शयति—
तदाहुरुत्सृज्या३न्नोत्सृज्या३मिति ॥ ४ ॥
तत्तत्र गवामयनविषये ब्रह्मवादिन आहुः । किमिति किं ? कृत्स्नमह-
रुत्सृज्यं उताहः किञ्चिदेवोत्सृज्यम् अहस्तु नोत्सृज्यमिति ? श्रुत्यन्तरे तु
पक्षद्वयदर्शनाद्ब्रह्मवादिनां विचारः विचार्य्यमाणानामिति प्लुतिः ॥ ४ ॥
तत्र न सर्वमुत्सृज्यमपि तु किञ्चिदेवोत्सृज्यमिति पक्षमवलम्ब्याह—
यद्युत्सृजेयुरुक्थान्युत्सृजेयुस्तदेवोत्सृष्टं तदनुत्सृष्टम् ॥५॥
यद्यहान्युत्सृजेयुः । यदीति वचनादयमुत्सर्गपक्षो वैकल्पिक इति ग-
म्यते । तस्मिन् पक्षे उक्थसंस्थेष्वहःसु उक्थान्यग्निष्टोमसाम्नः पराणि
स्तोत्राणि शस्त्राणि चोत्सृजेरन् । तदेवाह उत्सृष्टमग्निष्टोमसाम्नः परस्य
प्रयोगस्य परित्यागात् उत्सृष्टं भवति । तत्पर्य्यन्तस्यानुष्ठानात् अनुत्सृ-
ष्टञ्च भवति ॥ ५ ॥
अथास्मिन् पक्षे प्रकारान्तरेणोत्सर्जनानुत्सर्जने दर्शयति—
अथो खल्वाहुरेकात्रिकं कार्य्यन्तदेव साक्षादुत्सृष्टम-
भ्युत्पुण्वन्ति ॥ ६ ॥
अथो खल्विति पक्षान्तरपरिग्रहे । अहर्उत्सर्गपक्षे एकात्रिकमेव स्तोमं
कार्य्यम् । उत्स्रष्टव्येऽहनि विषमस्तोत्रेष्वेकैकैव स्तोत्रीया समेषु च तिस्र
इत्यर्थः । तत्तत्र साक्षादेव स्वकीयस्य स्तोमस्योत्सर्गः । विषमेषु स्तोत्रेषु
एकैव स्तोत्रीया स्यात् समेषु च तिस्र इत्यर्थः । कुत इत्युत्सृष्टं स्तोमम-

'ऽ' followed by 'व' (or 'वै')!
Line 19: "ऽव उत्सृष्टाः स्म इति ऽवत्सानपाकुर्व्वन्ति प्रातः"
Line 20: "पशुमालभन्ते तस्य ऽवपया प्रचरन्ति..."
Line 22: "...श्चरुणा ऽवैश्वदेवेन..."

Wait, why would line 19 have "ऽव उत्सृष्टाः"?
Because in the Samhita/Brahmana text, the editor/manuscript wrote "ऽव" (for श्व, where ś was dropped or read as avagraha, or representing a variant reading / pronunciation!).
Regardless of the phonetic/editorial reason, visually it is unambiguously:
ऽव !
Wait, could it be ऽव?
Let's look at line 19 again:
Yes, it is ऽव उत्सृष्टाः स्म इति ऽवत्सानपाकुर्व्वन्ति प्रातः.
Wait, let's transcribe faithfully what is printed on the page!
If it's printed as ऽव, we transcribe ऽव.
Wait, could it be इव?
Let's compare the first character of line 19 with the 'इ' of "इति" in line 19:
'इ' in "इति":
Top has a horizontal line (shirorekha), then a vertical tick, then an S-like curve, then a loop

अथ माध्यन्दिनसवनस्य प्रयोगमाह—
ततः पशुपुरोडाशेनैकादशकपालेन ततः सवनीये-
नैकादशकपालेन ततो मरुत्वतीयेनैकादशकपालेन त-
तश्चरुणेन्द्रेण तन्माध्यन्दिनँ सवनं सन्तिष्ठते ॥ १० ॥
ततो माध्यन्दिनसमये पशुपुरोडाशेन यद्देवत्यः पशुस्तद्देवत्येनैका-
दशसु कपालेषु संस्कृतेन पुरोडाशेन प्रथममिष्ट्वा ततः सवनीयेनैन्द्रेणै-
कादशकपालेन प्रचर्य्य ततो मरुत्वतीयेन मरुत्वद्गुणविशिष्टेनैन्द्रदेवत्ये-
नैकादशकपालेन प्रचर्य्य ततः केवलेन्द्रदेवत्येन चरुणा प्रचरेयुः। तत्ता-
वतैव माध्यन्दिनं सवनं परिसमाप्यते ॥ १० ॥
अथ तृतीयसवनकृत्यमाह—
पशुना प्रचरन्ति ततः सवनीयेन द्वादशकपालेन
ततो ऽवैश्वदेवेन द्वादशकपालेन ततश्चरुणाऽऽग्निमारुतेन
तत्तृतीयसवनँ सन्तिष्ठते ॥ ११ ॥
पशुना पश्ववयवैः हृदयाद्यैः प्रथमं प्रचरन्ति । ततः सवनीयेनैन्द्रेण
पुरोडाशेन द्वादशकपालेन प्रचर्य्य ततो वैश्वदेवेन विश्वदेवदेवत्येन
द्वादशकपालेन प्रचर्य्य ततोऽग्निमरुद्देवत्येन चरुणा प्रचरेयुः। तत्तावतैव
तृतीयसवनं परिसमाप्यते ॥ ११ ॥
एवं सवनत्रये परिसमाप्ते यत् सायं काले कर्त्तव्यं तद्दर्शयति—
पृषदाज्येन प्रचर्य्य पत्नीस्संयाजयन्ति ॥ १२ ॥
दधिमिश्रमाज्यं पृषदाज्यं तेनानुयाजान् इष्ट्वा ततः पत्नीः संयाजय-
न्ति पत्नीसंयाजान्तमहः समापनीयमित्यर्थः ।
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १२ ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीवीरबुक्कभूपाल-
साम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये सामवेदार्थ-
प्रकाशे ताण्ड्यमहाब्राह्मणे पञ्चमाध्यायस्य दशमः खण्डः ।
पञ्चमाध्यायः समाप्तिमगमत् ।
इति प्रथमा पञ्चिका ।

षष्ठाध्याये प्रथमः खण्डः । १७५
अथ षष्ठोऽध्यायः।
अथ प्रथमः खण्डः ।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
चतुर्थे पञ्चमे चैव गवामयनमीरितम् ।
सर्वप्रकृतिभूतोऽयमग्निष्टोम इहोच्यते ॥
तमेतमग्निष्टोमं विवक्षुराह—
प्रजापतिरकामयत बहु स्यां प्रजायेयेति स एतम-
ग्निष्टोममपश्यत्तमाहरत्तेनेमाः प्रजा असृजत ॥ १ ॥
प्रजापतिर्ब्रह्मा हिरण्यगर्भः । अकामयत कामितवान् । किमिति ? उच्यते ।
बहु स्याम् इदानीमेक एव सन् नानारूपो भवेयं तदर्थं प्रजायेयेति स्वरू-
पानुमर्द्देनैव प्रकर्षेण नानारूपेणोत्पद्येयमिति । स एवं कामयमानः एत-
मग्निष्टोमं प्रजननसाधनरूपमपश्यत् दृष्टवान् ‘यज्ञायज्ञीय’ इत्यस्यामृ-
च्युत्पन्नेनाग्निष्टोमसाम्ना समाप्तेरस्याग्निष्टोम इति नाम सम्पन्नम् ।
तमग्निष्टोममाहरत् अन्वतिष्ठत तेनाहृतेन इमा दृश्यमानाः प्रजाः असृजत
सृष्टवान् । अत्र यस्मात् प्रजापतिराहरत् तस्मादन्यैरयमग्निष्टोमोऽनुष्ठा-
तव्य इति विधिरुन्नेयः । ‘यत् स्तूयते तद्विधीयत’ इति न्यायात् ॥ १ ॥
कथं प्रजाः सृष्टवानिति ? तत्राह—
एकादशेन च वै सता स्तोत्रेणाग्निष्टोमस्यासृजतै-
कादशेन च मासा संव्वँत्सरस्य ता द्वादशेन च स्तोत्रे-
णाग्निष्टोमस्य पर्य्यगृह्णात् द्वादशेन च मासा संव्वँत्स-
रस्य ॥ २ ॥
सन्त्यग्निष्टोमे द्वादश स्तोत्राणि ‘द्वादशाग्निष्टोमस्य स्तोत्राणी’ति
श्रुतेः। तत्रैकादशेन वै स्तोत्रेणाग्निष्टोमस्य सम्बन्धिना तथा संवत्सरस्य
गवामयनसत्रस्य सम्बन्धिना एकादशेन च मासा मासेनोभाभ्यां सि-
सृक्षुः प्रजापतिः ताः प्रजा असृजत । पूर्वं गवामयनप्रस्तावे गवामयनेन
सर्वमसृजतेति वर्णितत्वात् तदवयवभूतेन एकादशेन मासेन सह इदा-
नीं सृष्ट्यभिधानमेकादशस्य स्तोत्रस्य स्तुत्यर्थे । एवमुत्तरत्रापि द्रष्टव्यम् ।
ताः सृष्टाः प्रजाः अग्निष्टोमस्य द्वादशेन स्तोत्रेण संव्वँत्सरस्य गवामय-
नस्य द्वादशेन मासेन पर्य्यगृह्णात् आत्मसात् कृतवान् । लोके एकादश-
द्वादशयोर्मासयोरनतिक्रमेण प्रसवः प्रजायते ॥ २ ॥

१७६ ताण्ड्यमहाब्राह्मणे
उक्तलक्षणानुष्ठानेन तदेव लभ्यत इति प्रशंसति—
तस्मात्प्रजा दशमासो गर्भं भृत्वैकादशमनु प्रजा-
यन्ते तस्माद्द्वादशन्नाभ्यतिहरन्ति द्वादशेन हि परिगृ-
हीतास्तद्य एव वेवँद् परि जाताः प्रजा गृह्णाति प्र जाता
जनयन्ति ॥ ३ ॥
यस्मात् प्रजापतिरेकादशेन प्रजा असृजत तस्माल्लोके प्रजाः स्त्रियः
दशमासो दशमासान् गर्भं भृत्वा धारयित्वा एकादशमनु एकादशे
मासि प्रजायन्ते प्रजनयन्ति । यस्मात् द्वादशेन प्रजापतिः पर्यगृह्णात् त-
स्माद् द्वादशमासमभिलक्ष्यी कृत्य नातिहरन्ति गर्भन्न धारयन्ति । अनति-
क्रमणे कारणमाह—हि यस्मात् द्वादशेन स्तोत्रेण परिगृहीताः प्रजाः
गृह्णाति परिग्रहं करोति न कदाचित्तं परित्यजतीत्यर्थः । किञ्च जाता
अनुकृत्य ताः प्रजाः प्रजनयति उत्पादयति ॥ ३ ॥
अथ प्रजापतेः सृष्टिप्रसङ्गे किञ्चिदर्थमाह—
तासां परिगृहीतानामश्वतर्यत्यक्रामत्तस्या अनु-
हाय रेत आदत्त तद्वडवायान्न्यमाड्यस्माद्वडवा द्विरेता-
स्तस्मादश्वतर्यप्रजा आत्तरेता हि ॥ ४ ॥
तासां प्रजापतिना परिगृहीतानां प्रजानाम्मध्ये अश्वतर्यत्यक्रामत्
अतिक्रम्यागच्छत् । तामनुहायानुगम्य तस्या रेतः प्रजोत्पादनसाधनं
वीर्य्यं आदत्त स्वीकृतवान् । आदाय वडवायां न्यमाट् निमार्ज्जनं स्थापन-
मकरोत् । यस्मादेवन्तस्माद्वडवा द्विरेता स्वकीयरेतसा सह द्विरेता अभूत्
अश्वमश्वतरञ्च रेतोद्वयसामर्थ्यात् प्रसूत इत्यर्थः । रेतस आहृतत्वात् अ-
श्वतर्यप्रजा अनपत्याभूत् अश्वतर्याः कदाचिदश्वतरोऽन्योऽश्वो वा न
जायत इत्यर्थः । सा आत्तरेता हि परित्यक्तप्रजननसामर्थ्या खलु । अयम-
र्थः । सर्वोऽपि तैत्तिरीयके स्पष्टमाम्नायते 'अग्निष्टोमेन वै प्रजा असृजत ता
अग्निष्टोमेनैव पर्यगृह्णात 'तासां परिगृहीतानामश्वतर्यत्यक्रामत्तस्या
अनुहाय रेत आदत्ते' त्यादिना ॥ ४ ॥
अथास्या दक्षिणाऽनर्हतां विषयविशेषे तदर्हताञ्चाह—
तस्माददक्षिणीयाऽति हि सा यज्ञमरिच्यतातिरि-
क्तस्य दक्षिणा स्यात्सलोमत्वाय षोडशिनः स्तोत्रेदेयाऽति-
रिक्तो वै षोडश्यतिरिक्त एवातिरिक्तां ददाति ॥ ५ ॥

?
Wait, look closely at line 15: above यज्ञं, is that a candrabindu?
Wait, no, it's यज्ञं॑ or is it just a smudge?
Wait, look at line 17: ऋतुस्तस्मात्त्रिवृत्स्तोमानां - no accents anywhere!
Line 16: मसृजत तं गायत्रीच्छन्दो... - no accents!
Line 18: त्री च्छन्दसामग्निर्दैवतानां... - no accents!
Line 19: ऋतूनां तस्माद्ब्राह्मणो मुखेन... - no accents!
Line 20: सृष्टः ॥ ६ ॥ - no accents!
This entire book has NO Vedic svara accents!
Wait, but what is that mark above यज्ञं in line 15?
It looks like an anusvara with a slight printing defect or ink squash, or maybe यज्ञँ? But यज्ञं सृजेयेति is followed by सृ, so in Sāmaveda sometimes gum/anunāsika is marked, but here it's just a bindu with an ink mark, or maybe यज्ञं. Let's look at line 8: तत्राश्वतरीन्दद्याद्यजमान -> रीन्दद्याद्य.
Wait, let's look at यज्ञं in line 15 again. It's

उक्तार्थविदुषः फलमाह—
करोति मुखेन ँवीर्य्यं य एव ँवेद ॥ ७ ॥
एवमुक्तमर्थं यो वेद सोऽपि मुखेन वीर्य्यङ्करोति मुखसाध्येन स्वा-
ध्यायप्रवचनादिनैवाभीष्टं साधयति इत्यर्थः ॥ ७ ॥
अथ पञ्चदशस्तोमत्रिष्टुभादीनां सृष्टिमाह—
स उरस्त एव बाहुभ्यां पञ्चदशमसृजत तन्त्रिष्टु-
प्छन्दोऽन्वसृज्यतेन्द्रो देवता राजन्यो मनुष्यो ग्रीष्म
ऋतुस्तस्माद्राजन्यस्य पञ्चदश स्तोमस्त्रिष्टुप्छन्द इन्द्रो-
देवता ग्रीष्म ऋतुस्तस्मादु बाहुवीर्य्यो बाहुभ्याꣳ हि
सृष्टः ॥ ८ ॥
सः प्रजापतिरुरस्त एव । तस्यैव च व्याख्यानं बाहुभ्यामिति । पञ्चद-
शस्तोमं तृचगतानां तिसृणामृचां त्रिष्वपि पर्यायेषु पञ्चवारावृत्ति-
साध्यं पञ्चदशस्तोममसृजत । एवमुत्तरत्र सप्तदशादी

:प्तदशं स्तोममसृजत । तमनु जगतीच्छन्दोऽन्वसृज्यत । तदनु क्रमेण विश्वे-
देवा देवता वैश्यो मनुष्यो वर्षा ऋतुरश्वान्वसृज्यत । तस्मात्प्रजोत्पादकप्रज-
-ननादुत्पन्नत्वात् वैश्यजातीयोऽद्यमानो भक्ष्यमाणो राजादिभिर्धनैरपहि-
यमाणोऽपि न क्षीयते किन्तु पशुपालनादिना समृद्धो भवत्येव । तत्र हेतुः
प्रजननाद्धि सृष्ट इति । तस्मादु तस्मादेव कारणात् स वैश्यो बहुपशुर्भ-
वति । तत्रोपपत्तिरुच्यते-वैश्वदेवो हि जागतो विश्वैर्देवैः सह सृष्टत्वात्
असावपि वैश्वदेवस्तस्मादित्यर्थः । वैश्वदेवत्वमस्य बहुपशुत्वे हेतुः ।
जागतः जगत्या सहोत्पन्नत्वात् असौ जगतीसम्बन्धो भवति । वर्षा ह्यस्य-
-र्तुरित्ययमपि बहुपशुत्वे हेतुः-एतत् स्तोमसम्बन्धस्योपलक्षणम् । अनेन
वैश्यस्य सप्तदशस्तोम

१८० ताण्ड्यमहाब्राह्मणे
यस्मादयं पत्तः सृष्टः । किञ्च तस्मात्प्रजापतेः प्रतिष्ठारूपपादतः सृष्ट-
त्वादयमेकविंशस्तोम इतरस्तोमानाम्मध्ये प्रतिष्ठा भवति । एक-
विंशस्तोमेन यज्ञायज्ञीयेनाग्निष्टोमस्य समाप्तेरस्य प्रतिष्ठात्वम् । हि
यस्मादेकविंशः प्रतिष्ठायाः सृष्टः । अत इत्यर्थः । तस्मात्पादतोनि-
कृष्टप्रदेशादुत्पन्नत्वात् अनुष्टुप्छन्दस्यनु तृतीयार्थमित्यर्थः । अनोः
कर्म्मप्रवचनीयत्वात् छन्दांसीति द्वितीया । अनुसवनप्रयुक्तैर्गायत्र्यादि-
च्छन्दोभिः सह न व्यूहन्ति पृष्ठ्यादिषु छन्दसां व्यूहे क्रियमाणे स्वस्था-
न एवानुष्टुभं प्रयुञ्जते न तस्य स्थानेऽन्यद्गायत्र्यादिकं छन्दः तेषां वा
स्थानेऽनुष्टुभं प्रयुञ्जत इत्यर्थः ॥ ११ ॥
किमर्थमेवमिति तत्राह—
पापवसीयसो विधृत्यै ॥ १२ ॥
पापमध्रस्थानादुत्पन्नमनुष्टुप्छन्दः । वसीयः पुण्यं सुखाद्युत्तम-
स्थानोत्पन्नं गायत्र्यादिकं तदुभयस्य विधृत्यै विधारणाय असाङ्कर्याये-
त्यर्थः ॥ १२ ॥
अथ वेदितुः फलमाह—
विधृतिः पापवसीयसो भवति य एव ँवेद ॥ १३ ॥
यदुक्तमर्थज्ञानातिशयाय पुण्यद्वयस्य विधृतिः विवेचनको भवति
तस्मिन्नुभे समानाश्रयणे स्त इत्यर्थः ॥ १३ ॥
इति ताण्ड्यमहाब्राह्मणे षष्ठाध्यायस्य प्रथमः खण्डः ॥ ६ ॥ १ ॥
अथ द्वितीयः खण्डः ।
तदेवमग्निष्टोमोक्थस्य जोतिष्टोमस्य प्राधान्येन त्रिवृदादिस्तोमच-
तुष्टयस्य च सृष्टिरुक्ता । इदानीं तेष्वेव हि तत् ज्ञातव्यमित्याह—
यो वै स्तोमानुपदेशनवतो वेदोपदेशनवान्भवति ॥ १ ॥
वै शब्दो वाक्यालङ्कारे । यः पुमान् स्तोमान् त्रिवृदादीन् उपदेशन-
वतो वक्ष्यमाणोपदेशेन युक्तान् वेद जानाति सोऽप्युपदेशनवान् भवति
वक्ष्यमाणेन प्राणादिदेवतावान् भवति ॥ १ ॥
के ते उपदेशा इति ? तानाह—
प्राणो वै त्रिवृदूर्द्धमासः पञ्चदशः सव्वँत्सरः सप्तदश
आदित्य एकविंᳪश एते वै स्तोमा उपदेशनवन्त उपदे-
शनवान् भवति य एव ँवेद ॥ २ ॥