सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 74, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 74

[प्रपा० १ अनु० १४] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ६९
चोत्सर्पन्ति च । मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् ।
मा मम॑ प्रा॒णैरप॑ प्रसृप॒ मोत्सृ॑पत॒ इति॑, ।
नक्षत्रवाक्यवद्व्याख्येयम् ।
अथाष्टममाह—
अयꣳ सं॑वत्स॒रः । सर्वे॑षां भू॒तानां॑ प्रा॒णैरप॑ प्रस-
र्प॑ति॒ चोत्स॑र्पति च (३)। मा मे॑ प्र॒जाया॒ मा प॑शू॒-
नाम् । मा मम॑ प्रा॒णैरप॑ प्रसृप॒ मोत्सृ॑प, इति॑ ।
अत्र संवत्सरशब्दस्यैकवचनान्तत्वा[दु]त्सर्प प्रसर्पेति चैकवचनम् । अन्यत्पूर्ववत् ।
अथ नवमदशमौ मन्त्रावाह—
इ॒दमहः॑ । सर्वे॑षां भू॒तानां॑ प्रा॒णैरप॑ प्रसर्प॒ति चोत्स॑र्पति
च । मा मे॑ प्र॒जाया॒ मा प॑शू॒नाम् । मा मम॑ प्रा॒णैरप॑
प्रसृप॒ मोत्सृ॑प । इ॒यꣳ रात्रिः॑ । सर्वे॑षां भू॒तानां॑ प्रा॒णै-
रप॑ प्रसर्प॒ति चोत्स॑र्पति च । मा मे॑ प्र॒जाया॒ मा
प॑शू॒नाम् । मा मम॑ प्राणरप प्रैसृ॑प॒ मोत्सृ॑प, इति॑ ।
एतद्वाक्यद्वयं संवत्सरवाक्यवद्व्याख्येयम् ।
अथैकादशं मन्त्रमाह--
ॐ भूर्भुवः॒ स्वः॑, इति॑ ।
योऽयं प्रणवप्रतिपाद्यः परमात्मा स एव लोकत्रयरूप इत्यर्थः ।
अथ द्वादशमाह--
एतद्वो॑ मिथुनं॒ मा नो॑ मिथु॒नꣳ री॑ढ्वम् (४), इति॑ ।
प्रा॒णैरापूर्य॑ति॒ मोत्सृ॑पत॒ चोत्स॑र्पति च॒ मोत्सृ॑प॒ द्वे च॑ ॥
*उदे॒त्य॑स्त॒मेत्या॒पूर्य॑त्य॒पक्षीय॑न्त्य॒मूनि॒ नक्ष॑त्राणी॒मे मासा॑ इ॒म ऋत॑-
वो॒ऽयꣳ सं॑वत्स॒र इ॒दमह॑रि॒यꣳ रा॒त्रिर्दश॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके
चतुर्दशोऽनुवाकः ॥ १४ ॥
नक्षत्रमासार्धमासर्तुसंवत्सराहोरात्ररूपा हे सप्त पुरुषाः प्रणवप्रतिपाद्यपरमात्मरूपे]

  • एतदनुवाकमन्त्रवाक्यगतान्तिमपदभागसंकलनमेतत् ।