तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 72, कुल 914 में से
संदर्भ में पढ़ें१अनु० १४] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६७
अ॒मूं दिव॑म्¹ स॒प्तभि॑रे॒ते च॒त्वारि॑ च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके
त्रयोदशोऽनुवाकः ॥ १३ ॥
प्रजापतेरयं प्राजापत्यः, तादृशो गर्भः पूर्वमुक्तः, हिरण्यगर्भ इति मन्त्रे प्राजाप-
त्यगर्भाभिधानात् । अथानन्तरमुत्तरेणानुवाकेन पुरुष आदित्यरूपः प्रतिपाद्यते । स
च कीदृशः, सप्तपुरुषः सप्त पुरुषाः किंकरस्थानीया नक्षत्रमासार्धमासर्तुसंवत्सराहोरा-
त्रारूपपुरुषा यस्यासौ सप्तपुरुषः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयारण्यकभाष्ये त्रयोदशोऽनुवाकः ॥ १३ ॥
अथ प्रथमप्रपाठके चतुर्दशोऽनुवाकः ।
योऽसावित्यनुवाकस्योपधाने विनियोगादर्शनाल्लिङ्गानुसारेणाऽ