ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 192, कुल 518 में से
संदर्भ में पढ़ेंतथा प्रकारान्तरेणैतत् प्रशंसति—
प्राणो वै संव्वँत्सर उदाना मासा यदुत्सृजन्ति प्राण
एवोदानान्दधति यो दीक्षितः प्रमीयते या सव्वँत्सर-
स्यानुत्सृष्टस्य शुक् सा तमृच्छति ॥ ३ ॥
देहधारकः प्राण एव संवत्सरः । उदानाः ऊर्द्धगमनादिप्रवृत्तिहेतवः
तस्य वृत्तयः उदाना मासाः । एवं स्थिते मासे अहानि यदुत्सृजन्ति तेन
उदानान् स्तिमितान् प्राण एव दधति धारयन्ति । अनुत्सर्गे तु ऊर्द्धगम-
नेन स्तिमित्यभावात्प्राणसकाशादुदाना निर्गताःस्युः । अपि च अहोभि-
रनुत्सृष्टस्य संवत्सरस्य या शुक् शोकः सा तमृच्छति प्राप्नोति । यो
दीक्षितः सत्रमध्ये प्रमीयते म्रियते । तस्मादहमुत्सर्जनं कार्य्यमित्युक्तं
भवति ॥ ३ ॥
अथ किं कृत्स्नमहुरुत्सृज्यं उत किञ्चिदनुत्सृज्यमिति जिज्ञासायां
ब्रह्मवादिनां विचारं दर्शयति—
तदाहुरुत्सृज्या३न्नोत्सृज्या३मिति ॥ ४ ॥
तत्तत्र गवामयनविषये ब्रह्मवादिन आहुः । किमिति किं ? कृत्स्नमह-
रुत्सृज्यं उताहः किञ्चिदेवोत्सृज्यम् अहस्तु नोत्सृज्यमिति ? श्रुत्यन्तरे तु
पक्षद्वयदर्शनाद्ब्रह्मवादिनां विचारः विचार्य्यमाणानामिति प्लुतिः ॥ ४ ॥
तत्र न सर्वमुत्सृज्यमपि तु किञ्चिदेवोत्सृज्यमिति पक्षमवलम्ब्याह—
यद्युत्सृजेयुरुक्थान्युत्सृजेयुस्तदेवोत्सृष्टं तदनुत्सृष्टम् ॥५॥
यद्यहान्युत्सृजेयुः । यदीति वचनादयमुत्सर्गपक्षो वैकल्पिक इति ग-
म्यते । तस्मिन् पक्षे उक्थसंस्थेष्वहःसु उक्थान्यग्निष्टोमसाम्नः पराणि
स्तोत्राणि शस्त्राणि चोत्सृजेरन् । तदेवाह उत्सृष्टमग्निष्टोमसाम्नः परस्य
प्रयोगस्य परित्यागात् उत्सृष्टं भवति । तत्पर्य्यन्तस्यानुष्ठानात् अनुत्सृ-
ष्टञ्च भवति ॥ ५ ॥
अथास्मिन् पक्षे प्रकारान्तरेणोत्सर्जनानुत्सर्जने दर्शयति—
अथो खल्वाहुरेकात्रिकं कार्य्यन्तदेव साक्षादुत्सृष्टम-
भ्युत्पुण्वन्ति ॥ ६ ॥
अथो खल्विति पक्षान्तरपरिग्रहे । अहर्उत्सर्गपक्षे एकात्रिकमेव स्तोमं
कार्य्यम् । उत्स्रष्टव्येऽहनि विषमस्तोत्रेष्वेकैकैव स्तोत्रीया समेषु च तिस्र
इत्यर्थः । तत्तत्र साक्षादेव स्वकीयस्य स्तोमस्योत्सर्गः । विषमेषु स्तोत्रेषु
एकैव स्तोत्रीया स्यात् समेषु च तिस्र इत्यर्थः । कुत इत्युत्सृष्टं स्तोमम-