ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 408, कुल 518 में से
संदर्भ में पढ़ें३८८ ताण्ड्यमहाब्राह्मणे
अथ यदृचा प्रस्तौतीत्यादिना यैषा स्वरविभक्तिः पूर्वं प्रदर्शिता त-
त्रैकैकमनूद्य स्तौति—
यस्य पदेन प्रस्तौत्यथ स्वारमभि वाव तेन देवाः प-
शूनपश्यन् यत् पुरस्तात् स्तोभमथ स्वारमुदेव तेनासृ-
जन्त यदुभयतःस्तोभमथ स्वारमेभ्य एव तेन लोकेभ्यो
देवाः पशुभ्योऽन्नाद्यं प्रायच्छन् यदनुतुन्नमथ स्वारमुपैव
तेनाशिक्षन्यस्य मध्ये निधनमथ स्वारं गर्भाँस्तेनादधत
तानि हवतास्वारेण प्राजनयन् ॥ २ ॥
यस्य प्रथमेऽहनि विहितस्य साम्नः पदेन ऋचः पादेनैव स्तोभ-
रहितेन प्रस्तौति प्रस्तोता प्रस्तावभागं ब्रूयात् अथाऽनन्तरं स्वारं स्व-
र्य्यमाणं स्वरिति विशिष्टं उद्गीथभागञ्चोद्गाता ब्रवीति तेन साम्नास्तूय-
माना देवाः पशूनेवाऽभ्यपश्यन् यजमानाय दातुमभ्यजानन् यत् पुर-
स्तात्स्तोभं ऋचः पुरस्तात् क्रियमाणेन स्तोभेन युक्तं अथानन्तरं
स्वारं स्वर्य्यमाणं द्वितीयेऽहनि विनियोज्यं साम तेन स्तुता देवा उद्-
सृजन्तैव पूर्वदृष्टान् पशून् यजमानैः प्राप्तुं व्यमुञ्चन् प्रायच्छन्नित्यर्थः
यदुभयतःस्तोभं आद्यन्तयोः स्तोभं आद्यन्तयोः स्तोभयुक्तं अथानन्तरं
स्वर्य्यमपि स्वारं तृतीयेऽहनि विनियोज्यं साम तेन साम्ना स्तुताः देवा
एभ्य एव भूरादिभ्यो लोकेभ्य एव दृष्टेभ्यः पशुभ्यः सकाशादन्ना-
द्यं क्षीरादिकं अदनीयमन्नं प्रायच्छन् प्रकर्षेण दत्तवन्तः यदनुतुन्नं प्रथ-
मं अनुतोदवत् अथाऽनन्तरं स्वारं स्वरितयुक्तं चतुर्थेऽहनि विनियो-
ज्यं साम। तेन स्तुता उपैवाशिक्षन् शिक्षयितुमैच्छन् यजमानान् शक्ता-
न्कर्त्तुमैच्छन्नित्यर्थः। शिक्षतेः(१) 'सनि मीमाघुरभलभशकपत'इत्यादिना सन्-
प्रत्यये परतः(२) “अत्र लोपोऽभ्यासस्ये"त्यभ्यासलोपः। यद्वा शिक्ष
इति दानकर्म्मा यजमानैर्यद्यत्प्रार्थितं तत्तत् प्राप्नुयुरित्यर्थः । यस्य
साम्नो मध्ये निधनं इड़ा अथेत्यादिकं अथानन्तरं स्वारं स्वरितयुक्तं तेन
साम्ना स्तूयमाना देवाः गर्भान् दधन् प्रजासु गर्भाणां निक्षेपणमकार्षुः
इहवताइ इहवताइ हाइहकारवता स्वारेण स्वर्य्यमाणेन साम्ना तान्
पूर्वमाहितान् गर्भान् प्राजनयन् प्रकर्षेण उदपादयन् ॥ २ ॥
पदनिधनं प्रथमस्येत्यादिना येषां निधनविभक्तिरुक्तास्तानवयुत्य
१. पा. सू. ७. ४, ५४. २. पा. सू ७. ४. ५८.