ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 195, कुल 518 में से
संदर्भ में पढ़ेंषष्ठाध्याये प्रथमः खण्डः । १७५
अथ षष्ठोऽध्यायः।
अथ प्रथमः खण्डः ।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
चतुर्थे पञ्चमे चैव गवामयनमीरितम् ।
सर्वप्रकृतिभूतोऽयमग्निष्टोम इहोच्यते ॥
तमेतमग्निष्टोमं विवक्षुराह—
प्रजापतिरकामयत बहु स्यां प्रजायेयेति स एतम-
ग्निष्टोममपश्यत्तमाहरत्तेनेमाः प्रजा असृजत ॥ १ ॥
प्रजापतिर्ब्रह्मा हिरण्यगर्भः । अकामयत कामितवान् । किमिति ? उच्यते ।
बहु स्याम् इदानीमेक एव सन् नानारूपो भवेयं तदर्थं प्रजायेयेति स्वरू-
पानुमर्द्देनैव प्रकर्षेण नानारूपेणोत्पद्येयमिति । स एवं कामयमानः एत-
मग्निष्टोमं प्रजननसाधनरूपमपश्यत् दृष्टवान् ‘यज्ञायज्ञीय’ इत्यस्यामृ-
च्युत्पन्नेनाग्निष्टोमसाम्ना समाप्तेरस्याग्निष्टोम इति नाम सम्पन्नम् ।
तमग्निष्टोममाहरत् अन्वतिष्ठत तेनाहृतेन इमा दृश्यमानाः प्रजाः असृजत
सृष्टवान् । अत्र यस्मात् प्रजापतिराहरत् तस्मादन्यैरयमग्निष्टोमोऽनुष्ठा-
तव्य इति विधिरुन्नेयः । ‘यत् स्तूयते तद्विधीयत’ इति न्यायात् ॥ १ ॥
कथं प्रजाः सृष्टवानिति ? तत्राह—
एकादशेन च वै सता स्तोत्रेणाग्निष्टोमस्यासृजतै-
कादशेन च मासा संव्वँत्सरस्य ता द्वादशेन च स्तोत्रे-
णाग्निष्टोमस्य पर्य्यगृह्णात् द्वादशेन च मासा संव्वँत्स-
रस्य ॥ २ ॥
सन्त्यग्निष्टोमे द्वादश स्तोत्राणि ‘द्वादशाग्निष्टोमस्य स्तोत्राणी’ति
श्रुतेः। तत्रैकादशेन वै स्तोत्रेणाग्निष्टोमस्य सम्बन्धिना तथा संवत्सरस्य
गवामयनसत्रस्य सम्बन्धिना एकादशेन च मासा मासेनोभाभ्यां सि-
सृक्षुः प्रजापतिः ताः प्रजा असृजत । पूर्वं गवामयनप्रस्तावे गवामयनेन
सर्वमसृजतेति वर्णितत्वात् तदवयवभूतेन एकादशेन मासेन सह इदा-
नीं सृष्ट्यभिधानमेकादशस्य स्तोत्रस्य स्तुत्यर्थे । एवमुत्तरत्रापि द्रष्टव्यम् ।
ताः सृष्टाः प्रजाः अग्निष्टोमस्य द्वादशेन स्तोत्रेण संव्वँत्सरस्य गवामय-
नस्य द्वादशेन मासेन पर्य्यगृह्णात् आत्मसात् कृतवान् । लोके एकादश-
द्वादशयोर्मासयोरनतिक्रमेण प्रसवः प्रजायते ॥ २ ॥