ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
दशमाध्याये सप्तमः खण्डः । ३८१
धनुषोधारीत्यादिकाः सप्तपदाश्चाऽत्र विनियुज्यन्ते । द्विपदा पादद्वया-
त्मिका(१)अग्ने त्वं नो अन्तमः, (२)इमा नु कं भुवना सीषधेमे” त्यादिका
विनाराशंसाः, नराः शस्यन्ते अनयेति नाराशंसा स्तुतिः तद्रहिता
ऋक् अस्याह्नो रूपम्, तथा गोमत् गोशब्दयुक्तं ऋषभवत् ऋषभशब्द
युक्तञ्च(३)'गोभिरञ्जानो अर्षसि' (४)सुदुघामिव गोदुहे” इत्यादिकम्॥६॥
अथोक्तानां षडहसम्बन्धिनां रूपाणां नानात्वं स्तौति—
यस्मादेषा समाना सती षडहविभक्तिर्नानारूपा त-
स्माद्विरूपः संवत्सरः ॥ ७ ॥
यस्मादेषोक्ता षडहविभक्तिः षडहस्य विभक्तिर्विभागः समाना
सती षडहविभक्तित्वेन सदृशी भवत्यपि नानारूपा उक्तप्रकारेण पर-
स्परं विभिन्नरूपा तस्मात् संवत्सरो विरूपो विभिन्नरूपः उक्तप्रकारेण
विलक्षणान्यहानि षडृतुस्थानीयानि । अतो वसन्तादीनां परस्परं वि-
भिन्नधर्म्मत्वात् उक्तं संवत्सरस्य विरूपत्वम् ॥ ७ ॥
एतद्वेदनं प्रशंसति—
विरूपमेनमनुप्रजायते य एवं वेद ॥ ८ ॥
एनं वेदितारमनु पश्चात् विरूपं विविधरूपमपत्यादि प्रजायते
उत्पद्यते य एवमुक्तां विलक्षणां षडहविभक्तिं वेद जानीयात् ॥ ८ ॥
इति ताण्ड्यमहाब्राह्मणे माधवीये वेदार्थप्रकाशे
दशमाध्यायस्य षष्ठः खण्डः ॥
अथ सप्तमः खण्डः ॥
अथाऽस्मिन्नेव पृष्ठ्ये षडहे अग्निविभक्तिवैचित्र्यं प्रदर्य स्तौति—
अग्न इति प्रथमस्याऽह्नो रूपमग्निविभक्तेरग्निमिति
द्वितीयस्याऽग्निनेति तृतीयस्याऽग्निरिति चतुर्थस्य ॥ १ ॥
अग्निविभक्तेः अग्निशब्दस्य या विभक्तयस्तासां मध्ये अग्न इति सम्बु-
ध्यन्तं प्रथमस्याऽह्नो रूपम् । (५)'अग्न आयाहि वीतये' इति हि तस्मिन्नह-
नि दृश्यते । अग्निमिति द्वितीया विभक्तिः द्वितीयस्याऽह्नो रूपम्(६)“अग्निं
दूतं वृणीमह” इति तत्र मन्त्रवर्णः । अग्निनेति तृतीया तृतीयस्याह्नो रूपम्
१. सां. सं. उ. ४. १. २२. १. २. सा. सं. उ. ४. १. २३. १.
३. सा. सं. उ. ४. १, २. २. ४. सा सं. उ. ४. १. १५. १.
५. सा. सं. उ. १. २. १६. २. ६. सा. सं. उ. २. १. ६. १.
३८२ ताण्ड्यमहाब्राह्मणे
अत एव तत्राऽपि (१)“अग्निनाऽग्निः समिध्यत” इति दृश्यते । अग्निरिति
प्रथमैव चतुर्थस्याऽह्नो रूपम् । (२)“जनस्य गोपा अजनिष्ट जागृविरग्निः
सुदक्षः” इति तत्र दर्शनात् ॥ १ ॥
अथ पञ्चमस्याऽह्नोऽसाधारणाग्निविभक्तिं विवक्षुराह—
देवा वै श्रियमैच्छꣳस्तान्न प्रथमेऽहन्यविन्दन्न द्वि-
तीये न तृतीये ताञ्चतुर्थेऽहन्यविन्दन् विन्दते श्रियं य
एवं वेदाऽग्नेरिति पञ्चमस्य तेनो श्रीः प्रत्युपोदितेत्याहुः॥२॥
देवाः खलु पुरा श्रियं सम्पदं ऐच्छन् । तदर्थं द्वादशाऽहमन्वतिष्ठन् ।
तत्र च तां श्रियं प्रथमेऽहनि नाऽविन्दन् नाऽलभन्त । तथा द्वितीये चा-
ऽहनि नाऽविन्दन् । तृतीये चाऽहनि नाऽविन्दन् । एवं प्रथमे त्रिरात्रे
अलध्वा तां चतुर्थेऽहन्यविन्दन् । एवमुक्ताश्रियो लाभं यो वेद असौ श्रियं
सम्पदं विन्दते लभते । एवं चतुर्थेनाऽह्ना श्रियः प्राप्तौ सत्यां अग्नेः इति
विभक्तिः पञ्चमस्याऽह्नो भवतीति यत् तेनो तेनैव सा प्राप्ता श्रीः प्रत्यु-
पोदिता प्रत्याख्यातेत्याहुर्ब्रह्मवादिनः । (३)“तव श्रियो वर्षस्येव विद्यु-
तोऽग्नेश्चिकित्व” इति हि पञ्चमेऽहनि दृश्यते । तत्र चाग्नेः इति सम्ब-
न्धः प्रतीयते । तस्मात् सम्बन्धः प्रत्याख्यात इति तेषां ब्रह्मवादिनाम-
भिप्रायः ॥ २ ॥
एतद्वेदनस्य फलमाह—
अप्रतिवाद्येनं भ्रातृव्यो भवति य एवं वेद ॥ ३ ॥
एवमुक्तं प्रतिवचनं यो वेद भ्रातृव्यः शत्रुः एनमप्रतिवादी भवति
अनेनोक्तं प्रतिवक्तुं न शक्नोति ॥ ३ ॥
आरम्भावसानयोः सारूप्यार्थं तमेव सम्बुद्ध्य षष्ठस्याऽह्नो रूप-
मित्याह—
अग्न ईति षष्ठस्य येनैव रूपेण प्रयन्ति तदभ्युद्यन्ति ॥४॥
(४)‘अग्ने सख्ये मा रिषामा वयं तवे’ति षष्ठेऽहनि दर्शनात् अग्न इ-
त्येतदेव षष्ठस्याऽह्नो रूपम् । तथा च येनैव रूपेण प्रयन्ति षडहं प्रारभन्ते
तेनैव रूपमभिलक्ष्य तेनैव रूपेणोद्यन्ति षडहं समापयन्ति ॥ ४ ॥
उक्तविभक्तिनानात्वं प्रशंसति—
यस्मादेषा समाना सत्याग्निविभक्तिर्नानारूपा तस्मा-
१. सा. सं. छ. २. २. ५. १. २. सा. सं. ३. १. १. ६. १.
३. सा. सं. उ. ३. २. ७. १. ४. सा. सं. उ. ३. १. ६. १.
दशमाध्याये अष्टमः खण्डः । ३८३
द्यथर्त्वादित्यस्तपति ॥ ५ ॥
एषोक्ताऽग्निविभक्तिः समाना अग्निविभक्तित्वेन सरूपा सती यस्मा-
न्नानारूपा सम्बुद्ध्यादिविभक्तिभेदेन परस्परं विलक्षणाकारा तस्मा-
द्धेतोर्यथर्त्तु ऋतावृतौ वसन्तादिके आदित्यो नानारूपः सन् तपति सर्वं
जगद्भासयति ॥ ५ ॥
इति ताण्ड्यमहाब्राह्मणे माधवीये वेदार्थप्रकाशे
दशमाध्यायस्य सप्तमः खण्डः ॥
अथाऽष्टमः खण्डः॥
अथाऽस्मिन् षडहे विभक्तेर्नानात्वं प्रदर्श्य स्तौति—
इन्द्रेति प्रथमस्याऽह्नो रूपमिन्द्रविभक्तेरिन्द्रमिति
द्वितीयस्येन्द्रणेति तृतीयस्येन्द्र इति चतुर्थस्येन्द्रादिति
पञ्चमस्येन्द्रेति षष्ठस्य येनैव रूपेण प्रयन्ति तदभ्युद्यन्ति
यस्मादेषा समाना सतीन्द्रविभक्ति
(dī) or दौ (dau)?
It has a top loop going right: like 'दी' (dī) or 'दौ' (dau)?
Then त + ि = ति
Then श्र + ौ = श्रौ
Then ष = ष!
"दीतिश्रौष" or "दौतिश्रौष"!
Wait, look at 'दी' in "दीदिही":
द with long ī has a curve to the right.
In : the letter has TWO strokes on top? No, it has an i-matra to the right: 'दी'!
Wait, look above the 'द': there is an e-matra?
Wait, look at the next letter: 'ति' (ti).
Wait, could it be "दीधिति"?
No, it is clearly "श्रौष"! Look at the two strokes on 'श्र': 'श्रौ', and then 'ष'!
"श्रौष" is definitely there!
Wait, what is "दीतिश्रौष"?
Could it be "दीदिहीत्येतैर्नवभिर्ऋग्भिः" in L26?
Wait, look at L26 again:
"णेन स्तोभयुक्तेन दीदिहीचेति नवभिर्ऋग्भिः स्तोत्रीयास्तृचो निष्पद्यन्ते"
Wait, look at "स्तृचो":
Is it "स्तृचो"?
Wait, in L26:
"स्तो
? No, it's ङ्!
Wait, why would there be a mark above it?
Could it be that the typesetter accidentally put a repha? Like in "र्बर्हिर्णिध-" where they put rephas everywhere?
Look at "र्बर्हिर्णिध-": repha on ब, repha on हि, repha on णि! THREE rephas in one word!
The typesetter of this page had a loose repha or loved rephas!
In L11, on दिङ्निधनं, did they put a repha too?
Wait, look at: "र्दिङ्निधनं" or "दिर्ङ्निधनं" or "दिङ्निधनं"?
Wait, look at the mark above: it looks like a repha or an accent.
Wait, let's look at L24:
"क्षुल्लकवैष्टम्भंमंहावैष्टम्भं" -> look at "मंहावैष्टम्भं"! There is an anusvara on मं! A clear typo in this edition!
Look at L28:
"ईन्द्रा दूम्नायना १ इषा इत्यादि ।" -> "ईन्द्रा दूम्नायना" has a long ई and long दू!
Look at L29:
"इह कारणिधनेनाऽभ्यस्तं" -> "इह कार" with a space, "कारणिधनेनाऽभ्यस्तं" instead of "इहकारेणाभ
३८६ ताण्ड्यमहाब्राह्मणे
सम्बन्धिनी एषा निधनविभक्तिः समाना सती यस्मादुक्तप्रकारेण ना-
नारूपा तस्मात् भूरादयस्त्रयो लोकाः सहसन्तः एकरूपाः सन्तोऽपि
नानेव नानारूपा एव भवन्ति ॥ १ ॥
इति ताण्ड्यमहाब्राह्मणे माधवीये वेदार्थप्रकाशे
दशमाध्यायस्य दशमः खण्डः ॥
अथैकादशः खण्डः॥
अथेडाविभक्तेर्नानात्वं प्रदर्श्य स्तौति—
द्रवदिदं प्रथमस्याऽह्नो रूपमिडाविभक्तेरूर्द्ध्वेदं द्वितीय-
स्य परिष्टुब्धेडं तृतीयस्येडाभिरैडं चतुर्थस्याऽध्यर्द्ध्वेडं पञ्च-
मस्य यदिहकारेणाऽभ्यस्तं तत् षष्ठस्याऽह्नो रूपमिडानां
यस्मादेषा समाना सतीडाविभक्तिर्नानारूपा तस्मात्स-
मानाः सन्तः पशवो नानारूपाः ॥ १ ॥
इडाविभक्तेः इडा
ेति [ते अब्रुवन्] सतैव..."
Wait! Bharadvajayanas are ANSWERING in the 1st person plural!
What is the 1st person plural?
Wait:
1st day: प्रैवैम (प्र + एव + ऐम, 1st pl of इ)
2nd day: अवसम् एव अकुर्महि (1st pl of कृ)
3rd day: परि एव आप्सवामहि (1st pl of आप्)
4th day: सतैव ... 1st pl of what?
Wait! In line 10, does it end in 'महे' or 'ध्व'?
Wait, the other answers:
5th day: प्राणानेव विच्छिन्दन्त ऐम (1st pl of इ)
6th day: इदमेवागच्छाम (1st pl of गम्)
ALL answers are 1st person plural (ऐम, अकुर्महि, आप्सवामहि, ऐम, अगच्छाम)!
Wait, why would 4th day be 2nd person? It CANNOT be 2nd person! They are answering!
Wait, look at the end of the 4th answer in line 24-25:
"प्राप्तवन्तो वयमिति" -> वयम्!
So the verb in the mantra MUST be 1st person plural!
What 1st person plural ending is it?
-महि? -महे?
Wait! Look at line
३८८ ताण्ड्यमहाब्राह्मणे
अथ यदृचा प्रस्तौतीत्यादिना यैषा स्वरविभक्तिः पूर्वं प्रदर्शिता त-
त्रैकैकमनूद्य स्तौति—
यस्य पदेन प्रस्तौत्यथ स्वारमभि वाव तेन देवाः प-
शूनपश्यन् यत् पुरस्तात् स्तोभमथ स्वारमुदेव तेनासृ-
जन्त यदुभयतःस्तोभमथ स्वारमेभ्य एव तेन लोकेभ्यो
देवाः पशुभ्योऽन्नाद्यं प्रायच्छन् यदनुतुन्नमथ स्वारमुपैव
तेनाशिक्षन्यस्य मध्ये निधनमथ स्वारं गर्भाँस्तेनादधत
तानि हवतास्वारेण प्राजनयन् ॥ २ ॥
यस्य प्रथमेऽहनि विहितस्य साम्नः पदेन ऋचः पादेनैव स्तोभ-
रहितेन प्रस्तौति प्रस्तोता प्रस्तावभागं ब्रूयात् अथाऽनन्तरं स्वारं स्व-
र्य्यमाणं स्वरिति विशिष्टं उद्गीथभागञ्चोद्गाता ब्रवीति तेन साम्नास्तूय-
माना देवाः पशूनेवाऽभ्यपश्यन् यजमानाय दातुमभ्यजानन् यत् पुर-
स्तात्स्तोभं ऋचः पुरस्तात् क्रियमाणेन स्तोभेन युक्तं अथानन्तरं
स्वारं स्वर्य्यमाणं द्वितीयेऽहनि विनियोज्यं साम तेन स्तुता देवा उद्-
सृजन्तैव पूर्वदृष्टान् पशून् यजमानैः प्राप्तुं व्यमुञ्चन् प्रायच्छन्नित्यर्थः
यदुभयतःस्तोभं आद्यन्तयोः स्तोभं आद्यन्तयोः स्तोभयुक्तं अथानन्तरं
स्वर्य्यमपि स्वारं तृतीयेऽहनि विनियोज्यं साम तेन साम्ना स्तुताः देवा
एभ्य एव भूरादिभ्यो लोकेभ्य एव दृष्टेभ्यः पशुभ्यः सकाशादन्ना-
द्यं क्षीरादिकं अदनीयमन्नं प्रायच्छन् प्रकर्षेण दत्तवन्तः यदनुतुन्नं प्रथ-
मं अनुतोदवत् अथाऽनन्तरं स्वारं स्वरितयुक्तं चतुर्थेऽहनि विनियो-
ज्यं साम। तेन स्तुता उपैवाशिक्षन् शिक्षयितुमैच्छन् यजमानान् शक्ता-
न्कर्त्तुमैच्छन्नित्यर्थः। शिक्षतेः(१) 'सनि मीमाघुरभलभशकपत'इत्यादिना सन्-
प्रत्यये परतः(२) “अत्र लोपोऽभ्यासस्ये"त्यभ्यासलोपः। यद्वा शिक्ष
इति दानकर्म्मा यजमानैर्यद्यत्प्रार्थितं तत्तत् प्राप्नुयुरित्यर्थः । यस्य
साम्नो मध्ये निधनं इड़ा अथेत्यादिकं अथानन्तरं स्वारं स्वरितयुक्तं तेन
साम्ना स्तूयमाना देवाः गर्भान् दधन् प्रजासु गर्भाणां निक्षेपणमकार्षुः
इहवताइ इहवताइ हाइहकारवता स्वारेण स्वर्य्यमाणेन साम्ना तान्
पूर्वमाहितान् गर्भान् प्राजनयन् प्रकर्षेण उदपादयन् ॥ २ ॥
पदनिधनं प्रथमस्येत्यादिना येषां निधनविभक्तिरुक्तास्तानवयुत्य
१. पा. सू. ७. ४, ५४. २. पा. सू ७. ४. ५८.
दशमाध्याये द्वादशः खण्डः । ३८९
स्तौति—
इमं वाव देवा लोकं पदनिधनेनाऽभ्यजयन्नमुं बहि-
र्निधनेनान्तरिक्षं दिङ्निधनेनाऽमृतत्वमीनिधनेनागच्छन्
ब्रह्मवर्चसमथनिधनेनाऽवारुन्धताऽस्मिन्नेव लोक इहानिध-
नेन प्रत्यतिष्ठन् ॥ ३ ॥
देवाः खलुः पुरा इममेव भूर्लोकं पदनिधनेन क्रियमाणेन निधनेन
तद्वता साम्ना अभ्यजयन् अमुं स्वर्गलोकं बहिर्णिधनेन ऋगक्षराद्बहि
र्भूतनिधनयुक्तेन साम्नाऽभ्यजयन् । अथ दिङ्निधनेनाऽगच्छन् प्राप्नुवन्
दिश इति निधनवता साम्ना अन्तरिक्षमभ्यजयन् । तथा अमृतत्वं क-
दाचिदपि मरणराहित्यं ईनिधनेन ईकारनिधनेन साम्ना आगच्छन्
प्राप्नुवन् अथंनिधनेन अथकारनिधनेन साम्ना ब्रह्मवर्चसं ब्राह्मं तेजः
अवारुन्धत प्राप्नुवन् । तथा इहानिधनेन इहकारनिधनेन साम्ना अस्मि-
न्नेव भूर्लोके प्रत्यतिष्ठन् चिरकालावस्थायिनोऽभूवन् ॥ ३ ॥
अथ द्रवदिडं प्रथमस्याऽह्नो रूपमित्यादिना यैषा इडा विभक्तिर्न्ना-
मारूपोक्तां तामवयुत्याऽनुवादेन स्तौति—
इमं वाव देवा लोकं द्रवदिडेनाऽभ्यजयन्नमुमूर्ध्वेडेना-
न्तरिक्षं परिष्टुब्धेडेन प्रतिष्ठामिडाभिरैडेनाऽवारुन्धत
प्रतिष्ठायाऽध्यर्द्धेडेन व्यजयन्ताऽस्मिन्नेव लोक इहेडन प्र-
त्यतिष्ठन् ॥ ४ ॥
इममेव भूर्लोकं देवाः पुरा द्रवदिडेन हो इडा इति युक्तेन साम्ना-
ऽभ्यजयन् । ऊर्ध्वेडेन अमुं द्युलोकमभ्यजयन् । परिष्टुब्धेडेन परितः
स्तोभयुक्तेडाशब्दोपेतेन साम्ना अन्तरिक्षलोकमभ्यजयन् । इडाभिरै
डेन साम्ना प्रतिष्ठां प्रतिष्ठानं अवारुन्धत प्राप्नुवन् । प्रतिष्ठायाँ च अध्य-
र्द्धेडेन अर्द्धाधिकयेडया युक्तेन साम्ना अजयन्त ऊर्ध्वमभ्यजयन्त अ-
भितो जयन्त अभितो जयं प्राप्नुवन् अस्मिन्नेव भूर्लोके इहेडेन इहका-
रयुक्तषडहोपेतेन साम्ना प्रत्यतिष्ठन् प्रतिष्ठिता अभवन् ॥ ४ ॥
अथैतामिडाविभक्तिं प्रकारान्तरेण स्तोष्यन् वाङ्निधनात् इडा
निधस्याऽतिशयं दर्शयति—
न वाक् संवत्सरमतिवदतीडैव संवत्सरमतिवदति
गर्भेण संवत्सरे पर्य्यावृत्त्य प्रजायते तेनाऽतिवदति ॥५॥
? It looks like “`).
-
Line 27:
कहायना मनुष्या वाचं वदन्ती”ति श्रुत्यन्तरात् । अतो वाचः सम्व-
वदन्ती”तिhas close quote”.
सम्व-with half-m. -
Line 28:
त्सरात्मकत्वम् । एवं परम्परया अग्नेरेव वागित्युकं भवति । युक्त-
Wait! Is itवागित्युकंorवागित्यक्तंorवागित्युक्तं?
Look at:वागित्युकं-> wait, does it missत्?
Let's look closely atवागित्युकं:
वागित्युकं-> wait, look atयु:
It'sयwithु? No, is there aक?
Wait,वागित्युक्तं:
Is there aत?
Look at the image line 28:
एवं परम्परया अग्नेरेव वागित्युकं भवति ।
Wait! Betweenयandकं:
वागित्यु`
दशमाध्याये द्वादशः खण्डः । ३९१
रूपमित्यादिनोक्तेन प्रत्यहं अग्निशब्दो विभक्तिभेदेन भिद्यते तत्तेन वा-
चमेव तद्विभजन्ति वाग्विभक्तिरेव सा एषा विभक्तिः। अतो वाङ्निध-
नाश्रितमपि फलं सम्पद्यत इत्यर्थः ॥ ७ ॥
तत्र विभज्यमानाग्निशब्दगतां संख्यामनूद्य प्रशंसति—
द्वे द्वे अक्षरे विभजन्ति द्वौ द्वौ हि मासावृतुरथो
मासानामेव तद्रूपं क्रियते ॥ ८ ॥
अग्निविभक्तौ च द्वे द्वे अक्षरे अग्निरिति द्वे अक्षरे इन्द्र इति
द्व्यक्षरञ्च विभजन्ति । कुतः ? हि यस्मात् द्वौ द्वौ मासौ चैत्रादिकौ
सम्भूय ऋतू वसन्तादिक ऋतुर्भवति । अथो अपि च तदक्षरद्वयविभ-
जनात् मासानां द्वन्द्वशो वर्त्तमानानामेव रूपं क्रियते ॥ ८ ॥
अथोक्तां षडहविभक्तिमनूद्य स्तौति—
षडहानि विभजन्ति षडृतव ऋतूनां धृत्यै ऋतू-
नां प्रतिष्ठित्या अथो ऋतूनामेव तद्रूपं क्रियते षडु पुरुषा
यानग्निरनुविधीयते ॥ ९ ॥
दशरात्रस्याऽऽदितः षट्संख्यान्यहानि विभजन्ति एति प्रेत्याशुम-
दित्यादिना पूर्वोक्तेन साधारणरूपेण विभजन्ति विभक्तानि कुर्व्वन्ति ।
ऋतवश्च षट्सङ्ख्याका भवन्ति । यथा च तत् षडहविभजनं ऋतूनां
धृत्यै स्थैर्याय भवति तथा तेषामृतूनां प्रतिष्ठित्त्यै प्रतिष्ठानाय च भव
ति । अथो अपि च तद्विभजनं ऋतूनामेव रूपं क्रियते ऋतवोऽपि
परस्परं विभक्ताकारा विभज्यमानान्यहानि च परस्परं विलक्षणानि
भवन्ति इति तद्वैलक्षण्यमेव ऋतुवैलक्षण्यकारणमित्यर्थः । यस्मादे-
तानि विभज्यमानान्यहानि षट्संख्यानि अत एव कारणात् सदसि
निविष्टा(१) होतृमैत्रावरुणाद्या वषट्कर्त्तारः पुरुषाः षट् षट्संख्या-
का भवन्ति यान् होत्रादीनुलक्ष्य समापि अग्निविधीयते होत्रियादिषु
धिष्ण्येषु आग्नीध्रीयादाहृत्याऽग्निः प्रक्षिप्यते ॥ ९ ॥
ननु सर्व्वासां देवतानां मध्ये अग्नेरिन्द्रस्य चोभयोरेव विभक्तिरु-
क्ता, कुतो नान्यासामित्यत आह—
यदिदं बहुधाग्निर्विधीयते षडसावादित्यः सर्व्वाः-
प्रजाः प्रत्यङ् तस्मादेते एव देवते विभक्तिमान्शाते
नातोऽन्या काचन ॥ १० ॥
१. होता, मैत्रावरुणः पोता, नेष्टा, ब्राह्मणाच्छंसी अच्छावाकः इति षट् ।
यस्मात् इदमयमग्निर्बहुधा बहुप्रकारं विधीयते यस्माच्च असौ
द्युलोकस्थः आदित्यः सर्वा इमाः भूर्लोकवर्त्तिनीः प्रजाः प्रत्यङ् प्रत्य-
ञ्चन् प्रत्येकं पूर्वस्यां दिश्युद्यन् भवति । श्रुत्यन्तरञ्च भवति(१) "तस्मात्
सर्व एव मन्यते मां प्रत्युदगादिती"ति । इन्द्र एव आदित्यः तस्माद्धेतोः
एते एव अग्निरिन्द्रश्चेति देवते विभक्तिं षडहे प्रत्यहं विभागं आनशाते
प्राप्तवत्यौ । अतोऽन्या एतद्व्यतिरिक्ता काचन काचिदपि देवता न
प्राप्तवतीति ।
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १० ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीवीरबुक्कभू-
पालसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये
सामवेदार्थप्रकाशे ताण्ड्यमहाब्राह्मणे
दशमाध्यायस्य द्वादशः खण्डः ॥
दशमाध्यायः समाप्तः ॥
१. तै. प. ६. ५. -.
अथैकादशोऽध्यायः॥
प्रथमः खण्डः॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
इत्थं द्वादशाहं विधाय समुदायशोऽवयवशश्च तत्प्रशंसा कृता ।
तदवयवे पृष्ठ्यषडहे स्तोत्रीयाणां तदाश्रितानां साम्नाञ्च रूपाणि प्र-
दर्शितानि । अथ तद्रूपविशिष्टाः स्तोत्रीयाः सामानि च दाशरात्रिका-
णि विधास्यन्ते । द्वादशाहस्य यावाद्यन्तावतीरात्रौ तौ पूर्वोक्तात् ज्यो-
तिरतिरात्रान्न विशिष्यते । अतस्तौ वर्जयित्वायानि मध्ये दशाऽहानि-
पृष्ठ्यः षडहस्त्रयश्छन्दोमाः दशममहरविवाक्यञ्चेति तेषु प्रथमेऽहनि
अग्निष्टोमसंस्थे सर्वेष्वपि स्तोत्रेषु त्रिवृदेव स्तोमः । द्वितीयादीन्यष्टा-
वहान्युक्थ्यसंस्थानि पञ्चदशसप्तदशैकविंशत्रिणवत्रयस्त्रिंशच्चतुश्चत्वा-
रिंशाष्टाचत्वारिंशस्तोमकानि । दशममहस्तु चतुर्विंशस्तोमकम-
ग्निष्टोमसंस्थम् । तत्राऽग्निष्टोमसाम्नि तु त्रयस्त्रिंशस्तोमः । अथैषा-
महामितः परैर्दशभिः प्रकरणैः स्तोत्रीयाः सामानि च विदधानः प्रद्-
र्शितान् स्तोमांश्च क्रमेण विधत्ते । तत्र प्रथमेऽहनि बहिष्पवमानस्य
स्तोमक्लृप्तिं विधित्सुराह—
स्तोमो युज्यते सात्रियेभ्योऽहर्भ्यः प्रत्नवतीभिश्चो-
पवतीभिश्च ॥ १ ॥
दशरात्रस्य प्रथमेऽहनि बहिष्पवमाने योऽयं विधास्यमानस्त्रिवृ-
त्स्तोमः सोऽसौ प्रत्नवतीभिः प्रत्नशब्दयुक्ताभिः (१) "अस्य प्रत्नामजुषत"
मित्यादिभिः । उपवतीभिः (२) "उपशिक्षापतस्थुषः" इत्यादिभिः स्तो-
त्रीयाभिः प्रयुज्यते सम्बध्यते निष्पद्यते इत्यर्थः । किमर्थम् ? सत्रिये-
भ्यः, द्वादशाहप्रभृतिविश्वसृजामयनपर्यन्तानि सत्राणि । तत्सम्बन्धि-
भ्यः विधित्सितो दशरात्रश्च सर्वसत्रसम्बन्धी भवति । तत्र तत्र "द्वाद-
शाहस्य दशाऽहानीति" विधिदर्शनात् ईदृग्भ्योऽहर्भ्यः अहरर्थम् ।
१. सा. सं. उ. १. २. १६. १. २. सा. सं. उ. १. २. १८. १.
३९४ ताण्ड्यमहाब्राह्मणे
एतच्च(१)नव भवन्ति, नवाहस्य युक्त्या' इत्यनेन विशदीकरिष्यते
समिधो यजति तनूनपातं यजतीत्यादाविव ॥ १ ॥
प्रत्नवतीभिश्चोपवतीभिश्चेति पाठाद्योऽनुष्ठानक्रमोऽवगतस्तमनूद्य
स्तौति—
यत्प्रत्नवत्य उपवतीभ्यः पूर्वा युज्यन्ते ब्रह्म तत्पूर्वं
क्षत्राद्युज्यते ब्रह्म हि पूर्वं क्षत्रात् ॥ २ ॥
उपवतीभ्यः पूर्वे प्रत्नवत्यो युज्यन्ते सम्बध्यन्ते इति यत् तत्तेन ब्रह्म
हि पूर्वं क्षत्रात् ब्राह्मणजातिरेव क्षत्रात् क्षत्रियजातेः पूर्वं युज्यते स-
म्बध्यते । युक्तञ्चैतत् क्षत्रात् क्षत्रियजातेः पूर्वं हि ब्रह्म ब्राह्मणजातिः ।
सृष्टिसमये हि (२)प्रजापतिमुखात् ब्राह्मणजातावुत्पन्नायां पश्चादुरसो
बाहुभ्याञ्च क्षत्रियस्योत्पत्तेः ॥ २ ॥
एतदेव पौर्वापर्य्यं प्रकारान्तरेण स्तौति—
मनस्तत्पूर्वं वाचो युज्यते मनो हि यद्धि मनसा-
ऽभिगच्छति तद्वाचा वदति ॥ ३ ॥
उपवतीभ्यः पूर्वाः प्रत्नवत्यः इति यत् तत् तेन वाचः पूर्वं मन एव
युज्यते । मनो हि मनः खलु वाचः शब्दात् पूर्वं प्रथमभावि भवति ।
यद्धि यत् खलु मनसा अभिगच्छति अभिप्राप्नोति विषयीकरोति
तदेव वाचा वदति, न खलु कश्चित्प्रेक्षावान् मनसा ऽविषयीकृतं वस्तु
वक्तुं शक्नोति । तस्मादेतयोः पौर्वापर्य्यनियमादत्रत्येन पौर्वाप-
र्य्येण तदेव क्रियत इत्यर्थः ॥ ३ ॥
अथ पुनः प्रकारान्तरेण स्तौति—
बृहत्तत्पूर्वं रथन्तराद्युज्यते बृहद्धि पूर्वꣳ रथन्त-
राद्विजित्या तु वै रथन्तरं पूर्वं योगमानशे ॥ ४ ॥
तत्तेन प्रत्नवतीनां पूर्वयोगेन रथन्तरात् पूर्वमुत्पन्नं बृहत्सामैव
युज्यते । बृहत्साम हि रथन्तरात् पूर्वं प्रजापतेरजायत । नन्वेवं बृहतः
प्रथमभावित्वं प्रथमेऽहनि बृहत्सामैव पृष्ठस्तोत्रीयं स्यात् । उभयसा-
मसु च संसवादिषु बृहदेव पूर्वं सम्बध्येतेत्याशङ्कायामिदमुच्यते—
विजित्या त्विति । तुशब्दः पक्षव्यावृत्त्यर्थः । “प्रजापतिरकामयत बहु
स्यां प्रजायेयेति । स तूष्णीं मनसा ध्याय'दित्यादौ बृहत एव प्रथम-
भावित्वं प्रतीयते । तथाऽपि यन्वित्याहुर्बृहत् पूर्वं प्रजापतेः समभवदि-
१. ता. ब्रा. ११. १. ६. २. तै. सं. ७. १. १. द्रष्टव्यम् ।
एकादशाध्याये प्रथमः खण्डः । ३९५
त्यादिना कस्मात् पूर्वं रथन्तरं योगमानश इत्यन्तेन पूर्वे प्रजापतेर्म-
नसि समुद्भूतमपि वृहत्तिरस्कृत्य सृष्टिसमये रथन्तरस्यैव प्रथमसृ-
र्जनात् प्रथमयोग इति पूर्वमुक्तम् । तदेवाऽत्र विजित्येत्युच्यते । वि-
जित्या विजयेनैव रथन्तरं बृहतः पूर्वं दशरात्रस्य प्रथमेऽहनि योगं स-
म्बन्धमानशे प्राप । तृचत्रयात्मको हि त्रिवृत्स्तोमस्तेषु तेषु प्रदेशेषु स-
माम्नातामेकैकामृचमादाय तृचीकृताः ते तृचाः स्युरिति ॥ ४ ॥
विधत्ते—
सम्भार्यास्तृचा भवन्ति यथाऽऽशिष्ठान्वहिष्ठान्-
सम्भरेदेवमेवैतान् सम्भरन्ति गत्यै ॥ ५ ॥
एते तृचाः सम्भार्याः सम्पाद्या भवन्ति । यद्यपि तृतीय एव तृचः
सम्भार्यस्तथापितद्योगात्(१) प्राणभृन्न्यायेन सर्वेऽपि तृचाः सम्भार्या
इति व्यपदेशः । यथा खलु लोक आशिष्ठान्भोक्तृतमान् भक्षणसमर्थान्
वहिष्ठान् वोढृतमांश्च अनडुह अन्विष्य एकत्र सम्भरन्ति समूहीकु-
र्व्वन्ति; गत्यै गमनाय दशरात्रस्याऽन्तप्राप्त्यर्थम् ॥ ५ ॥
अथ सत्रियेभ्य इति यदुक्तं पूर्वं तत् स्तोत्रीयासङ्ख्यानुवादेनोप-
पादयति—
नव भवन्ति नवाहस्य युक्त्या ऋचर्चैवाऽहर्युनक्ति
यथा प्रार्थीस्य शम्या अवदध्यादेवमेवैतन्नवाहस्य शम्या
अवदधाति गत्यै ॥ ६ ॥
एवं त्रिषु तृचेषु नवस्तोत्रीया भवन्ति । एतच्च नवाहस्य अविवा-
क्यात् पूर्व्वभाविना नवरात्रस्य युक्त्यै योजनाय भवति । एतदेव विवृ-
णोते-ऋचर्चैवाहर्युनक्तीति । अत्रत्यया एकैकया ऋचा नवस्वहःसु एकै-
कमहर्योजितवान् भवति । अपिच प्रार्थीस्य प्रकर्षेण इयार्त्ति गच्छतीति
प्रार्थीऽनड्वान् तस्य युजे योजनाय । यथा शम्या अवदध्यात् युगच्छि-
द्रेषु प्रक्षेप्यान् कीलकान् प्रोतान् कुर्य्यात् एवमेवैतत् । एतेन नवर्चेन
नवाहस्य योजनाय शम्या एवाऽवदधाति । तथा सति गत्यै समाप्तिप-
र्य्यन्तं गमनायैतत्त्सम्पद्यते ॥ ६ ॥
१. 'प्राणभृत उपदधाति' इत्यत्र प्राणभृच्छब्दः प्राणभृदप्राणभृत्समुदायमभिधत्ते ।
तत्रैक एव मन्त्रः प्राणशब्दघटितः । अन्ये त्वतथाभूताः । तथापि तत्समुदायः प्राणभृच्छ-
ब्देनोच्यते तद्वत् ।
३९६ ताण्ड्यमहाब्राह्मणे
अथाऽस्मिन्नहनि विधित्सितं स्तोमं बहिष्पवमानस्य विधाय
प्रशंसति—
त्रिवृदेव स्तोमो भवति तेजसे ब्रह्मवर्चसाय ॥ ७ ॥
सिद्धप्रायमेतत् । तेजः (१)प्रकाशः । ब्रह्मवर्चसं श्रुताध्ययनादिजन्यं
ब्राह्मं तेजः । अग्निना सहोत्पन्नत्वात् त्रिवृत्स्तोमः तस्योभयस्य कारणं
भवतीत्यर्थः ॥ ७ ॥
इति ताण्ड्यमहाब्राह्मणे सायणाचार्यविरचिते माधवीये
एकादशाध्यायस्य प्रथमः खण्डः ॥
अथ द्वितीयः खण्डः ॥
प्रथमेऽहनि बहिष्पवमानस्य स्तोत्रीयाः स्तोमाश्च विहिताः। अथा-
ज्यानां विधित्सुराह—
उभाभ्यां वै रूपाभ्यां बहिष्पवमान्यो युज्यन्ते य-
त्सामा स्तोमो भवति तदाज्येषु ॥ १ ॥
उभाभ्यां बृहद्रथन्तराभ्यां रूपाभ्यां खलु बहिष्पवमानस्य स्तोत्री-
याः युज्यन्ते बृहत्तत पूर्वं रथन्तरादिति हि पूर्वमुक्तम् । अतः प्रत्नव-
त्यो बार्हतं रूपं उपवत्यो राथन्तरमिति रूपद्वययोगः आज्येषु आज्य-
स्तोत्रेषु उत्तरस्यैव साम्नो रूपं भवति यत्सामा यत्सामपृष्ठकस्तोमवान्
यागो भवति प्रथमेऽहनि होतुः पृष्ठस्तोत्रे यत्सामा क्रियते तस्यैव सा-
म्नो रूपमाज्येषु भवति नान्यस्येत्यर्थः । अत एव वक्ष्यति राथन्तरमेव
तद्रूपं निर्द्योतयति स्तोम इति ॥ १ ॥
अथाऽऽज्यानि लिङ्गविशेषयुक्तानि विधत्ते—
निराहावन्त्याज्यानि भवन्ति युक्तमेव तैराह्वयति २
निराहावन्ति निष्कृष्य समूहात् पृथक्कृत्य सम्बुद्ध्याभिमुखीकृ-
त्याऽऽह्वानं निराहवः, तद्वन्त्याज्यानि आज्यस्तोत्राणि भवन्ति निराहा-
वन्तीत्यत्र एको वकारलोपश्छान्दसः। तैराह्वानलिङ्गैराज्यैर्बहिष्पवमा-
न्या युक्तं योजितमेव प्रथममहराह्वयति ॥ २ ॥
१. शरीरकान्तिः, इति. क.
एकादशाध्याये द्वितीयः खण्डः । ३९७
कानि पुनस्तथाविधानीति ? तान्याह—
(१) “अग्न आयाहि वीतय” (२) “आ नो मित्रावरुणा”
(३) “ऽऽयाहि सुषुमा हि त” (४) “इन्द्राग्नी आगतꣳसुत”
मिति राथन्तरमेव तद्रूपं निर्द्योतयति स्तोमः इति ॥३॥
एते चत्वारस्तृचाश्चत्वार्याज्यस्तोत्राणि । एषु च आकारो दृश्यते;
एति प्रेत्याशुमदिति परिगणितत्वात् । तच्च राथन्तरं रूपं तदेकमेव रा-
थन्तरं रूपं निर्द्योतयति प्रकाशयति स्तोमश्चाऽऽज्येष्वपि त्रिवृदेव । स चै-
कैकस्मिन्नाज्ये तृचस्याऽऽवर्त्तनेन पूरणीय इत्यर्थः । एवं प्रातःसवनि-
केषु पञ्चसु स्तोत्रेषु स्तोत्रीयाणामेव विधानादत्र गातव्यं साम प्राकृ-
तमेव गायत्रम् ॥ ३ ॥
इति ताण्ड्यमहाब्राह्मणे सायणाचार्यविरचिते माधवीये
वेदार्थप्रकाशे एकादशाध्यायस्य द्वितीयः खण्डः ॥
(१) क. अग्न आयाहि वीतये गृणानो हव्यदातये । नि होता सत्सि बर्हिषि ॥
ख. तं त्वा समिद्भीरङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य ॥
ग. स नः पृथुश्रवाय्यमच्छा देव विवाससि । बृहद्रत्ने सुवीर्यम् ॥ (सा.सं.उ.१.१.४.)
(२) क. आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् । मध्वा रजांसि सुक्रतू ।
ख. उरुशꣳसा नमो वृधा महा दक्षस्य राजथः । द्राघिष्ठाभिः शुचिव्रता ॥
ग. गृणाना जमदग्निना योनावृतस्य सीदतम् । पातꣳसोममृतावृधा ॥
( सा. सं. उ. १. १. ५. )
(३) क. आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् । एदं बर्हिस्सदो मम ॥
ख. आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना । उप ब्रह्माणि नश्शृणु ॥
ग. ब्रह्माणस्त्वा युजा वयꣳसोमपामिन्द्र सोमिनः । सुतावन्तो हवामहे ॥
( सा. सं. उ. १. १. ६. )
(४) क. इन्द्राग्नी आगतꣳसुतं गीर्भिर्नभो वरेण्यम् । अस्य पातं धियेषिता ।
ख. इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः । अया पातमिमꣳसुतम् ॥
ग. इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे । ता सोमस्येह तृम्पतम् ॥
( सा. सं. १. १. ७.)
३४ ता० ब्रा०
अथ तृतीयः खण्डः ॥
अथ माध्यन्दिनपवमानस्य सामानि विधास्यन् स्तोत्रीयांस्ता-
वद्विधाय स्तौति—
"प्र सोमासो विपश्चित" इति गायत्री भवति प्रेत्यै
"अभिद्रोणानि बभ्रव" इत्यभिक्रान्त्यै "सुता इन्द्राय
वायव" इति सँस्कृत्यै "प्र सोम देव वीतय" इति प्रेत्यै
"प्र तु द्रवे"ति प्रेत्यै प्र वा एतेनाऽह्ना यन्ति ॥ १ ॥
(१)'प्र सोमास' इति गायत्रीच्छन्दस्का प्रथमा स्तोत्रीया भवति । सा
च प्रशब्दयोगात् प्रेत्यै प्रायणाय दशरात्रप्रारम्भायोचिता(२) “अभि-
द्रोणानि बभ्रव" इत्यस्यां तु अभीत्युपसर्गो दृश्यते । तेन चाऽभिक्रमणं
स्मार्यते । अतः सा अभिक्रान्त्यै अभिक्रमणाय दशरात्रस्याऽभितः आक्र-
मणाय भवति । (३)'सुता इन्द्राय वायव' इत्यत्रस्थ(४) सुतशब्देनाऽभिषु-
तसोमवाचिना अभिषवाख्यः संस्कारो बुद्धावुपस्थाप्यते । अतस्सा सं-
स्कृत्यै प्रवृत्तस्य दशरात्रस्य संस्कारगुणातिशयाधानाय भवति । (५) “प्र
सोम देव वीतये' (६)"प्र तु द्रवे"त्यनयोः प्रशब्दयोगात् प्रायणं बु-
द्धिस्थं भवति । अतस्तदुभयं प्रेत्यै प्रायणाय दशरात्रस्याऽऽरम्भाय यो-
ग्यम् । एतेन त्रिवृत्स्तोमेन प्रथमेनाऽह्ना प्रयन्ति वै प्रायणमेव कुर्वन्ति
यजमानाः । अतः प्रायणस्य प्रतिपादिका स्तोत्रीया योग्येति भावः ॥ १ ॥
अथ "प्र सोमास" इत्यस्यां स्तोत्रीयायां गातव्यं साम विधत्ते—
गायत्रं भवति ॥ २ ॥
तच्चैकर्चमित्युत्तराग्रन्थे एकस्या ऋच एवाऽध्ययनादवसीयते ॥ २ ॥
अस्य च गायत्रस्य स्तुतिप्रकारविधायकं ब्राह्मणं सार्थवादं पूर्वमा-
१. प्र सोमासो विपश्चितोऽपो नयंत ऊर्मयः । वनानि महिषा इव ॥
२. अभिद्रोणानि बभ्रवः शुक्रा ऋतस्य धारया । वाजं गोमन्तमक्षरन् ॥
३. सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः । सोमा अर्षन्तु विष्णवे ॥
( सा. सं. उ. १. २. १९. १ )
४. सुतशब्दोऽभिषुतसोमवाची तेन. इति ख. पु.
५. प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा ।
अंशोः पयसा मदिरो न जागृविरच्छाकोशं मधुश्चुतम् । (सा. सं. उ. १.२.२०.१)
६. प्र तु द्रव परिकोशं निषीद नृभिः पुनानो अभिवाजमर्ष । अश्वं नत्वा वाजिनं
मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥ ( सा. सं. उ. ११. १०. १. )
एकादशाध्याये तृतीयः खण्डः । ३९९
ज्ञातमत्राऽप्यतिदिशति—
यदेव गायत्रस्य ब्राह्मणम् ॥ ३ ॥
यदेव प्रकृतावग्निष्टोमे विहितस्य गायत्रस्य ब्राह्मणं(१) “इमे वै लोका
गायत्रं ऽयावृद्गेय”मित्यादि तदेवाऽस्याऽपि विहितस्य गायत्रस्य ब्राह्म-
णम् । प्रकरणभेदाद्ब्राह्मणस्याऽसम्बन्धशङ्का स्यात् । तन्मा भूदित्यर्थ-
मयमतिदेशः ॥ ३ ॥
अथाऽ'भिद्रोणानी'त्यस्यां गातव्यं साम विधत्ते—
आश्वं भवति ॥ ४ ॥
स्पष्टम् । एतदप्येकर्चम् ॥ ४ ॥
अथैतत् प्रवृत्त्युपन्यासेन प्रजातिहेतुरिति स्तौति—
अश्वो वै भूत्वा प्रजापतिः प्रजा असृजत स प्रा-
जायत बहुरभवत्प्रजायते बहुर्भवत्याश्वेन तुष्टुवानः॥२॥
पुरा खलु प्रजापतिः सर्वकारणभूतः स्रष्टा अश्वः अश्वरूपी भूत्वा
प्रजाः स्रष्टव्या असृजत सृष्टवान् । पुनरपि स प्राजायत बहुप्रजारूपेणो-
त्पद्यत । ततः बहुरनेकविधोऽभवत् । अतः आश्वेनाऽश्वसम्बन्धिना
साम्ना तुष्टुवानः स्तुतवान् यजमानः प्रजायते पुत्रपौत्रादिरूपेणोत्पद्यते
ततो बहुरनेको भवति ॥ ५ ॥
अथैतस्य निधनविभक्तिमनूद्य स्तौति—
एकाक्षरं निधनमुपयन्ति रथन्तरस्याऽनतिवादाय ॥ ६ ॥
रा २३४५न् इति एकाक्षरं हि अस्य साम्नो निधनं तदुपयन्ति ! रथ-
न्तरस्य साम्नोऽनतिवादायाऽतिवादाभावाय भवति । अस्ति हि रथन्त-
रस्यैकमेवाऽक्षरं निधनम् । तद्यत्राऽपि अनेकाक्षरं निधनं स्यात् रथन्त-
रस्यानतिवादो भवेत् । अत उभयोरेकाक्षरत्वेन साम्यादतिवादा-
भावः सिध्यतीत्यर्थः ॥ ६ ॥
एतद्वेदनं प्रशंसति—
अनतिवाद्येनं भ्रातृव्यो भवति य एवं वेद ॥ ७ ॥
य एवमुक्तमर्थं जानाति एनं वेदितारं भ्रातृव्यः शत्रुरनतिवादी अती-
त्य वादी न भवति एतद्वचनस्योपरि भ्रातृव्यवचनं नोत्पद्यत इत्यर्थः॥७॥
अथ"सुता इन्द्राय वायव" इत्यस्यां गातव्यं साम विधत्ते—
सोमसाम भवति ॥ ८ ॥
१. ता. ब्रा. ७. १. १.
४०० ताण्ड्यमहाब्राह्मणे
सोमेन दृष्टं साम सोमसाम तदप्येकर्चम् ॥ ८ ॥
अथास्य साम्नः सोमसम्बन्धमेवाऽऽख्यानेन प्रदर्शयन् राज्यादिहे-
तुत्वेनेदं स्तौति—
यथा वा इमा अन्या ओषधय एवं सोम आसी-
त्स तपोऽतप्यत स एतत्सोमसामाऽपश्यत्तेन राज्यमा-
धिपत्यमगच्छद्यशोऽभवद्राज्यमाधिपत्यं गच्छति यशो
भवति सोमसाम्ना तुष्टुवानः ॥ ९ ॥
यथा वा यथा खलु इमाः इदानीं दृश्यमानाः अन्या ओषधयः ल-
तागुल्माद्याः, एवमेव सोमः पुरा अविशिष्ट आसीत् । स सोमस्तपोऽ-
तप्यत् ईश्वरस्मरणात्मकं तपश्चक्रे । तत ईश्वरानुग्रहात् स सोम एत-
त्सोमसामाऽपश्यत् दृष्टवान् । दृष्ट्वा च तेन स्तुत्वा राज्यं राज्ञः कर्म्म
आधिपत्यं ओषधीनामाधिपतित्वञ्चाऽगच्छत् प्राप्नोत् । ततो यशो यशस्वी
अभवत् । अतोऽन्योऽपि सोमसाम्ना तुष्टुवानः स्तुवन् राज्यमाधिपत्यं
च गच्छति यशो यशस्वी च भवति ॥ ९ ॥
“प्र सोम देव वीतय” इति तृचे गातव्यसामविधायकं प्राकृतं
तद्ब्राह्मणं चातिदिशति—
यौधाजयं भवति यदेव यौधाजयस्य ब्राह्मणम् ॥ १०
(१)“देवा वै यशस्कामास्सत्रमासताऽग्निरिन्द्रो वायु”रित्युपक्र-
म्य “अथेन्द्रो यौधाजयं प्रावृणोते”त्यादि यदेव प्राकृतस्य यौधाजयस्य
ब्राह्मणं तदेवाऽस्यापि ब्राह्मणं द्रष्टव्यम्, तत्रोक्तं सर्वमस्यापि भव-
तीत्यर्थः ॥ १० ॥
अथ “प्र तु द्रवे”ति तृचे गातव्यं साम विधाय पूर्ववत्तद्ब्राह्मणम-
प्यतिदिशति—
औशनं यदौशनस्य स्तोमः ॥ ११ ॥
भवति, ब्राह्मणमिति पदद्वयमनुषज्यते । औशनं भवति यदेव प्रकृ-
तावौशनस्य ब्राह्मणमाम्नातम् । “(२)अथ वायु रौशनं प्रावृणोते”त्यादिना
तदेवाऽस्याऽप्यौशनस्य ब्राह्मणं भवति । स्तोत्रीयाभिर्माध्यन्दिनस्य पव-
मानस्य त्रिवृत्स्तोमो निष्पन्न इत्यर्थः ॥ ११ ॥
इति ताण्ड्यमहाब्राह्मणे माधवीये वेदार्थप्रकाशे
एकादशाध्यायस्य तृतीयः खण्डः ॥
१. ता. ७. ५. ६–१२. २. ता. ब्रा. ७. ५. १६.