सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

कुर्यात्तदानीं मिथौ चरित्वा शास्त्रार्थपर्यालोचनया मिथ्येदमिति निश्चित्य प्रविशेत्ता-
दात्म्यभ्रमरहितेन देहेन प्रारब्धभोगाय लोकव्यवहारं कुर्यात् । तदेतत्संभावनान्न ऋषे-
र्व्रतमाचारः, स ह्येवमाचरितवान् ।
कल्पः – “आ तमग्ने रथमिति तिस्रः” इति । तत्र प्रथमामाह—
आ तम॑ग्ने॒ रथं॑ तिष्ठ । एका॑श्वमेक॒योज॑नम् ।
एक॑चक्रमेकधु॒रम् । वात॑भ्राजिगतिं वि॑भो, इति ।
हेऽग्न आरुणकेतुकेह कर्मण्यागमनाय तं तादृशं रथमतिष्ठाऽऽरोह । कीदृशम् ।
एकाश्वमेक एव प्रबलोऽश्वस्तं वहति, एकयोजनं निमिषमात्रेण योजनरूपं (प) [म-
ध्वानं] गच्छति, एकचक्रं लौकिकरधवच्चक्रद्वयं नापेक्षते किं त्वेकचक्रेण वर्तते, एकधु-
रमश्वस्यैकत्वात्तद्योजनाय धूरप्येकैव, वातभ्राजिगतिं भ्राजिशब्दोऽपि गमनवाची वातस्य
भ्राजिर्वातभ्राजिस्त[द्व]द्रुतिर्यस्यासौ वातभ्राजिगतिस्तादृशम्, यथोक्तरथस्यालौकिकत्वा-
त्तेन गमनायाचिन्त्यशक्तिमग्नेर्द्योतयितुं विभुशब्देन संबोधनम् ।
अथ द्वितीयामाह—
न रि॑ष्यति॒ न व्य॑थते (७) । नास्याक्षो॑ या॒तु स॑ज्जति ।
यच्छ्वे॒तान्रोहि॑ताँश्चाग्नेः । रथे॑ यु॒क्त्वाऽधितिष्ठ॑ति, इति ।
अयमेकचक्रो रथो न रिष्यति न विनश्यति न व्यथते न नि(वि)षीदति, इतस्त-
तश्चलति, अस्य रथस्याक्षो यातु याने गमनवेलायां न सज्जति क्वापि पाषाणवृक्षादौ
सक्तो न भवति, यद्यस्मात्कारणादग्नेरयमाग्निः श्वेतान्रोहितांश्च प्रसिद्धान्प्रबलानश्वा-
न्पर्यायेणास्मिन्तरथे युक्त्वा तं रथमधितिष्ठति तस्मादश्वसामर्थ्याद्रथस्य न कोऽपि बाध
इत्यर्थः ।
अथ तृतीयामाह—
एक॑या च द॒शभि॑श्च स्वभूते । द्वाभ्या॑मिष्टये
वि॒ꣳशत्या च॑ । ति॒सृभि॑श्च वहसे त्रि॒ꣳशता च॑ ।
नि॒युद्भि॑र्वायवि॒ह ता विमु॑ञ्च ( ८ ), इति ॥
तत॑क्षु॒र्धीम॑हि॒ नाम॑ मे चिकेत गी॒तं प्रत्य॑मुञ्चद्द्व्यथते॒ सम॑ चं ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठक
एकादशोऽनुवाकः ॥ ११ ॥
१ क. ॰ङ्कित्वम॰ । २ ग. ॰द्वयं ।

[प्रपा०१अनु०१२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ५९
नियुच्छब्दो वायुसंबन्धिनीरश्वयोषित आचष्टे । हे वायो, इष्टयेऽस्मत्संबन्धियागार्थं
स्वभूते स्वाधीने रथे, एकादिसंख्यायुक्ताभिर्नियुद्भिर्गतं रथं योजयित्वा वहसेऽस्मत्समीपं
प्रापयसि । अश्वादिविषयाः षट्प्रकाराः संख्याविकल्पिताः । हे वायो, इहाऽऽगत्य
ता नियुतो विमुञ्च ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयारण्यके प्रथमप्रपाठक एकादशोऽनुवाकः ॥ ११ ॥
अथ प्रथमे द्वादशोऽनुवाकः।
कल्पः—“आतनुष्वेति चतस्रः” इति । तत्र प्रथमामाह—
आ॒त॒नुष्व॑ प्र॒त॒नुष्व॑ । उद्द॑माऽऽध॑म॒ संध॑म ।
आ॒दि॒त्ये च॑न्द्रव॒र्णानाम् । गर्भंमाधेंहि॒ यः पुमा॒न्, इति ।
हे इन्द्र त्वमातनुष्व समन्तादात्मानं विस्तारय, स्वरूपं प्रदर्श्य सर्वाननुगृहाण ।
प्रतनुष्व प्रकर्षेण ऋतुषु स्वात्मानं विस्तारय, ऋतुष्वागत्य संनिहितो भव । उद्दमो-
त्कर्षेण शब्दय, अहमागत इत्येवमुच्चैः कथय । आधमाऽऽभिमुख्येन शब्दय ।
संधम सम्यगानुकूल्येन शब्दय । ततस्त्वं चन्द्रवर्णानां हिरण्यवर्णानामपां गर्भमा-
न्दित्ये धेहि, आदित्यरश्मिषु जलं संगृहाणेत्यर्थः । यस्त्वं पुमान्पुंस्त्वशक्तियुक्तः स
तं गर्भमाधेहि ।
अथ द्वितीयामाह—
इ॒तः सि॒क्तꣳ सूर्य॑गतम् । च॒न्द्रम॑से रसं॑ कृधि ।
वा॒रा॒दं ज॑नयाग्रे॒ऽग्निम् । य एको॑ रु॒द्र उ॒च्यते॑, इति ।
इतः कर्मणः सकाशात्सिक्तमाज्य़ाद्याहुतिद्रव्यं सूर्यगतं कृत्वा चन्द्रमसे चन्द्रवृ-
द्ध्यर्थं रसं कृधि कुरु । अग्नौ प्रक्षिप्तं द्रव्यमादित्यं प्राप्य जलं भूत्वा दिवि चन्द्रं
भूमावोषधीश्चाभिवर्धयति, तत्सर्वमिन्द्र त्वं कुरु । ततो वारादं वरणीयस्य फलस्याऽऽ-
समन्ताद्वातारमग्निमारुणकेतुकरूपमग्रेऽस्माकं पुरतो जनयोत्पादय । योऽग्निरेको
रुद्र इति सर्वत्रोच्यते । तथा चान्यत्राऽऽम्नातम्,—“एक एव रुद्रो न द्वितीयाय
तस्थे” इति । “रुद्रो वा एष यदग्निः” इति च ।
१ म. ॰तीथोऽवत० ।

दृश्य॑ते, in ms. क it had a different accent, so १refers to the accent in the mantra, or it's attached to( १ )! Wait, look at L10: Above केचिन्न्वेthere is superscript३! Footnote 3: ३ क. विन्नियेमु॑ । In L12: Aboveआयान्तंthere is superscript४! Footnote 4: ४ क. ख. धावन्तं । Aboveकेचिदपिthere is superscript५! Footnote 5: ५ क. मा नियेमु॑ । Aboveमा(orमाँ) there is superscript ६! Footnote 6: ६ ग. आ । In L18: Atइति॑there is superscript७! Footnote 7: ७ ख. ग. इत्यं । । In L17: Atमा मा॑there is superscript८! Footnote 8: ८ क. ख. ग. ॰नो मां मा । In L21: Atनिधन्वेवthere is superscript९! Footnote 9: ९ ख. निधनं॰ । In L23: Atद्व

ौ वा इन्द्र॑स्याश्वौ"
Wait, "इन्द्र॑स्याश्वौ" has udatta on द्र! (इन्द्र॑स्याश्वौ).
And line 28:
"ताभ्यां ह्येष सर्वं हरतीति, मेधातिथेर्मेषेति मेधातिथिं काण्वायनिं मेषो भूत्वा जहार,"
Wait, in L28: "मेधातिथिं काण्वायनिं" or "काण्वायनं"?
Look at L28: "काण्वायनिं" - yes, क-ा-ण-्-व-ा-य-न-ि-ं.

Let's review the whole page systematically line by line:

[प्रपा० १ अनु० १२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६१
अणुभिश्च क्षणमुहूर्ताद्याकारेण सूक्ष्मरूपैः, महद्भिश्च संवत्सरयुगादिरूपेण प्रौढैरपि,
निघृष्वैर्नितरां दीप्यमानैः, यद्यपि कालस्ये नीरूपत्वान्नास्ति दीप्तिस्तथाऽपि तदभिमा-
निनां देवानामस्त्येव दीप्तिः । असमायुतैः परस्परमसंगतैः, न ह्येकस्मिन्काले वर्तमाने
कालान्तरं सह प्रवर्त

:
Wait! There is:
पै -> then a vertical line -> then a loop at the top -> then a letter -> then हा!
Wait, the letter under the loop is ह?
Wait, if the letter under the loop is ह, then it is हि! But what follows हि?
Follows हि is हा? No, wait, look at the next letter:
It has a top bar, a left downward stroke, a loop... that's हा!
Wait, why would there be हि AND हा?
Wait, is there really हिहा?
LOOK AT IT CLOSELY:
वि॒
श्व
रू॑
पै
Then: र॒
Then: हि
Then: हा
Wait! Is it अ॒हिहा?
"अहिहा"? Ah! "अहिहा" means slayer of Ahi (Vritra)!
Wait! Does the mantra say:
वि॒श्वरू॑पैर॒हिहाऽऽग॑ताम्?
OH MY GOD!
अहिहा = slayer of Vritra! Indra is Ahiha!
WAIT, but the deities are बृहस्पतिश्च सविता च!
Wait, is one of them अहिहा?
Wait, what does the commentary say in line 27?
Let's read line 27:

तामागच्छताम् । केन साधनेन । उदकवर्त्मना रथेन, उदकस्येव वर्त्म मार्गो यस्य
रथस्य सोऽयमुदकवर्त्मा यथा वृष्टिजलस्यान्तरिक्षमेव मार्ग एवमेतदीयरथस्याप्यन्तरि-
क्षमेव मार्गः । कीदृशावेतौ, अप्सुषा, अपां संवितारौ । इति, एवमुक्तप्रकारेण द्वयोः
सवितृबृहस्पत्योरुभयोः, तत्स्वरूपमुक्तमिति शेषः । एवं त्रयो मन्त्रा उक्ताः, चतुर्थ-
स्तूपरिष्टादुदाहरिष्यते ।
उक्तो वेषो॒ वासा॑ꣳसि च । कालावयवानामितः
प्रैतीज्या । वासात्या॒ इत्याश्विनोः । कोऽन्तरि॑-
क्षे श॒ब्दं क॑रोतीति॑ । वासिष्ठो रौहिणो
मीमाꣳसां चक्रे । तस्यै॒षा भव॑ति, इति ।
कालावयवानां वसन्ताद्यृतूनामितोऽस्मादनुवाकात्प्रतीच्यामेप्वतीतेष्वनुवाकेषु साकं
जानामित्यादिषु वेष आकारविशेष उक्तः, वासांसि च वस्त्राण्यप्युक्तानि । “ ऋतु-
र्ऋतुना नुद्यमानः । विननादाभिभावः । षष्टिश्च त्रिंशका वल्गाः ” इत्यादिना यत्स्वरूप-
मृतूनामभिहितं सोऽयं वेष इत्युच्यते । “ सारगवस्त्रैर्जरद्दक्षः । वसन्तो वसुभिः सह ”
इत्यादिना वस्त्राण्युक्तानि । तथा वासात्यौ चित्रावित्यादिनाऽश्विनोर्देवयोर्वेष उक्तः ।
यद्यप्येतद्ब्राह्मणं न संनिहितमन्त्रोपयुक्तं तथाऽप्युक्तं स्थनमिति वचनेन बुद्धिस्थमर्थं
प्रसङ्गाद्ब्रूते । अथ चतुर्थमन्त्रोदाहरणार्थमिदमुच्यते—वासिष्ठो वसिष्ठगोत्रोत्पन्नः,
रौहिणः, रोहिणाश्वस्य मुनेः पुत्रः, सोऽयमाकाशे कांचिद्ध्वनिं श्रुत्वा मीमांसां चक्रे
विचारितवान् । किमिति । को नामान्तरिक्षे शब्दं करोति, न ह्यूर्ध्वमवलोक्यमाने
कश्चिदपि पुमानुपलभ्यते शब्दश्चायं भेरीवादनादप्यधिकः श्रूयते । तस्माद्विस्मयं प्राप्तस्य
को नाम शब्दकर्तेति विचारः । तस्य विचारस्यैषा निर्णयवादिनी काचिदृग्विद्यते ।
तस्या ऋचः प्रतीकं दर्शयति--
वाश्रेव॑ वि॒द्युदिति॑, इति ।
वाश्रेव विद्युन्मिमातीत्ययं मन्त्रोऽग्निना रयिमश्नवदित्यनुवाके व्याख्यातः । वाश्रा
वाशनशीला गौर्यथा वत्सं प्रति शब्दं करोत्येवमियं विद्युत्सूर्यतेजोरूपमेघव॑र्तिनी मिपाति
शब्दं निर्मिमीत इत्यर्थः ।
कल्पः—“ ब्रह्म॑ण उदर॒णम॑सीति चतस्रो ब्रह्मसदनाः ” इति । पाठस्तु---
ब्रह्म॑ण उदर॒णम॑सि । ब्रह्म॑ण उदी॒रण॑मसि । ब्रह्म॑ण
१ क. ख. ॰क्षम्र्ग० । २ ख. ग. सनितारौ । ३ ख. ग. प्रतीच्या । ४ क. ॰तीच्या
ऽितीष्ये० । ५ ख. ग. ॰ब्दुश्च मे० ।

६४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०१अनु०१३]
आ॒स्त॑रणमसि । ब्रह्मण॑ उप॒स्तर॑णमसि(५), इति ॥
दृ॒श्य॑ते च मे॒ने प॒रां ग॒ताश्च॑क्रे षट् च॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके
द्वादशोऽनुवाकः ॥ १२ ॥
हे इष्टके त्वं ब्रह्मणो हिरण्यगर्भस्योदरमणुदीरणत्वहेतुरसि । उदीरणमुदीर्णत्व-
हेतुरसि । उदीरणत्वं लोभरहित्यम् । उदीर्णत्वं गुणान्तरैरन्येभ्य आधिक्यम् । आस्त-
रणमासनम् । उपस्तरणमुपर्याच्छादनम् । एतैश्चतुर्भियजुर्मन्त्रैश्चतस्र इष्टका उप-
दध्यात् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्ति-
रीयारण्यके प्रथमप्रपाठके द्वादशोऽनुवाकः ॥ १२ ॥
अथ प्रथमे त्रयोदशोऽनुवाकः ।
कल्पः--‘‘ अष्टयोनीमित्यष्टौ दिश्याः ” इति । तत्र प्रथमामाह--
अ॒ष्टयो॑नीम॒ष्टपु॑त्राम् । अ॒ष्टप॑त्नीमि॒मां म॒ही॑म् ।
अ॒हं वेद॒ न मे॑ मृ॒त्युः । न चामृ॒त्युर॒घाऽह॑रत्, इति ।
अष्टावष्टसंख्याकानि मूलप्रकृतिसहितानि महदहंकारपञ्चतन्मात्ररूपाणि तत्त्वानि
योनयः कारणानि यस्याः पृथिव्याः सेयमष्टयोनी ताम् । अष्टसंख्याका वक्ष्यमाणा
मित्रावरुणादयः पुत्रा यस्याः पृथिव्याः सेयमष्टपुत्रा ताम् । अष्टसंख्याका इन्द्रादयो
दिग्वर्तिनः पतयः पालका यस्याः पृथिव्याः सेयमष्टपत्नी ताम् । तथोक्तगुणयुक्तामिमां
महीं पृथिवीमहं मन्त्रद्रष्टा वेद जानामि, अतो ज्ञानप्रभावेन मे मृत्युर्नास्ति, किं त्वमृतो
मुक्त एव भविष्यामीति शेषः । किं च । अमृत्युः परममृत्योरन्योऽपमृत्युरित्यर्थः ।
सोऽघा पापानि दुःखानि न चाहरज्ज्ञानप्रभावादेव नैव संपादयिष्यति ।
अथ द्वितीयां तृतीयां चाऽऽह--
अ॒ष्टयो॑न्य॒ष्टपु॑त्रम् । अ॒ष्टप॑दिद॒मन्तरि॑क्षम् । अ॒हं
वेद॒ न मे॑ मृत्युः । न चामृ॒त्युर॒घाऽह॑रत् ।
अ॒ष्टयो॑नीम॒ष्टपु॑त्राम् । अ॒ष्टप॑त्नीम॒मूं दिव॑म् (१) ।
अ॒हं वेद॒ न मे॑ मृत्युः । न चामृ॒त्युरघाऽह॑रत्, इति ।
१ ख. ग. ॰परि दृ॰ ।

अष्टपदृष्टपतिः, अष्टसंख्याका (क) पालका इ(कमि)त्यर्थः । अन्यत्पूर्ववत् ।
अथ चतुर्थपञ्चममन्त्रयोः प्रतीके दर्शयति--
सुत्रा॒माणं॑ म॒हीमू॒षु, इति ।
सुत्रामाणं पृथिवीं द्वामित्येको मन्त्रः । महीमूषु मातरमित्यपरो मन्त्रः । एतौ चोभौ
वैश्वानरो न उत्येत्यनुवाके व्याख्यातौ ।
अथ षष्ठीमाह--
अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्षम् । अदि॑तिर्मा॒ता स
पि॒ता स पु॒त्रः । विश्वे॑ दे॒वा अदि॑तिः पञ्च॑-
जनाः॑ । अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम्, इति ।
अदितिशब्दवाच्यदेवता सर्वात्मकत्वेन स्तूयते--माता पृथिवी, अतो लोकत्रया-
त्मकांशदेवताविशेषोऽदित्याख्यः सर्वस्य जगतः पिता स एव पुत्रश्च । ये विश्वे
देवाः सर्वेऽपि देवाः, ये च पञ्चजना निषादपञ्चमा ब्राह्मणक्षत्रियवैश्यशूद्रास्ते सर्वेऽप्य-
दितिरेव, जातं पूर्वमुत्पन्नं जगत्, जनित्वं जननरूपो व्यापारस्तत्सर्वमप्यदितिरेव ।
अथ सप्तमीमाह--
अ॒ष्टौ पु॒त्रासो॒ अदि॑तेः । ये जा॒तास्त॒न्वः॒ परि॑ ।
दे॒वाँ२ उपै॒त्त्स॒प्तभिः॑ ( २ ) । परा॑ मा॒र्त्ताण्ड॒मास्य॑त्, इति ।
अदितेर्देवताया अष्टौ पुत्रासोऽष्टसंख्याकाः पुत्रा विद्यन्ते, ये पुत्रास्तन्वः परि
शरीरस्योपरि जाता औरसा इत्यर्थः । तेषां मध्ये सप्तभिः पुत्रैः सह देवानुपैत्स-
मीपे प्राप्तवती, मार्त्ताण्डमष्टमं पुत्रं परास्यत्पराकृतवती । तमेकं परित्यज्यान्यैरेव
सप्तभिः सह देवलोकं गता ।
अथाष्टमीमाह--
स॒प्तभिः॑ पु॒त्रैरदि॑तिः । उपै॒त्पूर्व्यं॑ यु॒गम् । प्र॒जायै॑
मृ॒त्यवे॑ तत् । परा॑ मा॒र्त्ताण्ड॒माभ॑र॒दिति॑, इति ।
अस्यामृच्यदितिदेवतायाः सप्तपुत्रस्वीकारे मार्ताण्डपरित्यागे च कारणमुच्यते--
इयमदितिर्देवी सप्तभिः पुत्रैर्निमित्तभूतैस्तदुत्पादनार्थं पूर्व्यं युगं तदुत्पत्तेः पूर्वकालीनं
पतिसंयोगं प्रजायै प्रजोत्पत्त्यर्थमुपैत्प्रीतिपूर्वकं प्राप्तवती । एतेषु महत्सु पुत्रेषूत्पन्नेषु
तद्द्वारा प्रजावृद्धिर्भवतीत्यभिप्रेत्य तैः सह देवलोके गमनम् । मार्त्ताण्डाख्यमष्टमं पुत्रं

परोभरत्परित्यक्तवतीति यत्तन्मृत्यवे मृत्युनिमित्तम्, मार्ताण्डो हि मृत्योरेव हेतुर्न
प्रजाविवृद्धेः । मार्ताण्डो ह्यादित्यः, स चाण्डभेदेनोत्पद्यते । तथा हि च्छन्दोगाः—
“तदाण्डं निरवर्तत तत्संवत्सरस्य मात्रामदायत । तन्निरभिद्यत” इत्युपक्रम्यान्ते समा-
मनन्ति—“यत्तदजायत सोऽसावादित्यः” इति । शब्दानिर्वचनमपि तादृशमेव, मृतमण्डं
यदीयजन्मना स मार्ताण्ड इति । तथा च स्मर्यते—“मृतेऽण्डे जायते यस्मान्मार्ताण्डः
स उदाहृतः” इति । अतोऽयं मृत्यवे मृत्युप्रीत्यर्थमेवोपयुज्यते न त्वभिवृद्ध्यर्थमित्य-
दितेस्तत्परित्यागो युक्तः । इतिशब्दो मन्त्रसमाप्तिद्योतनार्थः ।
अथ ब्राह्मणवाक्यमुच्यते--
ताननुक्र॑मिष्यामः, इति ।
अष्टपुत्रामिति ये पुत्राः सूचितास्तान्पुत्राननुक्रमेण वक्ष्यामः ।
कल्पः—“मित्रश्च वरुणश्चेत्यष्टौ दिश्याः” इति । पाठस्तु--
मि॒त्रश्च॒ वरु॑णश्च । धा॒ता चार्य॒मा च॑ । अं॒श-
श्च॒ भग॑श्च । इन्द्र॑श्च विव॒स्वाꣳश्चेत्येते, इति ।
मित्रादिनामान्येवात्र मन्त्राः । मित्रस्तया देवतयाऽङ्गिरस्वद्ध्रुवा सीदेत्युपधानं द्रष्ट-
व्यम् । इत्येते मित्रावरुणादयोऽष्टौ पुत्रा उक्ताः ।
अथ मन्त्रचतुष्टयस्य प्रतीकानि दर्शयति—
हिर॑ण्यग॒र्भो ह॒ꣳसः शु॑चि॒षत् । ब्रह्म॑जज्ञा॒नं तदि॒त्प॒दमि॑ति, इति ।
हिरण्यगर्भ इत्ययं मन्त्र ऊर्ध्वा अस्येत्यनुवाके व्याख्यातः । हꣳसः शुचिषदित्ययं
मन्त्र इन्द्रस्य वज्रोऽसीत्यनुवाके व्याख्यातः । ब्रह्मजज्ञानमित्ययं मन्त्रोऽभ्यस्थाद्विश्वा
इत्यनुवाके व्याख्यातः । तदित्पदमित्ययं मन्त्र उदस्ताप्सीत्सवितेत्यनुवाके व्याख्यातः ।
तत्र हिरण्यगर्भ इति मन्त्रो हिरण्मयपुरुषोपधानार्थः । हꣳसः शुचिषदिति मन्त्रः पुष्कर-
पर्णोपधानार्थः । ब्रह्मजज्ञानमिति मन्त्रो रुक्मोपधानार्थः । तदित्पदमिति मन्त्रः कूर्मोप-
धानार्थः । एतदेवाभिप्रेत्य कल्पेऽभिहितम्—“ पुष्करपर्णे रुक्मं हिरण्मयं पुरुषं
कूर्मम्” इति । इतिशब्दः प्रतीकसमाप्त्यर्थः ।
अथ ब्राह्मणमुच्यते —
गर्भः॑ प्राजाप॒त्यः । अथ॒ पुरु॑षः स॒प्तपु॑रुषः ( ३ ), इति ॥
१ क ॰रास्यस्त । । २ क. ख. ॰त्युन्निमि॰ । ३ क. ॰णम् । ४ ख. ग. ॰स्वदित्ये॰ ।
५ ख. ग. ॰र्णे हि॰ ।

१अनु० १४] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६७
अ॒मूं दिव॑म्¹ स॒प्तभि॑रे॒ते च॒त्वारि॑ च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके
त्रयोदशोऽनुवाकः ॥ १३ ॥
प्रजापतेरयं प्राजापत्यः, तादृशो गर्भः पूर्वमुक्तः, हिरण्यगर्भ इति मन्त्रे प्राजाप-
त्यगर्भाभिधानात् । अथानन्तरमुत्तरेणानुवाकेन पुरुष आदित्यरूपः प्रतिपाद्यते । स
च कीदृशः, सप्तपुरुषः सप्त पुरुषाः किंकरस्थानीया नक्षत्रमासार्धमासर्तुसंवत्सराहोरा-
त्रारूपपुरुषा यस्यासौ सप्तपुरुषः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयारण्यकभाष्ये त्रयोदशोऽनुवाकः ॥ १३ ॥
अथ प्रथमप्रपाठके चतुर्दशोऽनुवाकः ।
योऽसावित्यनुवाकस्योपधाने विनियोगादर्शनाल्लिङ्गानुसारेणाऽ

६८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा० १ अनु० १४]
योऽसावादित्यः सायंकालेऽस्तं प्राप्नोति सोऽप्येकमहः समाप्य तावन्मात्रमायुः
क्षपयति । अन्यत्पूर्ववत् ।
अथ तृतीयं मन्त्रमाह-
अ॒सौ य आपूर्य॑ति । स सर्वे॑षां भू॒तानां॒ प्राणै॑रा॒पूर्य॑ति (१) । मा
मे॑ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॒ प्राणै॑रा॒पूरि॑ष्ठाः, इति ।
उदेतुं प्रक्रान्तः सूर्यः क्रमेण यावद्यावद्रश्मि[भि]रापूर्यते तावत्तावत्प्राणिनामायुः
क्षीयते । अन्यत्पूर्ववत् ।
अथ चतुर्थै³माह-
अ॒सौ योऽप॑क्षी॒यति॑ । स सर्वे॑षां भू॒तानां॒ प्राणै॑रपक्षी॒यति॑ । मा
मे॒ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॒ प्राणै॑रपक्षेष्ठाः, इति ।
अस्तं प्राप्तुमुपक्रान्तः सूर्यो यावद्यावद्रश्मिभिः क्रमेण क्षीणो भवति तावत्तावत्प्राणि-
नामायुःक्षयः । अन्यत्पूर्ववत्सर्वत्र योज्यम् ।
अथ पञ्चममाह--
अ॒मूनि॒ नक्ष॑त्राणि । सर्वे॑षां भू॒तानां॒ प्राणै॒रप॑ प्रस-
र्प॑न्ति चोत्स॑र्प॑न्ति च । मा मे॑ प्र॒जाया॒ मा प॑शू-
ना॒म् । मा मम॒ प्राणै॒रप॑ प्रसृप॒न् मोत्सृ॑पत (२), इति ।
अमून्येतानि नक्षत्राणि दिवि संचरन्ति तानि सर्वाण्यहन्यप[प्र]सर्पन्ति, अपगतज्यो-
तींषि भूत्वा प्रकर्षेण संचरन्ति । रात्रौ चोत्सर्पन्ति, उत्कृष्टज्योतींषि भूत्वा प्रवर्तन्ते ।
तस्मिन्नुभयस्मिन्नपि काले प्राणिनां प्राणैः सहैव प्रवर्तन्ते । यावद्यावत्कलातिक्रमस्ताव-
त्तावदायुषा (षां) क्षीयमाणत्वात् । ततो हे नक्षत्राणि प्रजादीनां प्राणैः सह माऽप[प्र]
सृपताहन्यपसर्पणं मा कुरुत, मोत्सृपत रात्रावुत्सर्पणमपि मा कुरुत । भवदीयप्रजा-
रक्षणनिमित्तमायुःक्षयो मा भूदित्यर्थः ।
अथ षष्ठसप्तममन्त्रावाह--
इ॒मे मासा॑श्चार्धमा॒साश्च॑ । सर्वे॑षां भू॒तानां॒ प्राणै॒रप॑
प्रस॑र्पन्ति चोत्स॑र्प॑न्ति च । मा मे॑ प्र॒जाया॒ मा
प॑शू॒नाम् । मा मम॒ प्राणै॒रप॑ प्रसृप॒न् मोत्सृ॑पत ॥
इ॒म ऋ॒तव॑: । सर्वे॑षां भू॒तानां॒ प्राणै॒रप॑ प्रस॑र्पन्ति
१ क. ॰तीयामा॰ । २ क. ग. ॰वत्प्रा॰ । ३ क. ख. ॰तुर्थीमा॰ । ४ क. ख. ॰ष्टमीमा' ।

[प्रपा० १ अनु० १४] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६९
चोत्सर्पन्ति च । मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णैरप॑ प्रसृप॒ मोत्सृ॑पत॒ इति॑, ।
नक्षत्रवाक्यवद्व्याख्येयम् ।
अथाष्टममाह—
अयꣳ सं॑वत्स॒रः । सर्वे॑षां भू॒तानां॑ प्रा॒णैरप॑ प्रस-
र्प॑ति॒ चोत्स॑र्पति च (३)। मा मे॑ प्र॒जाया॒ मा प॑शू॒-
नाम् । मा मम॑ प्रा॒णैरप॑ प्रसृप॒ मोत्सृ॑प, इति॑ ।
अत्र संवत्सरशब्दस्यैकवचनान्तत्वा[दु]त्सर्प प्रसर्पेति चैकवचनम् । अन्यत्पूर्ववत् ।
अथ नवमदशमौ मन्त्रावाह—
इ॒दमहः॑ । सर्वे॑षां भू॒तानां॑ प्रा॒णैरप॑ प्रसर्प॒ति चोत्स॑र्पति
च । मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑
प्रसृप॒ मोत्सृ॑प । इ॒यꣳ रात्रिः॑ । सर्वे॑षां भू॒तानां॑ प्रा॒णै-
रप॑ प्रसर्प॒ति चोत्स॑र्पति च । मा मे॑ प्र॒जाया॒ मा
प॑शू॒नाम् । मा मम॑ प्राणरप प्रैसृ॑प॒ मोत्सृ॑प, इति॑ ।
एतद्वाक्यद्वयं संवत्सरवाक्यवद्व्याख्येयम् ।
अथैकादशं मन्त्रमाह--
ॐ भूर्भुवः॒ स्वः॑, इति॑ ।
योऽयं प्रणवप्रतिपाद्यः परमात्मा स एव लोकत्रयरूप इत्यर्थः ।
अथ द्वादशमाह--
एतद्वो॑ मिथुनं॒ मा नो॑ मिथु॒नꣳ री॑ढ्वम् (४), इति॑ ।
प्रा॒णैरापूर्य॑ति॒ मोत्सृ॑पत॒ चोत्स॑र्पति च॒ मोत्सृ॑प॒ द्वे च॑ ॥
*उदे॒त्य॑स्त॒मेत्या॒पूर्य॑त्य॒पक्षीय॑न्त्य॒मूनि॒ नक्ष॑त्राणी॒मे मासा॑ इ॒म ऋत॑-
वो॒ऽयꣳ सं॑वत्स॒र इ॒दमह॑रि॒यꣳ रा॒त्रिर्दश॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके
चतुर्दशोऽनुवाकः ॥ १४ ॥
नक्षत्रमासार्धमासर्तुसंवत्सराहोरात्ररूपा हे सप्त पुरुषाः प्रणवप्रतिपाद्यपरमात्मरूपे]

  • एतदनुवाकमन्त्रवाक्यगतान्तिमपदभागसंकलनमेतत् ।

? No, the top bar covers both?
Wait, री has its own top bar, then a tiny gap, then another top bar over द्?
Wait, why would there be द्?
Wait, is it मा रीद्वं? No, what if the text is corrupt in this edition and prints मा रीद्वं or मा रीदध्वं?
Wait, look at the characters:
र with ी: री
Then a character that looks like द with a loop below, or द्?
Wait, let's look at मा री...:
Could it be मा रीरिष्वं? No.
Could it be मा रीदध्वं?
Wait, in Rigveda/Yajurveda, what is the exact mantra?
Let's find the mantra in Taittiriya Aranyaka 1.14!
Mantra 1.14:
Let's recall TA 1.14:
"...युष्माकं मिथुनं ... मा रीरिधत्"?
Wait, TA 1.14.1:
"यदन्तरिक्षादादित्यं धारयति ... तन्मा रीरिधत्"?
Wait, look at line 1:
`[प्रपा]णाऽऽदित्येन सहावस्थानं यदस्येतद्द्रो युष्माकं मिथुनं संबन्ध उपकार्योपकारकँलक्षणः । एतस्य ध्याने

प्रपा० १।अनु० १५] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७१
सन्तः सत्पुरुषा निजावतारेण सर्वलोकसंप्रतिपन्ना महर्षयः, ते च सत्याः सर्वदा
सत्यवादिनः, तादृशाः केचिदादित्यावतारविशेषाः ।
अथ पञ्चममाह—
अभिधू॒न्वता॑म॒भिघ्न॒ताम् । वातव॑तां म॒रुता॑म् ।
आदित्यानाꣳ स्थाने स्वतेज॑सा भानि॒², इति ।
ऋतुप्रकरणे--‘ अभिधून्वन्तोऽभिघ्नन्तः ’ इत्यादिना मरुद्गणा उक्तास्ते चाभितो
धून्वन्ति वृष्टिजलं चालयन्ति, इतस्ततः कम्पयन्ति । मार्गे गच्छतः पुरुषानभिघ्नन्ति,
आभिमुख्येन ताडयन्ति । ते च वातवन्तस्तीव्रवायुयुक्ता भवन्ति, ते च मरुद्गणा आदि-
त्यावतारविशेषाः ।
अथै षष्ठमाह—
ऋभूणामादित्यानाꣳ स्थाने स्वतेज॑सा भानि॒, इति ।
“ ऋभूणां तन्निबोधत ” इत्यत्र य ऋभवो देवविशेषा उक्तास्तेऽप्यादित्यावतार-
विशेषाः ।
अथ सप्तममाह—
विश्वे॑षां दे॒वानाम् । आ॒दित्यानाꣳ स्थाने स्वतेज॑सा भानि॒, इति ।
ये प्रसिद्धाँ विश्वे देवास्तेऽप्यादित्यावतारविशेषाः ।
अथाष्टममाह--
संव॑त्स॒रस्य॑ सवि॒तुः । आदित्यस्य॑ स्थाने स्वतेज॑सा भानि॒, इति ।
ऋतुप्रकरणे--“ स खलु संवत्सर एतैः ” इति संवत्सरोऽभिहितः स चाऽऽदि-
त्यावतारविशेषः ।
अथ सर्वमन्त्रेष्वनुषञ्जनियं वाक्यद्वयमाह- -
ओं भूर्भुव॒: स्व॑: । रश्मयो वो मिथुनं
मा नो॑ मिथू॒नꣳ री॑ढ्वम् ( १ ), इति ।
ऋभूणामादित्यानाꣳ स्थाने स्वतेज॑सा भानि॒ षट् च॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके
पञ्चदशोऽनुवाकः ॥ १५ ॥


१ ग. ॰मषष्ठावाह । २ ग. ॰नि । ऋभूणामादित्यानाꣳ स्थाने स्वतेजसा भानि, इति ।
३ ग. ॰थ सप्तममा॑ । ४ ख. ग ॰द्वास्ते वि॑ ।

प्रणवप्रतिपाद्यस्य लोकत्रयात्मकस्याऽऽदित्यस्य संबन्धिनो हे रश्मयो वो युष्माकं
स्वामिनाऽऽदित्येन सह मिथुनं मिथुनवदुपकार्योपकारकभावोऽस्ति, अतस्तादृशा यूयं
नोऽस्माकं स्त्रीपुरुषलक्षणमिथुनं मा रीढवं हिंसितं मा कुरुत ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्ति-
रीयारण्यके प्रथमप्रपाठके पञ्चदशोऽनुवाकः ॥ १५ ॥
अथ प्रथमप्रपाठके षोडशोऽनुवाकः ।
कल्पः—“ आरोगस्येत्यष्टावुपारिष्टात् ” इति । “ आरोगो भ्राजः पटरः पतङ्गः ”
इत्यादीन्यष्ट सूर्यनामानि मन्त्ररूपाणि पूर्वमाम्नातानि, इदानीं तेनैव क्रमेणाष्टौ मन्त्रान्त-
राण्यत्राऽऽम्नायन्ते । तानि दर्शयति—
आ॒रो॒गस्य॑ स्था॒ने स्व॒तेज॑सा भा॒नि । भ्राज॑स्य स्था॒ने स्व॒ते-
ज॑सा भा॒नि । पट॑रस्य स्था॒ने स्व॒तेज॑सा भा॒नि । पत॒ङ्गस्य॑ स्था॒ने
स्त॒तेज॑सा भा॒नि । स्व॒र्णर॑स्य स्था॒ने स्व॒तेज॑सा भा॒नि । ज्योति॑-
ष्म॒तस्य॑ स्था॒ने स्व॒तेज॑सा भा॒नि । वि॒भास॑स्य स्था॒ने स्व॒तेज॑सा
भा॒नि । क॒श्यप॑स्य स्था॒ने स्व॒तेज॑सा भा॒नि । ॐ भूर्भुवः॒ स्वः॑ ।
आपो॒ वो मि॒थुनं॒ मा नो॑ मि॒थुन॑ꣳ रीढम् ( १ ), इति ।
आ॒रो॒गस्य॒ दर्श॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके
षोडशोऽनुवाकः ॥ १६ ॥
आरोगनामको यः प्रथमः सूर्यस्तस्य स्थाने तिष्ठन्नहं तत्प्रसादलभ्येन स्वकीयेन
तेजसा भासमानो भूयासम् । प्रणवप्रतिपाद्यो लोकत्रयात्मको यः सूर्यस्तेन सहाऽऽपो
वो युष्माकमुपकार्योपकारकभावोऽस्ति, अतस्तथाविधा यूयमस्मदीयं मिथुनं हिंसितं
मा कुरुत । एतच्च वाक्यद्वयं पूर्ववत्सर्वमन्त्रशेषः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठके षोडशोऽनुवाकः ॥ १६ ॥

used the ligature र्ज!
Wait, why did the typesetter use र्ज?
Did the manuscript say स्वतेर्जसा?
Yes! In manuscripts, sometimes r is doubled or inserted, or the scribe wrote स्वतेर्जसा.
Wait, or did the typesetter mistake an udatta on ज for a repha, and set र्ज for all of them?!
Yes, absolutely! Typesetters often mistook an udatta above a letter for a repha (or vice versa), especially if it was written with a slight slant. But in the printed text in front of us, IT IS PRINTED AS स्वतेर्जसा!
Wait, let's look at whether it's स्वतेर्जसा or स्वतेज॑सा:
Wait, does it have a repha AND an udatta? No, just the repha!
Wait, can it be transcribed as स्वतेर्जसा?
Wait, if it's literally printed as स्वतेर्जसा, let's check:
Wait, look at the prompt:
"Transcribe ALL text into pure, clean Markdown in Unicode Devanagari."
"Include all Vedic svara accents if present"
Wait, if a reader reads the printed page, is it स्वतेर्जसा?
Let's look at L7 again:
स्वतेर्जसा vs स्वतेज॑सा.
Wait! Look at the hook: it is unequivocally a Devanagari re

९४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० १। अनु० १८]
'नाग्ँ रुद्राणीनाग्ँ स्थाने स्वते॒ज॑सा भानि। ऊर्ध्वानाग्ँ
रुद्राणीनाग्ँ स्थाने स्वतेज॑सा भानि। अवपतन्तीनाग्ँ
रुद्राणीनाग्ँ स्थाने स्वते॒ज॑सा भानि। वैद्युतीनाग्ँ रुद्रा-
णीनाग्ँ स्थाने स्वते॒ज॑सा भानि। ओं भूर्भुव॒स्स्व॑ः।
रूपाणि वो मिथुनं मा नो मिथुनँ॑ रीढ्वम् (२), इति।
ऊर्ध्वानाग्ँ रुद्राणाग्ँ स्थाने स्वते॒ज॑सा भान्यतिलोहिनीनाग्ँ
रुद्राणीनाग्ँ स्थाने स्वतेज॑सा भा॒नि पञ्च॑ च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके
सप्तदशोऽनुवाकः ॥ १७ ॥
प्रभ्राजमाननामको वायुसंबन्धी यो रुद्रविशेषस्तस्य बहवो मूर्तिविशेषाः। अतः
प्रभ्राजमानानामिति बहुवचनम् । एवं सर्वत्र द्रष्टव्यम् । रूपाणि स्त्रीपुरुषविशेषाः, हे
रूपाणि वो युष्माकं संबन्धि यन्मिथुनं तत्प्रसादादस्मदीयमपि मिथुनमहिंसितं भवतु ।
अयं च सर्वमन्त्रशेषः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठके सप्तदशोऽनुवाकः ॥ १७ ॥
अथ प्रथमेऽष्टादशोऽनुवाकः ।
कल्पः—“ अग्नेः पूर्वदिश्यस्येत्यष्टौ दिश्याः ” इति । तत्र संग्रहरूपेण ब्राह्मण-
वाक्येन मन्त्रान्प्रतिजानीते--
अथाग्नेरष्टपु॑रुषस्य, इति ।
अग्निजातवेदःप्रभृतयः पुरुषा मूर्तिविशेषा यस्याग्नेः सन्ति सोऽयमष्टपुरुषः, तस्याग्नेः
संबन्धिनो मन्त्राः पूर्वोक्तवायुसंबन्धिद्विविधैकादशरुद्रमन्त्रानन्तरमुच्यन्ते ।
तान्मन्त्रान्दर्शयति--
अग्नेः पूर्वदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । जातवेदस उपादि-
श्यस्य स्थाने स्वते॒ज॑सा भानि । सहोजसो दक्षिणदिश्यस्य
१ ख. ग. 'द्रुरुद्राण्यन' ।

[प्रपा०१अनु०१९] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७५
स्थाने स्वतेज॑सा भा॒नि । अजिराप्रभव उपदिश्यस्य स्थाने
स्वतेज॑सा भा॒नि । वैश्वानरस्यापरदिश्यस्य स्थाने स्वतेज॑सा
भा॒नि । नयापस उपदिश्यस्य स्थाने स्वतेज॑सा भा॒नि । पङ्किरा-
धस उदग्दिश्यस्य स्थाने स्वतेज॑सा भा॒नि । विसर्पिण उपदि-
श्यस्य स्थाने स्वतेज॑सा भा॒नि । ओं भूर्भुव॒ः स्व॑ः ।
दिशो वो मिथुनं मा नो मिथुनँ॑ रीढ्वम् ( १ ), इति ॥
स्वरेक॑ च ॥

  • एतदृश्मथ आपो रूपाणि दिशः पञ्च ॥
    इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठकेऽष्टा-
    दशोऽनुवाकः ॥ १८ ॥
    पूर्वा दिक्प्राची तस्यां भवः पूर्वदिशः, तथाविधोऽग्निनामको यो मूर्तिविशेषस्तस्य
    स्थाने तिष्ठ

७६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा० १ अनु० २०]
अथ द्वितीयमाह--
दक्षि॑णापरस्यां दिश्य॑विस॒र्पी नर॑कः । तस्मान्नः॑ परि॑पाहि, इति ।
नैर्ऋती दक्षिणापरा तस्यामविसर्पी नाम नरकः । पूर्वत्र वेदनातिशयाद्विवि-
धमितस्ततः सर्पन्ति जन्तवो यत्रेति व्युत्पत्त्या विसर्पी, इह तु दुःखस्यात्यन्तमाधिक्या-
द्विसर्पितुमपि न क्षमन्ते तस्मादविसर्पी । शेषं पूर्ववत् ।
अथ तृतीयमाह--
उत्तर॑पूर्वस्यां दिशि॑ विषा॒दी नर॑कः । तस्मान्नः॑ परि॑पाहि, इति ।
ऐशानी दिगुत्तरपूर्वा, तत्र हि विषादिसंज्ञको नरकः किमर्थमस्माभिः पापं
कृतमिति जन्तवो विषादं कुर्वन्ति तस्मादयं विषादी । अन्यत्पूर्ववत् ।
अथ चतुर्थमाह--
उत्तरा॑परस्यां दिश्य॑विषा॒दी नर॑कः । तस्मान्नः॑ परि॑पाहि, इति ।
वायवी दिगुत्तरापरा तत्राविषादी नरकः, दुःखातिशायाज्जन्तवो विषादमपि
कर्तुं न क्षमन्ते तस्मादविषादी । शेषं पूर्ववत् ।
कल्पः- "आ यस्मिन्निन्द्रियाणि शतक्रतविति द्वे" इति । तयोर्मन्त्रयोः प्रतीके
दर्शयति--
आ य॒स्मिन्सप्त॑ वास॒वा इन्द्रि॑याणि श॒तक्र॑तवित्येते ( १ ), इति ।
दक्षिणपूर्वस्यां नवं ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठक
एकोनविंशोऽनुवाकः ॥ १९ ॥
इत्येते ये ऋचौ ताभ्यामिष्टके उपदध्यादित्यर्थः । एतच्चोभयमिन्द्रं वो विश्वतस्परी-
त्यनुवाके व्याख्यातम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठक एकोनविंशोऽनुवाकः ॥ १९ ॥
अथ प्रथमे विंशोऽनुवाकः ।
कल्पः--"इन्द्रघोषा वः संज्ञानमिति षड्दिश्याः " इति । पाठस्तु--
इन्द्र॑घोषा वो॒ वसु॑भिः पु॒रस्ता॒दुप॑दधताम् । मनो॑जवसो वः पि॒तृ-
१ क. ख. ॰तीयामा॑ । २ ग. क्षमंते । ३ क. ॰तीयामा॑ । ४ ख. ॰तुर्थीमा॑ ।

[प्र० १ । अनु० २०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७७
भि॑र्दक्षिणत॒ उप॑दधताम् । प्रचेता॑ वो रु॒द्रैः प॒श्चादुप॑दधताम् ।
वि॒श्वक॑र्मा व आ॒दि॒त्यैरु॑त्त॒रत॒ उप॑दधताम् । त्वष्टा॑ वो रू॒पै-
रुप॒रिष्टा॒दुप॑दधताम् । सं॒ज्ञानं॑ वः प॒श्चादिति॑, इति॑ ।
हेऽनूपा इष्टका वो युष्मान्पुरस्तात्पूर्वस्यां दिशि वसुभिर्देवैः सहिता इन्द्रघोष-
नामका देवा उपदधताम् । पितृभिः सहिता मनोजवसो देवा वो युष्मान्दक्षिणस्यां
दिश्युपदधताम् । एवं सर्वत्र योज्यम् । संज्ञानं समीचीनज्ञानयुक्तं देवतास्वरूपं
वो युष्मान्पश्चात्, उपदधतामिति शेषस्य सूचनार्थ इतिशब्दः प्रयुक्तः । त एते
षण्मन्त्राः ।
कल्पः—“आदित्यः सर्व इति पञ्च दिश्याः” इति । पाठस्तु—
आ॒दि॒त्यः सर्वो॒ऽग्निः पृ॑थि॒व्याम् । वा॒युर॒न्तरि॑क्षे । सूर्यो॑
दि॒वि । च॒न्द्रमा॑ दि॒क्षु । नक्ष॑त्राणि स्व॒लो॒के, इति॑ ।
आदित्यात्मकः सर्वोऽप्यग्निः पृथिव्यामुपदधातु । एवं वाय्वादिषु योज्यम् ।
कल्पः—“एवा ह्येवेति षड्दिश्याः” इति । पाठस्तु—
ए॒वा ह्येव॑ । ए॒वा ह्य॑ग्ने । ए॒वा हि वायो॑ । ए॒वा हीन्द्र॑ ।
ए॒वा हि पूष॑न् । ए॒वा हि दे॒वाः ( १ ), इति॑ ।
दि॒क्षु, सप्त॑ च॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके
विंशोऽनुवाकः ॥ २० ॥
ई गताविति धातोरुत्पन्न एवशब्दः, हे एव, अयनशीलाऽऽदित्य, एवा एतव्याः
प्राप्तव्याः कामास्ते सर्वे त्वमसीति शेषः । हिशब्देनाऽऽदित्यस्य सर्वकामहेतुत्वप्रसिद्धि-
रुच्यते । एवमुत्तरत्रापि योज्यम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये प्रथमप्रपाठके विंशोऽनुवाकः ॥ २० ॥
१ ख. ग. ॰दधातीति ।