ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 402, कुल 518 में से
संदर्भ में पढ़ें३८२ ताण्ड्यमहाब्राह्मणे
अत एव तत्राऽपि (१)“अग्निनाऽग्निः समिध्यत” इति दृश्यते । अग्निरिति
प्रथमैव चतुर्थस्याऽह्नो रूपम् । (२)“जनस्य गोपा अजनिष्ट जागृविरग्निः
सुदक्षः” इति तत्र दर्शनात् ॥ १ ॥
अथ पञ्चमस्याऽह्नोऽसाधारणाग्निविभक्तिं विवक्षुराह—
देवा वै श्रियमैच्छꣳस्तान्न प्रथमेऽहन्यविन्दन्न द्वि-
तीये न तृतीये ताञ्चतुर्थेऽहन्यविन्दन् विन्दते श्रियं य
एवं वेदाऽग्नेरिति पञ्चमस्य तेनो श्रीः प्रत्युपोदितेत्याहुः॥२॥
देवाः खलु पुरा श्रियं सम्पदं ऐच्छन् । तदर्थं द्वादशाऽहमन्वतिष्ठन् ।
तत्र च तां श्रियं प्रथमेऽहनि नाऽविन्दन् नाऽलभन्त । तथा द्वितीये चा-
ऽहनि नाऽविन्दन् । तृतीये चाऽहनि नाऽविन्दन् । एवं प्रथमे त्रिरात्रे
अलध्वा तां चतुर्थेऽहन्यविन्दन् । एवमुक्ताश्रियो लाभं यो वेद असौ श्रियं
सम्पदं विन्दते लभते । एवं चतुर्थेनाऽह्ना श्रियः प्राप्तौ सत्यां अग्नेः इति
विभक्तिः पञ्चमस्याऽह्नो भवतीति यत् तेनो तेनैव सा प्राप्ता श्रीः प्रत्यु-
पोदिता प्रत्याख्यातेत्याहुर्ब्रह्मवादिनः । (३)“तव श्रियो वर्षस्येव विद्यु-
तोऽग्नेश्चिकित्व” इति हि पञ्चमेऽहनि दृश्यते । तत्र चाग्नेः इति सम्ब-
न्धः प्रतीयते । तस्मात् सम्बन्धः प्रत्याख्यात इति तेषां ब्रह्मवादिनाम-
भिप्रायः ॥ २ ॥
एतद्वेदनस्य फलमाह—
अप्रतिवाद्येनं भ्रातृव्यो भवति य एवं वेद ॥ ३ ॥
एवमुक्तं प्रतिवचनं यो वेद भ्रातृव्यः शत्रुः एनमप्रतिवादी भवति
अनेनोक्तं प्रतिवक्तुं न शक्नोति ॥ ३ ॥
आरम्भावसानयोः सारूप्यार्थं तमेव सम्बुद्ध्य षष्ठस्याऽह्नो रूप-
मित्याह—
अग्न ईति षष्ठस्य येनैव रूपेण प्रयन्ति तदभ्युद्यन्ति ॥४॥
(४)‘अग्ने सख्ये मा रिषामा वयं तवे’ति षष्ठेऽहनि दर्शनात् अग्न इ-
त्येतदेव षष्ठस्याऽह्नो रूपम् । तथा च येनैव रूपेण प्रयन्ति षडहं प्रारभन्ते
तेनैव रूपमभिलक्ष्य तेनैव रूपेणोद्यन्ति षडहं समापयन्ति ॥ ४ ॥
उक्तविभक्तिनानात्वं प्रशंसति—
यस्मादेषा समाना सत्याग्निविभक्तिर्नानारूपा तस्मा-
१. सा. सं. छ. २. २. ५. १. २. सा. सं. ३. १. १. ६. १.
३. सा. सं. उ. ३. २. ७. १. ४. सा. सं. उ. ३. १. ६. १.