ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 189, कुल 518 में से
संदर्भ में पढ़ेंपञ्चमाध्याये नवमः खण्डः । १६९
अपरोऽप्ययं दोषः स्यादित्याह—
विच्छिन्नँ वा एते सव्ँवत्सरस्याभिदीक्षन्ते य एका-
ष्टकायां दीक्षन्तेऽन्तनामानावृतू भवेते ॥ ४ ॥
संवत्सरस्य विच्छिन्नं विच्छेदमभिमुखीकृत्यैते दीक्षन्ते य एकाष्ट-
कायां दीक्षन्ते दीक्षितान् कुर्वन्ति । कुत एतत् ? उच्यते 'मधुश्च माधवश्च
व्वासन्तिकावृतू' इत्यादाविव । अत्रापि ऋतुशब्देन मास एवोच्यते । या-
वेतौ माघफाल्गुनौ मासौ ऋतुशब्दवाच्यौ एतावन्तनामानौ शिशिरर्त्तुः
संवत्सरान्त इति ॥ ४ ॥
तौ मासावन्तशब्दवाच्यौ तयोर्हि संवत्सरः समाप्यते तथा चैवा-
स्मिन् संवत्सरे सत्रारम्भः अपरस्मिन् यजत इत्यत आह—
आर्त्तँ वा एते सव्ँवत्सरस्याभि दीक्षन्ते येऽन्तनामा-
नावृतू अभि दीक्षन्ते ॥ ५ ॥
ये अन्तनामानौ अन्तशब्दवाच्यौ ऋतू मासावभिलक्ष्य दीक्षन्ते एते
संवत्सरस्यान्तं हि अन्तमेवाभिलक्ष्य दीक्षन्ते ॥ ५ ॥
एवं दोषग्रस्तत्वादयं पक्षो न कार्य इत्याह—
तस्मादेकाष्टकायांन्न दीक्ष्यम् ॥ ६ ॥
यस्मादेते पूर्वोक्ता दोषाः प्रसज्येरन् तस्मादेकाष्टकायान्न दीक्ष्यं
दीक्षणं न कार्य्यम् ॥ ६ ॥
एवं प्रथमपक्षं निन्दित्वा पक्षान्तरमाह—
फाल्गुने दीक्षेरन् ॥ ७ ॥
यस्मिन् मासे फाल्गुनी पौर्णमासी युज्यते स फाल्गुनः । तस्मिन्
दीक्षा कार्य्या ॥ ७ ॥
तदेतद्गुणकथनेन प्रशंसति—
मुखं व्वा एतत्सव्ँवत्सरस्य यत फाल्गुनो मुखत एव
तत्सव्ँवत्सरमारभ्य दीक्षन्ते ॥ ८ ॥
यत् फाल्गुनो मास एतत् संवत्सरस्य मुखं यदुत्तरे फाल्गुनो मु-
खत एव तत् संवत्सरस्याग्निमाधायेति । एतदुक्तं भवति यदा फाल्गुनी
पौर्णमासी उत्तरफल्गुनीयुक्ता तदा फाल्गुनमासः संवत्सरस्यादिर्भव-
तीति तत्तथा सति मुखत एव प्रथमत एव संवत्सरमारभ्योपक्रम्य
दीक्षन्ते ॥ ८ ॥
अस्मिन् पक्षसि दोषो विद्यत इत्याह—
१५ ता०