सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 403, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 403

दशमाध्याये अष्टमः खण्डः । ३८३
द्यथर्त्वादित्यस्तपति ॥ ५ ॥
एषोक्ताऽग्निविभक्तिः समाना अग्निविभक्तित्वेन सरूपा सती यस्मा-
न्नानारूपा सम्बुद्ध्यादिविभक्तिभेदेन परस्परं विलक्षणाकारा तस्मा-
द्धेतोर्यथर्त्तु ऋतावृतौ वसन्तादिके आदित्यो नानारूपः सन् तपति सर्वं
जगद्भासयति ॥ ५ ॥
इति ताण्ड्यमहाब्राह्मणे माधवीये वेदार्थप्रकाशे
दशमाध्यायस्य सप्तमः खण्डः ॥
अथाऽष्टमः खण्डः॥
अथाऽस्मिन् षडहे विभक्तेर्नानात्वं प्रदर्श्य स्तौति—
इन्द्रेति प्रथमस्याऽह्नो रूपमिन्द्रविभक्तेरिन्द्रमिति
द्वितीयस्येन्द्रणेति तृतीयस्येन्द्र इति चतुर्थस्येन्द्रादिति
पञ्चमस्येन्द्रेति षष्ठस्य येनैव रूपेण प्रयन्ति तदभ्युद्यन्ति
यस्मादेषा समाना सतीन्द्रविभक्ति