सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 77, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 77

प्रणवप्रतिपाद्यस्य लोकत्रयात्मकस्याऽऽदित्यस्य संबन्धिनो हे रश्मयो वो युष्माकं
स्वामिनाऽऽदित्येन सह मिथुनं मिथुनवदुपकार्योपकारकभावोऽस्ति, अतस्तादृशा यूयं
नोऽस्माकं स्त्रीपुरुषलक्षणमिथुनं मा रीढवं हिंसितं मा कुरुत ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्ति-
रीयारण्यके प्रथमप्रपाठके पञ्चदशोऽनुवाकः ॥ १५ ॥
अथ प्रथमप्रपाठके षोडशोऽनुवाकः ।
कल्पः—“ आरोगस्येत्यष्टावुपारिष्टात् ” इति । “ आरोगो भ्राजः पटरः पतङ्गः ”
इत्यादीन्यष्ट सूर्यनामानि मन्त्ररूपाणि पूर्वमाम्नातानि, इदानीं तेनैव क्रमेणाष्टौ मन्त्रान्त-
राण्यत्राऽऽम्नायन्ते । तानि दर्शयति—
आ॒रो॒गस्य॑ स्था॒ने स्व॒तेज॑सा भा॒नि । भ्राज॑स्य स्था॒ने स्व॒ते-
ज॑सा भा॒नि । पट॑रस्य स्था॒ने स्व॒तेज॑सा भा॒नि । पत॒ङ्गस्य॑ स्था॒ने
स्त॒तेज॑सा भा॒नि । स्व॒र्णर॑स्य स्था॒ने स्व॒तेज॑सा भा॒नि । ज्योति॑-
ष्म॒तस्य॑ स्था॒ने स्व॒तेज॑सा भा॒नि । वि॒भास॑स्य स्था॒ने स्व॒तेज॑सा
भा॒नि । क॒श्यप॑स्य स्था॒ने स्व॒तेज॑सा भा॒नि । ॐ भूर्भुवः॒ स्वः॑ ।
आपो॒ वो मि॒थुनं॒ मा नो॑ मि॒थुन॑ꣳ रीढम् ( १ ), इति ।
आ॒रो॒गस्य॒ दर्श॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके
षोडशोऽनुवाकः ॥ १६ ॥
आरोगनामको यः प्रथमः सूर्यस्तस्य स्थाने तिष्ठन्नहं तत्प्रसादलभ्येन स्वकीयेन
तेजसा भासमानो भूयासम् । प्रणवप्रतिपाद्यो लोकत्रयात्मको यः सूर्यस्तेन सहाऽऽपो
वो युष्माकमुपकार्योपकारकभावोऽस्ति, अतस्तथाविधा यूयमस्मदीयं मिथुनं हिंसितं
मा कुरुत । एतच्च वाक्यद्वयं पूर्ववत्सर्वमन्त्रशेषः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयारण्यकभाष्ये प्रथमप्रपाठके षोडशोऽनुवाकः ॥ १६ ॥