सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

[प्रपा० ३ अनु० १०] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ८७९

न्दिभ्यां हस्ताभ्यां त्वां प्रतिगृह्णामि । हे दक्षिणे देवि वरुणो राजा हिरण्यरूपाम्
त्वामग्नये प्रापयतु । तेनाग्निप्रापणेन प्रतिग्रहदोषाभावादहममृतत्वं नरकाभावरूपं प्राप्नु-
याम् । इयं च दक्षिणा दात्रे वयोऽस्तु प॑क्षिरूपिणी भूत्वा दातारं स्वर्गं नयत्वित्यर्थः ।
प्रतिग्रहीत्रे मह्यं मयः सुखमस्तु । इदं द्रव्यं कः प्रजापतिः कस्मै प्रजापतयेऽदाद्द-
त्तवान्, अन्तर्यामिरूपेण दातृप्रतिग्रहीत्रोः प्रेरकत्वात् । तथा कामः कामाय दत्त-
वान् । यथा प्रजापतिरदृष्टप्रेरकस्तथा कामस्य दृष्टप्रेरकत्वात् । तस्मात्काम एव दाता
प्रतिग्रहीता च । स्वर्गादिफलविषयः कामो दाता, ऐहिकसुखविषयः कामः प्रति-
ग्रहीता । ततो हे दक्षिणे समुद्रसमं कामं प्रविश । कामेन निमित्तेन त्वां प्रतिगृ-
ह्णामि । हे रुद्रहृदयवर्तिकाम तदेतद्द्रव्यं तुभ्यं भवति । हे काम ते त्वत्प्रीतय एवैषा
दक्षिणा प्रवृत्ता । अङ्गिरोगोत्रे समुत्पन्न उत्तानाख्यो महर्षिरत्वां प्रतिगृह्णातु ।
अथ वस्त्रादिद्रव्यविषयान्षोडश मन्त्रानाह—
सोमा॑य॒ वास॑ः । रु॒द्राय॒ गाम् । वरु॑णायाश्व॑म् । प्र॒जाप॑-
तये॒ पुरु॑षम् ( २ ) । मन॑वे॒ तल्प॑म् । त्वष्ट्रे॒ऽजाम् । पू॒ष्णेऽ-
वि॑म् । निऋ॑त्या॒ अश्व॑तरगर्द॒भौ । हि॒मव॑तो ह॒स्तिन॑म् ।
ग॒न्ध॒र्वाप्स॒राभ्य॑ः स्रगलंक॒रणे । विश्वे॑भ्यो दे॒वेभ्यो॒ धान्य॑म् ।
वा॒चेऽन्न॑म् । ब्रह्म॑ण ओ॒दन॑म् । स॒मु॒द्रायाप॑ः ( ३ ) ।
उ॒त्ता॒नाया॑ऽऽङ्गीर॒सायो॑नः । वैश्वान॒राय॒ रथ॑म्, इति ।
एतेषु सर्वेषु मन्त्रेषु देवि दक्षिण इत्यन्तः पूर्वानुषङ्गः । तेनामृतत्वादिकमित्युत्तरा-
नुषङ्गः ।
तस्य रथप्रतिग्रहमन्त्रस्य शेषभूतामुत्तरानुषङ्गात्पूर्वभाविनीं कांचिदृचमाह—
वै॒श्वा॒न॒रः प्र॒त्नथा॒ नाक॑मारुहत् । दि॒वः पृ॒ष्ठं भन्द॑-
मानः सु॒मन्म॑भिः । स पूर्व॑वज्जनय॑ञ्ज॒न्तवे॒
धन॑म् । स॒मा॒नम॑ज्म॒ा पर्ये॑ति जा॒गवि॑ः, इति ।
वैश्वानराख्यो देवः प्रत्नथा पुरातनशरीरधारी सन्स्वर्गमारूढवान् । स च दिवः
पृष्ठं द्युलोकस्योपरिभागे मन्मभिर्मननविशेषैर्भन्दमानः कल्याणं कुर्वन्वर्त्तते । अयं
यजमान इमां दक्षिणां दत्तवानित्येवं वदन्देवानामग्रे स्मारयतीत्यर्थः । स वैश्वानरो

१ क. पक्षी भू° । २ ग. स्वर्गं । ३ ख. ग. °व्यं प्र° । ४ ख. ग. °तिः प्र° । , ग. ये दत्त° । ६ क. ख. त्वदर्थमेवै° । ७ क. ग. °भागं म° ।

१८० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा०३अनु०११]
जन्तवे प्राणिरूपाय यजमानाय धनं पूर्ववज्जनयन्, यजमानः पूर्वं यथा दक्षिणां
दत्तवांस्तथैव तदनुरूपं फलं जनयति । स वैश्वानरो जागृविः सावधानः सन्नज्मा
स्वर्गगमनशीलः समानं परियाति, यावद्दक्षिणार्थं द्रव्यं तेन सदृशं तद्योग्यं फलं
परिप्रापयति ।
अस्या ऋच उपरितनं रथप्रतिग्रहमन्त्रशेषमाह—
राजा॑ त्वा वरु॑णो नयतु देवि॒ दक्षि॑णे॒ वैश्वा॑न॒राय॒ रथ॑म् ।
तेना॑मृ॒तत्वम॑श्याम् । वयो॒ दात्रे॑ । मयो॒ मह्य॑मस्तु प्रतिग्र॑-
ही॒त्रे॑ १ ( ४ ) । क इ॒दं कस्मा॑ अदात् । कामः॑ कामा॑य ।
कामो॑ दा॒ता । कामः॑ प्रतिग्रही॒ता । काम॒ꣳ समु॒द्रमावि॑श ।
कामे॑न त्वा प्रति॑गृह्णामि । कामै॒तत्ते॑ । ए॒षा ते॑ काम॒ दक्षि॑णा ।
उ॒त्तान॒स्त्वाऽऽङ्गी॑र॒सः प्रति॑गृह्णातु ( ५^३), इति ॥
दा॒ता पुरु॑षम॒ार्षः प्रति॑ग्रही॒त्रे नव॑ च ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठके
दशमोऽनुवाकः ॥ १० ॥
अत्र तेनामृतत्वमश्यामियादिरुत्तरानुषङ्गः सर्वमन्त्रसाधारण^४ इति दर्शयितुं^५ प्रथममन्त्रे
पठितोऽपि पुनराम्नातो राजा त्वेत्यादिर्वैश्वराय रथमित्यन्तः पूर्वोक्त्या ऋच उपरि
रथमन्त्रे पुनः पठनीयः, इत्येतावान्विशेषः । एतैर्मन्त्रैः प्रतिग्रहेष्टका उपदध्यात् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये तृतीयप्रपाठके दशमोऽनुवाकः ॥ १० ॥
——————————————————————————————
अथ तृतीय एकादशोऽनुवाकः ।
अथ होतृहृदयाख्या मन्त्रा अभिधीयन्ते । तेषां^७, त्विष्टकोपधाने विनियोगश्चातुर्हो-
त्रीब्राह्मण एवमाम्नायते—'हृदयं यजूंꣳषि पत्न्यश्च' इति । तत्र दशहोतृहृदयाख्यं
मन्त्रमाह—
सु॒व॒र्णं घ॒र्मं परि॑वेद वे॒नम् । इन्द्र॑स्याऽऽत्मानं॑ दश॒धा चर॑न्तम् ।
१ ध 'ग्रहित्रे ( ४ ) । २ ग. °त्रे । क० । ३ ग ( ४ ) । ४ ख 'र्वमन्त्रे सा' । ग. °र्वत्र
सा° । ५ ख. ग. दर्शयति । ६ ख. ग. 'क्ता या ऋ' । ७ क. ख. तेषाणिष्ट° । ८ ख. °व स्मा° ।
९ क. ख. °म्नातः । ह° ।

[प्रपा० ३ अनु० ११] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १८४
अ॒न्तः स॑मु॒द्रे म॑न॑सा॒ चर॑न्तम् । ब्रह्मा॒ऽन्व॑विन्द॒द्दश॑होतारम॒र्णे ।
अ॒न्तः प्रवि॑ष्टः शा॒स्ता जना॑नाम् । एक॑ः स॒न्बहु॑धा विचा॑रः ।
श॒तꣳ शु॒क्राणि॒ यत्रैकं॑ भव॑न्ति । सर्वे॑ वे॒दा यत्रैकं॑ भव॑न्ति ।
सर्वे॑ होता॑रो॒ यत्रैकं॑ भव॑न्ति । स मान॑सीन॒ आत्मा॒ जना॑-
नाम् ( १ ) । अ॒न्तः प्रवि॑ष्टः शा॒स्ता जना॑नाꣳ सर्वा॑त्मा ।
सर्वा॑: प्र॒जा यत्रैकं॑ भव॑न्ति । च॒तुर्होता॑रो॒ यत्र॑ सं॒पदं॑
गच्छ॑न्ति दे॒वैः । स मान॑सीन॒ आत्मा॒ जना॑नाम्, इति ।
चित्तिः स्रुगित्यादीनां होतृमन्त्राणां हृदयं रहस्यं तत्त्वं परमात्मस्वरूपं प्रतिपाद-
[य]तीत्ययमनुवाको हृदयमित्युच्यते । तत्रानेन मन्त्रेण दशहोतृहृदयं परमात्मतत्त्वमु-
च्यते । अहं मन्त्रद्रष्टा, इन्द्रस्य परमेश्वरस्याऽऽत्मानं निजस्वरूपं परिवेद परितः
सर्वत्रावस्थितं जानामि । कीदृशमात्मानम् । सुवर्णं सुवर्णसदृशं यथा सुवर्णं स्वत एव
प्रकाशमानं भवति तथा स्वयंप्रकाशम् । घर्ममन्यस्य वस्तुनो दीपकम्, ‘तस्य भासा
[स]र्वमिदं विभाति' इति श्रुतेः । वेनं कान्तं सर्वदुःखराहित्येन तस्य कमनीयत्वम् ।
दशधा चित्तिः स्रुगित्यादिदशहोतृमन्त्रे प्रतिपादितैराकारैः । चरन्तं लोके व्यवहरन्तम् ।
[अ]न्तः समुद्रे ब्रह्माण्डसृष्टेः पुरा सर्वत्र व्याप्यावस्थितो योऽयं जलसंघः सोऽयं समु-
[द्र]स्तस्य मध्ये मनसा चरन्तम्, इदं सर्वं जगत्सृजेये

स चान्तर्यामी स्वकीयेनेश्वररूपेणैक एव सन्पुनर्जीवरूपेण बहुधा भूत्वा विचारो
विविधचरणवान्भवति । अत एवान्यत्रोपनिषदि श्रूयते—
“ एक एव हि भूतात्मा भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ ” इतिं ।
शतं शुक्राणि शतसंख्ययोपलक्षितान्यनन्तानि सूर्यचन्द्रनक्षैत्ररूपाणि ज्योतींषि यत्र
यस्मिन्परमात्मन्येकं भवन्ति, एकत्वं प्राप्नुवन्ति । तथा सर्वे वेदा ऋग्वेदप्रभृतयश्चत्वारो
वेदा नानाविधशाखोपेतौ विलीय यस्मिन्नेकी भवन्ति॑ । होतारश्च होमकर्तारः सर्वै यज-
माना दशहोत्रादिमन्त्रा वा यस्मिन्परमात्मन्येकत्वं प्राप्नुवन्ति । यथा बुद्बुदा जलमध्ये
समुत्पद्य कंचित्कालमवस्थाय विलीयमाना जल एवैक्यं प्राप्नुवन्ति । तथा सर्वे भावाः
परब्रह्मण एवोत्पद्य तत्रैव स्थित्वा विलीयमाना एकतां गच्छन्ति । अत एवोपनिषदि
[L

प्रपा० ३ अनु० ११] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १८३
तः प्रत्यश्रौषीः । त्वयैनानाख्यातार इति । तस्मान्नु हैनाꣳश्चतुर्होतार इत्याचक्षते ”
ति ।
तदेवं दशहोतृहृदयाख्यो मन्त्रोऽभिहितः । अथ चतुर्होतृहृदयाख्यो मन्त्रोऽभिधी-
यते । तत्र तिस्र ऋचस्तासु प्रथमामाह—
ब्रह्मेन्द्र॑म॒ग्निं जग॑तः प्रति॒ष्ठाम् । दि॒व आ॒त्मान॑ꣳ१
स॒वि॒तारं॒ बृह॒स्पति॑म् । चतु॑र्होतारं॒ प्रदि॒शो ऽनु॑कॢप्तम् ।
वा॒चो वी॒र्यं॑ तप॒साऽन्व॑विन्दत् , इति ।
ब्रह्मा चतुर्मुख इन्द्रं परमैश्वर्ययुक्तं परमात्मानं तपसाऽन्वविन्दत्, अन्विष्य लब्ध-
ान् । दर्शपूर्णमाससृष्टिसाधनं किमिति विचार्य चतुर्होतृमन्तरूपेणावस्थितं परमात्मानं
निश्चितवानित्यर्थः । तथा च ब्राह्मण आम्नायते — “ प्रजापतिरकामयत दर्शपूर्ण-
मासौ सृजेयेति । स एतं चतुर्होतारमपश्यत् ” इति । कीदृशमिन्द्रम् । जगतः
प्रतिष्ठां, अग्निं सर्वस्य जगत आधाररूपो योऽयं चातुर्होत्रीयचितिरूपोऽग्निस्त-
त्स्वरूपम्, दिव आत्मानं सवितारं द्युलोकस्य प्रकाशकत्वेनाऽऽत्मैवदवस्थितो२ यः
सविता तद्रूपम्, तथा बृहस्पतिं योऽयं देवगुरुस्तद्रूपेणावास्थितम्, प्रदिशः सर्वान्प्रदे-
ाननुकॢप्तं सर्वेषु प्रदेशेष्ववस्थितम्, चतुर्होतारं पृथिवी होतेत्यादिमन्त्रस्वरूपम्,
वाचो वीर्यं सर्वस्वं देवरूपाया वाचः सारभूतम् ॥
अथ द्वितीयामृचमाह—
अ॒न्तः प्रवि॑ष्टं क॒र्तार॑मे॒तम्३ । त्वष्टा॑रꣳ रू॒पाणि॑ वि॒कुर्व॑न्तं
विप॒श्चिम् ( २ ) । अ॒मृत॑स्य प्रा॒णं य॒ज्ञमे॒तम् । चतु॑-
र्होतृ॑णामा॒त्मानं॑ कव॒यो निचि॑क्यः , इति ।
कवयो विद्वांसो वेदशास्त्रपारंगताश्चतुर्होतॄणां चतुर्होतृशब्देनाभिधीयमानानां
वैषां होतृमन्त्राणामात्मानं स्वरूपभूतं परमेश्वरं निचिक्युः, निश्चितवन्तः । कीदृश-
त्मानम्—अन्तः प्रविष्टं जीवरूपेण शरीरेषु प्रविश्यावस्थितम् । अत एवाऽऽम्नायते४—
अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य ” इति । कर्तारमेतमित्यनेन मानसप्रत्यक्षेण प्रती-
ायनं लौकिकवैदिकसर्वक्रियानिष्पादकम् । एतच्चौन्यत्राऽऽम्नातम्—“एष हि द्रष्टा५
ष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः ” इति । रूपाणि
कुर्वन्तं६ त्वष्टारं गर्भेषु देवतिर्यङ्मनुष्यादिरूपाणि७ विविधं निष्पादयन्तं त्वष्टृदेवस्वरूप-
१ क. ख. 'णमात्ना' । २ क. 'त्मप्रायो योऽग्नमवस्थि' । ३ ग. 'तमहामि' । ४ क. ऽऽम्नायने । ए° । ५ ग. 'ष्टा श्रोता पुष्टा घ्रा' । ६ ग. 'न्तं विश्वश्चितं त्व' । ७ ग. 'दिरूपं त' ।

१८४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा० ३ अनु० ११]
पम् । एतदप्याम्नातम्- "यावच्छो वै रेतसः सिक्तस्य त्वष्टा रूपाणि विकरोति
तावच्छो वै तत्प्रजायते" इति । विपश्चिं विपश्चितं तत्तद्रूपनिर्माणप्रकाराभिज्ञम्, अमृ-
तस्य प्राणं मरणरहितस्य परमात्मनो व्यवहारहेतुभूतप्राणोपाधिस्वरूपम् । एतदप्याथ-
र्वणिका आमनन्ति- "कस्मिन्नवहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते
प्रतिष्ठास्यामीति स प्राणमसृजत" इति । येनं सर्वैरनुष्ठीयमानत्वेन दृश्यमानमेतं दर्श-
पूर्णमासयज्ञस्वरूपं चतुर्होतृमन्त्रस्य तद्यज्ञसृष्टिसाधनत्वात्तद्रूपत्वं युक्तम् । तद्यज्ञसाधनत्वं
ब्राह्मणे समाम्नातम्- 'स एतं चतुर्होतारमपश्यत् । तं मनसाऽनुद्रुत्याऽऽहवनीयेऽजु-
होत् । ततो वै स दर्शपूर्णमासावसृजत " इति ॥
अथ तृतीयामाह-
अ॒न्तः प्रविष्टं॑ क॒र्तार॑मे॒तम् । दे॒वानां॒ बन्धुं॒
निहि॑तं॒ गुहा॑सु । अ॒मृते॑न॒ क्लृप्तं॑ य॒ज्ञमे॒तम् ।
चतु॑र्होतॄणामा॒त्मानं॑ क॒वयो॒ निचि॑क्युरिति॑ ।
योऽयं परमात्मा सोऽयं देवानां बन्धुवत्प्रियस्तादृशम् । तेषु॑ देवेषु पक्षपातेन
विजयहेतुत्वं तलवकारा आमनन्ति- "ब्रह्म ह देवेभ्यो विजिग्ये" इति । गुहासु
बुद्धिषु निहितं साक्षित्वेनावस्थितम् । "यो वेद निहितं गुहायाम्" इत्यादिश्रुतेः ।
अमृतेन स्वर्गफलनिमित्तेन क्लृप्तं संपादितम् । एतं यज्ञमित्यादि पूर्ववत् ।
तदेवंमृक्तत्रयरूपं चतुर्होतृहृदयमुक्तम् । अथ पञ्चहोतृहृदयाख्यो मन्त्रोऽभिधीयते ।
तत्र तिस्र ऋचस्तासु प्रथमामाह--
श॒तं नि॒युतः॒ परि॑वेद॒ विश्वां॑ वि॒श्ववा॑रः । विश्व॑मि॒दं वृ॑णोति ।
इन्द्र॑स्याऽऽत्मा निहि॑तः॒ पञ्च॑होता । अ॒मृतं॑ दे॒वाना॒मायुः॑ प्र॒जाना॑म् (३), इति
पञ्चहोताऽभिहितंइत्यादिपञ्चहोतृमन्त्ररूप आत्मा सं च विश्ववारः सर्वैर्वरणीयं
वायुरूपः सञ्शतं नियुतः शतसंख्याकान्स्वकीयाँन्स्वा (?) न्परिवेद परितः संचारि-
त्वेन जानाति । अत एवेदं विश्वं जगद्वृणोति व्याप्नोति । सोऽयमिन्द्रस्याऽऽत्मा
परमेश्वरस्य स्वरूपभूतः सन्निहितः सर्वत्रावस्थितः । स च देवानाममृतं प्रजानां
चाऽऽयुः प्रयच्छतीति शेषः ।
१ ख. ग यज्ञमेव स° । २ ख. ग. ॰षु प° । ३ ख. ग ॰पातत्वेन । ४ क. ॰वमुक्त उत्त°
५ क. ख. ॰श्च प्र° । ६ ख. ग. स वि° । ७ क. ॰यान्श्वान्व° । ख. ॰यान्विश्वा परि° । ८ क
ग. ॰तं प्रयच्छति । प्र° ।

[प्रपा० ३ अनु० ११] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १८५

अथ द्वितीयामाह—
इन्द्र॑ꣳ राजा॑नꣳ सवितारमेतम् । वा॒योरा॒त्मानं॑
क॒वयो॒ निच॑िक्युः । र॒श्मिꣳ र॑श्मी॒नां मध्ये॒
तप॑न्तम् । ऋ॒तस्य॑ प॒दे क॒वयो॒ निपा॑न्ति, इति ।
एवं पञ्चहोतृदेवं कवयः पण्डिता निचिक्युः, विनिश्चितवन्तः । कीदृशम् । इन्द्रं
परमैश्वर्ययुक्तम् । राजानं दीप्यमानम् । सवितारं प्रेरकम् । वायोरात्मानं स्वरू-
पभूतम् । ते कवय एतं पञ्चहोतृदेवमृतस्य पदे ब्रह्मणः स्थाने निपान्ति नितरां
पालयन्ति, तद्रूपत्वेन पश्यन्तीत्यर्थः । कीदृशम् । रश्मीनां दृश्यमानानां किरणानां
मध्ये स्थित्वा तपन्तं जगतस्तापं कुर्वन्तम् । रश्मिं प्रौढरश्मिरूपम् । आदित्यमित्यर्थः।
अथ तृतीयामाह—
य आ॑ण्डको॒शे भुव॑नं बिभर्ति॑ । अनि॑र्भिण्णः सन्न॑थ
लो॒कान्विच॑ष्टे । यस्या॑ऽऽण्डको॒शꣳ शु॒ष्मंमा॒हुः
प्रा॒णमु॒ल्व॑म् । तेन॑ कॢप्तो॒ऽमृते॑ना॒हम॑स्मि, इति ।
यः पञ्चहोतृदेव आण्डकोशे ब्रह्माण्डमध्येऽनिर्भिण्णः सन्नभेदेनावस्थितः सन्भु-
वनं कृत्स्नं भूतजातं बिभर्ति धारयति । अथ ब्रह्माण्डभेदानन्तरं तदन्तःस्थिता-
न्भूरादिरलोकान्विचष्टे विशेषेण प्रख्यापयति । यस्यै पञ्चहोतृरूपस्य परमात्मनः
शुष्ममाण्डकोशं प्रबलं ब्रह्माण्डावकाशस्थं प्राणं वायुविशेषमुल्वमाहुः, गर्भवेष्टनस्था-
नीयमाहुः । यथा लोके गर्भ उल्बेन वेष्टयते तथा सूत्रात्मशरीरं प्राणवायुना ब्रह्माण्ड-
स्येन वेष्टितं भवति । तेनामृतेन पञ्चहोतृरूपेण परमात्मनाऽहं कॢप्तो व्यवहारसमर्थ-
त्वेनोत्पादितोऽस्मि ।
अथ षड्ढोतृहृदयंमन्त्रः । तत्र प्रथमामृचमाह—
सु॒वर्णं॒ कोशं॒ रज॑सा परी॑वृतम् । दे॒वानां॒ वसु॑धानीं॒
वि॒राज॑म् (४) । अ॒मृत॑स्य पू॒र्णां ताꣳ॑ क॒लां
विच॑क्षते । पादꣳ॒ षड्ढोतु॑र्न किला॑ऽऽविवित्से, इति ।
वाग्रोतेति मन्त्रोऽत्र षड्ढोता, स च ब्रह्माण्डकोशमध्ये चन्द्ररूपेणावस्थितः । तं

१ ख. ग. ॰वं चतुर्होतु॰ । २ ख. ग. ॰तं चतुर्होतृ॰ । ३ ग ॰न्नथो लो॰ । ४ क. ॰स्थितो
ऽव॰ । ५ ख. ग. ॰स्य चतुर्होतृ॰ । ६ क. ॰तृदेवस्याऽऽण्डकोशं शुष्मं प्र॰ । ७ क ॰शस्थप्रा॰ ।
: ग. सूक्ष्मशरीरेण प्रा॰ । ९ ख. ॰रीरेण प्रा॰ । १० ख. ग. ॰ह्माण्डं वे॰ । ११ ग. ॰मन्त्राः। त॰ ।
२४

१८४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा०३अनु०११]
न्द्ररूपं षड्ढोतृत्वदेवं कवयोऽभिज्ञाः सुवर्णत्वादिगुणयुक्तमाचक्षते । सुवर्णं शोभनवर्णो-
पेतं चन्द्रमण्डलं हिरण्मयवर्णोपेतं भासते । कोशं ब्रह्माण्डकोशमध्यगम् । रजसा
रञ्जनात्मकेनामृतेन परीवृतं सर्वतो व्याप्तम् । तथाविधं चन्द्रम् । तामु कलां तादृ-
शीमेव भागरूपां विचक्षत आचक्षते । कीदृशीमिति तदुच्यते—देवानां वसुधानीं
वह्निरव्यादीनां देवतानामपेक्षितं यद्वस्वमृतरूपं तस्य धारयित्रीम् । अत एव स्मर्यते—
“प्रथमां पिबते वह्निर्द्वितीयां पिबते रविः” इत्यादि । विराजं विशेषेण राजमानाम् ।
अमृतस्य पूर्णां पीयूषेण पूरिताम् । एवंरूपं षड्ढोतृत्वदेवमभिज्ञा आचक्षते । प्राकृतस्तु
जनः षड्ढोतुः पादं षड्ढोतृत्वदेवस्यांशभूतं चन्द्रं न किलाऽऽविवित्से नैव जानाति ।
अथ द्वितीयामाह—
येनर्तवः॑ प॒ञ्चधोत क्लृ॒प्ताः । उ॒त वा॑ षड्ढा मन॑-
सोत क्लृ॒प्ताः । तꣳ ष॒ड्ढोतार॑मृ॒तुभिः॒ कल्प॑मा-
नम् । ऋ॒तस्य॑ प॒दे क॒वयो॒ निपा॑न्ति, इति ।
येन चन्द्ररूपेण षड्ढोतृत्वदेवेन वसन्ताद्यृतवः पञ्चप्रकाराः क्लृप्ताः संपादिताः । हेम-
न्तशिशिरयोः समासेन पञ्चत्वम् । उत वा षड्ढाऽ(धाऽ)थवा हेमन्तशिशिरयोर्वि-
भागेन षट्प्रकाराः क्लृप्ताः । उतापि च मनसा क्लृप्ताः, संकल्पमात्रेण संपादिताः । तं
चन्द्ररूपं षड्ढोतृत्वदेवमृतुभिः कल्पमानं पञ्चधा षोढा वा भिन्नैर्वसन्तादिभिः सर्वव्यव-
हारसमर्थममृतस्य पदे सत्यस्य परब्रह्मणः स्थाने कवयो वेदरहस्याभिज्ञा निपान्ति
नितरां पालयन्ति, परब्रह्मैवायं चन्द्ररूपः षड्ढोतेत्येवमुपासत इत्यर्थः ।
अथ तृतीयामाह--
अन्तः॒ प्रवि॑ष्टं क॒र्तार॑मे॒तम् । अन्त॑श्चन्द्र॒मसि॒ मन॑सा
चर॑न्तम् । स॒हैव सन्तं॒ न वि॑जानन्ति दे॒वाः ।
इन्द्र॑स्याऽऽत्मानꣳ शतधा चर॑न्तम् ( ५ ), इति ।
देवाः सर्वे सहैव सन्तं स्वकीयहृदये स्वेन जीवात्मना सहैवावस्थितमेतं षड्ढोतृत्व-
देवं परमात्मानं न विजानन्ति, वेदान्ताभ्यासमन्तरेण हृदयेऽवस्थितोऽयं परमात्मे-
वेति विशेषेण न जानन्ति । कीदृशं परमात्मानम् । अन्तःप्रविष्टमन्तर्यामिरूपेण सर्वेषां
पृथिव्यादिपदार्थानां मध्येऽवस्थितम् । एतच्च वाजसनेयिनोऽन्तर्यामिब्राह्मणे—“यः
पृथिव्यां तिष्ठन्” इत्यादिना बहुप्रपञ्चेनाऽऽमनन्ति । कर्तारं नियामकत्वेन सर्वस्य निष्पा-
१ ग. °वं विराजमभि° । २ ग. °वर्णमेतं । ३ ग. °पेतम् । को° । ४ ख. °रूपामाचक्षते ।
५ ग. षड्ढा । ६ ग. वाऽथ । ७ क. °पञ्चमाम° ।

अन्वविन्दत् -> अविन्दत् = लब्धवान्!
Look at the letters:
अ (a)
वि (vi)
न् (n)
द (da)
त् (t) with virama? Or ल् (l)?
In Sanskrit commentary: "अन्वविन्दत् । अविन्दल्लब्धवान्" (avindat = labdhavān, with sandhi: t + l -> l-l: अविन्दल्लब्धवान्)!
Look at the image line 14:
अ वि न्द ल् ल ब्ध वा न्
Wait, look at the third character:
अ (1)
वि (2)
न्द्य ? No, it has a vertical bar, wait:
Is it "अविन्द्य" or "अविन्दल्"?
Look closely at "अविन्द्य": there is 'अ', 'वि', then 'न्द', then below/after is there a 'य'?
Wait, look at the space:
"अविन्द्य लब्धवान्" -> there is a clear space between the first word and "लब्धवान्"!
Wait, is the first word "अविन्द्य" or "अविन्दत्"?
Look at the end of the first word:
अ, वि, न्, द, then a halanta त? No, there is an under-curve or subscript?
Wait, could it be "अविन्दत् । लब्धवान्"?
Wait

१८८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०३अनु०११]
ते च सप्त रश्मयो बहुलां श्रियं प्रभूतां सस्यादिसंपदं मेहन्ति वृष्टिसेचनद्वारेण संपा-
दयन्ति । हे इन्द्र सप्तहोतृदेवरूप परमेश्वर बह्वश्वां बहुभिरश्वैरुपेतरां गोमतीं बहुभि-
र्गोभिरुपेतां तां श्रियं प्रयच्छेति शेषः ।
अथ पञ्चमीमाह--
अच्यु॑तां बहु॒लाꣳ श्रिय॑म् । स ह॒रिर्वसु॑-
वित्त्तमः॑ । पे॒रुरिन्द्रा॑य पिन्वते, इति ।
स देवः सप्तहोतृरूप इन्द्राय कर्मस्वामिने यजमानाय श्रियं पिन्वते सिञ्चति,
प्रयच्छतीत्यर्थः । कीदृशः स देवः, हरिः पापहरणशीलः, वसुवित्तमोऽतिशयेन
धनस्य लब्धा, पेरुः पालकः । कीदृशीं श्रियम्, अच्युतां विनाशरहितां, बहुलां
गवाश्वादिभिः प्रभूताम् ।
अथ षष्ठीमाह--
बह्व॒श्वामिन्द्र॑ गोम॑तीम् । अच्यु॑तां बहु॒लाꣳ
श्रिय॑म् । म॒हामिन्द्रो॒ निय॑च्छतु, इति ।
इन्द्रः परमैश्वर्ययुक्तः सप्तहोतृदेवः । स्पष्टमन्यत् ।
अथ सप्तमीमाह--
श॒तꣳ श॒ता अ॑स्य यु॒क्ता हरी॑णाम् । अर्वा॑ङाया॑तु॒
वसु॑भी र॒श्मिरिन्द्रः॑ । प्रम॑ꣳह मानो बहु॒लाꣳ श्रिय॑म् ।
र॒श्मिरिन्द्रः॑ सवि॒ता मे॒ निय॑च्छतु ( ७ ), इति ।
अस्याऽऽदित्यरूपस्य सप्तहोतृदेवस्य हरीणामन्धकारहरणशीलानां रश्मीनां
शतꣳ शता शतसंख्याकानि शतानि, अयुतसंख्याकानीत्यर्थः । युक्ता युक्तानि संपा-
दितानि । इन्द्रः परमैश्वर्ययुक्तो रश्मिर्बहुविधरश्मियुक्त आदित्यो वसुभिर्धनैः सहा-
र्वाङायातु आभिमुख्येनाऽऽगच्छतु । आगतश्च सविता बहुलां श्रियं प्रभूतां धनादि-
संपदं मे मह्यं नियच्छतु नितरां ददातु । कीदृशः सविता, प्रमꣳहमाणोऽस्मदी-
यस्तुतिभिः प्रकर्षेण वर्धमानः रश्मिर्बहुविधरश्मियुक्तः इन्द्रः परमैश्वर्ययुक्तः ।
अथाष्टमीमाह--
घृ॒तं तेजो॒ मधु॑मादिन्द्रि॒यम् । मय्य॒यम॒ग्निर्द॑धातु, इति ।
१ ख. प्रधानभू० । २ ज ग ०तां धनादि० ।

[प्रपा० ३ अनु० ११] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १८९
अयं सप्तहोतृदेवोऽग्न्यात्मकः सन्मयि यजमाने , मधुमद्घृतं मधुररसोपेतं घृतादि-
द्रव्यं तेजः कान्तिमिन्द्रियं चक्षुरादिसामर्थ्यं च दधातु संपादयतु ।
अथ नवमीमाह—
हरिः॑ पत॒ङ्गः प॑ट॒री सु॑प॒र्णः । दि॒विक्ष॑यो नभ॑सा य
एति॑ । स न॒ इन्द्रः॑ कामव॒रं द॑दातु, इति ।
हरिरन्धकारहरणशीलः पतङ्गः सूर्यरूपः पटरी तेजःपटलवान्सुपर्णः पक्षिस-
दृशो दिविक्षयः स्वर्गनिवासी यः सप्तहोतृदेवो नभसाऽऽकाशमार्गेणैति गच्छति ।
स देवो नोऽस्माकं कामवरं कामानां मध्ये श्रेष्ठं ददातु ।
अथ दशमीमाह—
प॒ञ्चारं॑ च॒क्रं परि॑वर्तते पृ॒थु । हिर॑ण्यज्योतिः
स॒रि॒रस्य॒ मध्ये॑ । अज॑स्रं॒ ज्योति॒र्नभ॑सा सर्प॑-
देति॑ । स न॒ इन्द्रः॑ कामव॒रं द॑दातु, इति ।
ऋतुपञ्चकात्मका अरा यस्य कालचक्रस्य तत्पञ्चारं पृथु विस्तृतं चक्रं संवत्स-
रात्मकं कालचक्रं परिवर्तते परितः प्रवर्तते । सरिरस्य मध्ये मेघवर्तिजलस्य मध्ये
रण्यज्योती रश्मिसंचारेण विद्युद्रूपपरिणामे सति सुवर्णसमानं ज्योतिर्यस्य मण्डलस्य
द्धेरण्यज्योतिस्तादृशं ज्योतिरादित्यमण्डलं संवत्सरचक्रनिष्पादकमजस्रं निरन्तरं
भसाऽऽकाशमार्गेण सर्पदेति शनैः संचरन् ग (मार्ण ग) च्छति । स ज्योतिर्मण्डलात्मा
ऽस्माकं कामवरं ददातु ।
अथैकादशीमाह—
स॒प्त यु॑ञ्जन्ति॒ रथ॒मेक॑चक्रम् ( ८ ) । एको॒ अश्वो॑
वह॑ति स॒प्तनामा॑ । त्रि॒नाभि॑ च॒क्रम॒जर॒मन॑र्वम् ।
येने॒मा विश्वा॒ भुव॑नानि॒ तस्थुः, इति ।
सप्तसंख्याकाः साकंजानामित्यत्रोक्ता मुख्यरश्मिविशेषा अश्वसदृशा एकचक्र-
रूपप्रकारपरिवर्ते कालचक्रं युञ्जन्ति प्रवर्तयन्ति । तदेव स्पष्टी क्रियते—सप्तनामा
सप्तसंख्यानि नामानि नमनयोग्यानि वश्यानि रश्मिरूपाणि यस्यासौ सप्तनामा । अश्वो
[व्य]ापक एकः सूर्यस्तत्कालचक्रं वहति । कीदृशं चक्रम्—त्रिनाभि तिस्रः सत्त्वरज-
स्तमोगुणरूपा भूतभविष्यद्वर्तमानरूपा वा नाभयो यस्य तत्रिनाभि । अजरं विनाशरहि-
१ क. ॰षोऽग्निर्मायि । ग. ॰षो द्रव्यात्म॰ । २ ग. ॰नर्वाम् । ये॑ ।

१९० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा० ३अनु० ११]
तम्, न हि कालः संसारमध्ये कदाचिद्विनश्यति । अनर्वम्, अर्वा विरोधी विनाशको
भ्रातृव्यो वा अवेति श्रुतेः, तद्रहितम्, न हि कालचक्रस्य कश्चिद्विनाशकोऽस्ति । येन
कालचक्रेणेमा विश्वा भुवनानि दृश्यमानानि सर्वाणि भूतजातानि तस्थुस्तिष्ठन्ति सुखेन
वर्तन्ते, तस्य कालचक्रस्य निर्वाहकोऽयं सप्तहोतृदेव आदित्यः ।
अथ द्वादशीमाह—
भ॒द्रं पश्य॑न्त॒ उप॑सेदु॒रग्रे॑ । तपो॑ दी॒क्षामृ-
ष॑यः सुव॒र्विद॑: । तत॑: क्ष॒त्रं बल॒मोज॑श्च
जा॒तम् । तद॒स्मै दे॒वा अ॒भिसंन॑मन्तु, इति ।
सुवर्विदः स्वर्गमार्गाभिज्ञा ऋषयो भद्रं कल्याणं सप्तहोतृरूपमादित्यं पश्यन्तः
प्राप्यत्वेन निश्चिन्वानास्तपोऽनशनादिरूपं दीक्षां नियमविशेषं चोपसेदुरनुष्ठितवन्तः ।
तत आदित्यसकाशात्क्षत्रं क्षतात्राणमनिष्टनिवारणं बलं शरीरशक्तिरोजः कान्तिः
क्षेत्येतत्सर्वं जातं संपन्नम् । तँत्क्षत्रादित्रयमस्मै यजमानाय देवा अभिसंनमन्तु
अभितः संपादयन्तु ।
अथ त्रयोदशीमाह—
श्वे॒तꣳ र॒श्मिं बो॑भुज्यमा॑नम् । अ॒पां ने॒तारं॒ भुव॑नस्य
गो॒पाम् । इन्द्रं॑ निचिक्युः पर॒मे व्यो॑मन् ( ९ ), इति ।
परमे व्योमन्नुत्कृष्टे हृदयाकाश इन्द्रं परमैश्वर्ययुक्तं सप्तहोतृदेवमादित्यं निचिक्युः
निश्चितवन्तः, ध्यातवन्त इत्यर्थः । कीदृशमिन्द्रम्—श्वेतं प्रकाशरूपत्वेन शुक्लवर्णम् ।
रश्मिं रश्मियुक्तम् । बोभुज्यमानं सर्वैः प्राणिभिर्वृष्टिद्वारेण पुनः पुनर्भूज्यमानम् । एत-
देव स्पष्टी क्रियते—अपां नेतारम्, आदित्याज्जायते वृष्टिरिति स्मृत्या सूर्यो जलस्य
नेता तादृशम्, भुवनस्य गोपां भुवनस्य पालकम् ।
अथ चतुर्दशीमाह—
रोहि॑णीः पिङ्ग॒ला एक॑रूपाः । क्षर॑न्तीः पिङ्ग॒ला एक॑-
रूपाः । श॒तꣳ स॒हस्रा॑णि प्र॒युता॑नि ना॒व्या॑नाम्, इति ।
रोहिणी रोहितवर्णाः पिङ्गलाः पिङ्गलवर्णाश्च या आपस्तत्तद्भूमिसंबन्धेन बहु-
विधा दृश्यन्ते, ताः सर्वा अपि सप्तहोतृरूपस्याऽऽदित्यस्य रश्मिसंबन्धे सति मेघे-
१ ग. अनर्वाम् । २ ग. 'श्विनाश° । ३ क. यस्य । ४ क. °र्लोकमार्ग° । ५ ग.
'न्तिस्तिथे' । ६ घ. ग. तच्च क्षत्रा° । ७ क. °तृरूपणा' । ८ क 'पां गोप्तारं भूतजातस्य'
९ ग. °हिणः । १० क. 'तृदेवस्य'ऽऽ' ।

नानारूपत्वं परित्यज्यैकरूपा भवन्ति । तथा क्षरन्तीर्वृष्टिरूपेण भूमौ पतन्त्यस्ताः
पिङ्गलादिवर्णा आप एकरूपा भवन्ति । वृष्टिबाहुल्येन भूमौ नाव्यानां नावा
तरणीयानामपां शतं सहस्राणि प्रयुतानि शतसंख्या बहुविधसहस्रसंख्या बहुवि-
धलक्षसंख्यां च संपद्यते । वृष्टिकाले तत्र तत्रानेकप्रवाहा भवन्ति । तदेतत्सर्वं सप्त-
होतृमाहात्म्यम् ।
अथ पञ्चदशीमाह—
अ॒यं यः श्वे॒तो र॒श्मिः । परि॒ सर्व॑मि॒दं जग॑त् ।
प्र॒जां प॒शून्धना॑नि । अ॒स्माकं॑ ददातु, इति ।
अयमादित्यः श्वेतः श्वेतवर्णो रश्मी रश्मियुक्तोऽस्ति । सोऽयं सर्वमिदं जगत्परि-
व्याप्य वर्तमानोऽस्माकं प्रजादिकं ददातु ।
अथ षोडशीमाह—
श्वे॒तो र॒श्मिः परि॒ सर्वं॑ बभूव । सु॒वन्महां॑ प॒शून्वि॒श्वरू॑पान्, इति ।
श्वेतः शुक्लवर्णो रश्मी रश्मियुक्त आदित्यः सर्वं जगत्परिबभूव परितो व्याप्तवान्,
तादृश आदित्यो महां विश्वरूपान्गोमहिष्यादिरूपेण बहुविधान्पशून्सुवत्सौतु, प्रेर-
यत्वित्यर्थः ।
अथ सप्तदशीमाह—
प॒त॒ङ्ग-म॒क्तमसु॑रस्य मा॒यया॑ ( १० ) । हृ॒दा प॑श्यन्ति
मन॑सा मनी॒षिण॑: । स॒मु॒द्रे अ॒न्तः क॒वयो॒ विच॑-
क्षते । मरी॑चीनां प॒दमि॑च्छन्ति वे॒धस॑:, इति ।
असून्प्राणान्राति ददातीत्यसुरः परमात्मा, तस्य माययाऽचिन्त्यशक्त्याऽक्तंम
व्यक्तं पतङ्कमादित्यं हृदा मनसा हृत्पुण्डरीकगतेन नियमितैनान्तःकरणेन मनी-
षिणो वेदशास्त्राभिज्ञा महर्षयः पश्यन्ति ध्यात्वा साक्षात्कुर्वन्ति । कवयो लौकिकैर्वार्ता-
भिज्ञाः पुरुषाः समुद्रे अन्तः समुद्रसमानेऽन्तरिक्षमध्ये विचक्षते विशेषेण कथयन्ति,
मादित्य उदितो मध्याह्ने समागत इत्यादिव्यवहारं कुर्वन्ति । वेधसो विधातारोऽ-
नेककुशलाः केचिद्यजमाना मरीचीनां पदं रश्मीनां स्थानमादित्यमिच्छन्ति । आदि-
त्यसायुज्यप्राप्त्यर्थमनुतिष्ठन्तीत्यर्थः ।
१ ख. °न नाव्या° । २ क. °मौ नानारूपे(पा)णामेकरूपाणां च नाव्या । ३ ग. °क्षस्रं ।
स्याश्च सं° । ५ क. °हात्म्यामित्यर्थः । अ° । ६ क. ख. °वन्सोतु । ७ क. °कवृत्तान्ताभि° ।

अथाष्टादशीमाह—
पत॒ङ्गो वाचं॒ मन॑सा बिभर्ति । तां ग॑न्ध॒र्वोऽव॑-
द॒द्गर्भे॑ अ॒न्तः । तां द्योत॑मानाꣳ स्वर्यै मनी॒-
षाम् । ऋ॒तस्य॑ प॒दे क॒वयो॒ निपा॑न्ति, इति ।
पतङ्ग आदित्यो मनसा स्वकीयेन प्राणिनां वाचं बिभर्ति धारयति, अन्तर्यामिरू-
पेण वाचं प्रेरयतीत्यर्थः । तथाच पौराणिका आहुः— “योऽन्तः प्रविश्य मम वाच-
मिमां प्रसुप्तां संजीवयत्यखिलशक्तिधरः स्वधाम्ना” इति । तामादित्यप्रेरितां वाचं गर्भे
अन्तः शरीरस्य मध्ये गन्धर्वनामको वायुरवददुच्चारयति । गन्धान्वहतीति व्युत्पत्त्या
गन्धर्वशब्दो वायुमाचष्टे । वायुर्हि ताल्वादिं२संयुक्तो वाचमुच्चारयति । तां वायुनोच्चारितां
द्योतमानां प्रकाशमानां स्वर्यं स्वर्गस्य हेतुभूतां मनीषां मनस ईशित्रीमाह्लादकरी-
मित्यर्थः । तादृशीं वाचं कवयः शास्त्राभिज्ञा ऋतस्य पदे सत्यस्य ३परब्रह्मणः स्थाने
निपान्ति नितरां पालयन्ति । परब्रह्मविषयाणि वेदवाक्यानि सर्वदा पठन्तीत्यर्थः ।
तदेतत्सर्वं वाचः प्रेरकस्याऽऽदित्यस्य माहात्म्यम् ।
अथैकोनविंशीमाह—
ये ग्राम्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पाः सन्तो॑
बहु॒धैक॑रूपाः । अ॒ग्निस्ताꣳ अग्रे॒ प्रमु॑मोक्तु
दे॒वः (११) । प्र॒जाप॑तिः प्र॒जया॑ संविदा॒नः, इति ।
ये पशवो ग्राम्या ग्रामे भवा गवांश्वादयो विश्वरूपा जातिभेदैर्बहुविधा विरू-
वर्णादिभेदेन विविधाकारा एवं बहुधा दृश्यमानाः सन्तोऽपि पुनः पशुत्वाकारेणैक-
रूपास्तान्सर्वानग्निरूपः सप्तहोतृदेवोऽग्रे प्रमुमोक्तु प्रथमं तत्तत्स्थानात्प्रमुञ्चतु, प्रमुच्य
स्मभ्यं ददात्वित्यर्थः । प्रजापतिश्च स्वकीयया प्रजया संविदान ऐकमत्यं गतो
स्मभ्यं पशून्ददात्विति शेषः ।
अथ विंशीमाह—
वीतं॒ स्तुके॑ स्तुके । यु॒वम॒स्मासु॑ निर्य-
च्छतम् । प्र प्र॑

मस्मासु नियच्छतं नियमेन संपादयतम् । यज्ञपतिं यजमानं प्रप्रतिरात्यन्तं प्रकर्षेण
वर्धयतम् ।
अथैकविंशीमाह—
ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पाः सन्तो॑
बहु॒धैकरू॑पाः । तेषा॑ꣲ स॒प्ताना॑मि॒ह रन्ति॑रस्तु ।
राय॒स्पोषाय सुप्र॒जास्त्वा॑य सु॒वीर्या॑य, इति ।
ग्राम्यादिशब्दाः पूर्ववद्योज्याः । तेषां ग्राम्यपशूनां सप्तानां गोश्वाजाविपुरुषगर्द-
भोष्ट्ररूपाणां सप्तसंख्याकानामिहास्मद्गृहे रन्तिः क्रीडाऽस्तु । तच्च धनपुष्टिशोभनापत्य-
शोभनवीर्यार्थं संपद्यते ।
अथ द्वाविंशीमाह—
य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पाः
सन्तो॑ बहु॒धैकरू॑पाः । वा॒युस्ताꣲ अग्रे॒ प्रमु॑मोक्तु
दे॒वः । प्र॒जाप॑तिः प्र॒जया॑ संविदानः, इति ।
अरण्ये भवा आरण्या द्विखुराः श्वापदादयस्तानरण्याधिपतिर्वायुः प्रमुमोक्तु । अन्य-
त्पूर्ववत् ।
अथ त्रयोविंशीमाह—
इडा॑यै सृ॒प्तं घृ॒तव॑च्च॒राच॑रम् । दे॒वा अन्व॑विन्दन्गुहा॑हि॒तम् , इति ।
इडायै गोसंपादनार्थं सृप्तं प्राप्तं घृतवद्घृतयुक्तं घृताकारमित्यर्थः । तादृशं चरा-
चरं स्थावरजङ्गमस्वरूपं जगदनुग्रहीतुं गुहाहितं प्राणिनां बुद्धाववस्थितं सप्तहोतृदेवं देवा
अन्वविन्दन्नन्विष्य लब्धवन्तः ।
अथ चतुर्विंशीमाह—
य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पाः सन्तो॑
बहु॒धैकरू॑पाः । तेषा॑ꣲ स॒प्ताना॑मि॒ह रन्ति॑रस्तु ।
राय॒स्पोषाय सुप्र॒जास्त्वा॑य सु॒वीर्या॑य (१२), इति।
आ॒त्मा जना॑नां वि॒कुर्वन्तं॑ विप॒श्चिं प्र॒जानां॑ वसु॒धानीं॑ वि॒राजं॒ चर॑न्तं
गो॒मती॑ मे॒ निय॑च्छत्वेक॑चक्रं व्यो॑मन्मा॒यया॑ दे॒व एक॑रूपा अ॒ष्टौ च॑ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके तृतीयप्रपाठक
एकादशोऽनुवाकः ॥ ११ ॥
१ ग. ॰तिरोऽत्य॰। २ ख. ॰श्वावि॰। ३ ख. ॰ष्ट्रमाहिषरू॰। ४ क. ॰पुष्ट्यर्थं शोभनमप्रजार्थं
शोभन॰ ।
२५

१३४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [प्रपा०३अनु०१२]
सप्तानां द्विखुरश्वापदपक्षिसरीसृपहस्तिमर्कटनादेयानाम् । अन्यत्पूर्ववत् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्याकभाष्ये तृतीयप्रपाठके एकादशोऽनुवाकः ॥ ११ ॥
अथ तृतीये द्वादशोऽनुवाकः ।
एतैरेकादशभिरनुवाकैश्चातुर्होत्रीयचयनमन्त्रा उक्ताः । नारायणनाम्ना पुरुषसूक्तनाम्ना
च व्यवह्रियमाणोऽनुवाक उच्यते । तस्य विनियोगं महाग्नावापस्तम्ब आह-“पुरस्ता-
त्प्रतीचीं पुरुषाकृतिं चिनोति पुरुषशिरोऽस्याः शिरो भवति, सहस्रशीर्षा पुरुष इत्युप-
हितां पुरुषेण नारायणेन यजमान उपतिष्ठते” इति । ब्रह्ममेधेऽपि प्रेतदाहोपस्थाने विनि-
योगं भरद्वाज आह--“नारायणाभ्यामुपस्थानम् ” इति । अयं चोत्तरश्चेत्युभावानु-
वाकौ नारायणसंज्ञौ नारायणाख्येन केनचिदृषिणा दृष्टत्वात्, जगत्कारणस्य नारायणा-
ख्यस्य पुरुषस्य प्रतिपादकत्वाच्च । तत्रास्मिन्द्वारुशेऽनुवाके प्रथमामृचमाह--
सहस्र॑शीर्षा पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम्, इति ।
सर्वप्राणिसमष्टिरूपो ब्रह्माण्डदेहो विराडाख्यो यः पुरुषः सोऽयं सहस्रशीर्षा,
सहस्रशब्दस्योपलक्षणत्वादनेन्तैः शिरोभिर्युक्त इत्यर्थः । यानि सर्वप्राणिनां शिरांसि
तानि सर्वाणि तद्देहान्तःपातित्वात्तदीयान्येवेति सहस्रशीर्षत्वम् । एवमक्षिषु पादेष्वपि
योजनीयम् । स पुरुषो भूमिं ब्रह्माण्डगोलकरूपां विश्वतो वृत्वा सर्वतः परिवेष्ट्य
दशाङ्गुलपरिमितं देशमत्यतिष्ठदतिक्रम्य स्थितः । दशाङ्गुलमित्युपलक्षणं ब्रह्माण्डाद्व-
हिरपि सर्वतो व्याप्यावस्थित इत्यर्थः ।
अथ द्वितीयामाह--
पुरु॑ष ए॒वेदꣳ सर्वम्॑ । यद्भू॒तं यच्च॒ भव्य॑म् ।
उ॒तामृ॑त॒त्वस्येशा॑नः । यदन्ने॑नाति॒रोह॑ति, इति ।
यद्भूतमतीतं जगत्, यच्च भव्यं भविष्यज्जगत् । यदपीदं वर्तमानं जगत्, तत्सर्वं
पुरुष एव । यथाऽस्मिन्कल्पे वर्तमानाः प्राणिदेहाः सर्वेऽपि विराट्पुरुषस्यावयवाः,
१ क. ॰हौत्रिय॰ । २ क. ख. अभिहिताः । ३ ख. ग. ॰शिरो भ॰ । ४ ग. ॰तिष्ठेत'
इ॰ । ५ क. ॰गं भार॰ । ६ क. रश्चैतावुभा॰ । ७ क. ॰ख्यो योऽयं पु॰ । ८ क. ॰क्षिपा॰ ।

[प्रपा० ३अनु० १२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १९५
त्र्येवातीतागामिनोरपि कल्पयोर्द्रष्टव्यम् । उतापि चामृतत्वस्य देवत्वस्यायमीशानः
स्वामी । यद्यस्मात्कारणादन्नेन प्राणिनां भोग्येनान्नेन निमित्तभूतेनातिरोहति स्वकीय-
कारणावस्थामतिक्रम्य परिदृश्यमानां जगदवस्थां प्राप्नोति । तस्मात्प्राणिनां कर्मफलभो-
गाय जगदवस्थास्वीकारान्नेदं तस्य वस्तुतत्त्वमित्यर्थः ।
अथ तृतीयामाह—
ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाँ॑श्च॒
पूरु॑षः ( १ ) । पादो॑ऽस्य॒ विश्वा॑
भू॒तानि॑ । त्रि॒पाद॑स्या॒मृतं॑ दि॒वि, इति ।
अतीतानागतवर्तमानरूपं जगद्यावदस्त्येतावान्सर्वोऽप्यस्य पुरुषस्य महिमा स्वकी-
यसामर्थ्यविशेषो न तु तस्य वास्तवं स्वरूपम्, वास्तवस्तु पुरुषः, अतो महि-
म्नोऽपि ज्यायानतिशयेनाधिकः । एतच्च स्पष्टी क्रियते । विश्वा भूतानि कालत्रय-
वर्तीनि प्राणिजातानि अस्य पुरुषस्य पादश्चतुर्थोऽशः । अस्यावशिष्टं त्रिपात्स्व-
रूपममृतं विनाशरहितं सद्दिवि द्योतनात्मक स्वप्रकाशरूपेऽवतिष्ठते । यद्यपि सत्यं
ज्ञानमनन्तं ब्रह्मेत्याम्नातस्य परब्रह्मण इयत्ताया अभावादंशचतुष्टयं न निरूप-
यितुं शक्यं तथाऽपि जगदिदं ब्रह्मस्वरूपापेक्षयाऽत्यल्पमिति विवक्षित्वा पादत्वो-
पन्यासः ।
अथ चतुर्थीमाह—
त्रि॒पादूर्ध्व उदै॒त्पूरु॑षः । पादो॑ऽस्ये॒हाऽऽभ॑वा॒त्पुन॑: ।
ततो॒ विष्व॒ङ् व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि, इति ।
योऽयं त्रिपात्पुरुषः संसारस्पर्शरहितब्रह्मस्वरूपः सोऽयमूर्ध्व उदैदस्मादज्ञानका-
र्यात्संसाराद्बहिर्भूतः सन्नत्रत्यैर्गुणदोषैरस्पृष्ट उत्कर्षेण स्थितवान् । तस्य योऽयं पादो
शः सोऽयमिह मायायां पुनराभवत् । सृष्टिसंहाराभ्यां पुनः पुनरागच्छति ।
अस्य सर्वस्य जगतः परमा॑त्मांशत्वं भगवताऽप्युक्तम्—“ विष्टभ्याहमिदं कृत्स्नमेकां-
शेन स्थितो जगत् ” इति । ततो मैयायामागत्यानन्तरं विष्वङ्देवतिर्यगादिरूपेण
विधः सन्व्यक्रामाद्व्यचासवान् । किं कृत्वा साशनानशने अभिलक्ष्य साशनं भोज-
१ ग. पुरुषः । २ ख. ॰स्त्वं वस्तु । ग ॰स्त्वन्नवस्तु । ३ क. ख. ॰त्तच्चोभयं स्प॰ । ४ क.
। सर्वभू॰ । ख. ॰ते । सर्वाणि भू॰ । ५ ख. ॰तं तच्च दिवि । ६ क. ॰त्ताभा॰ । ७ ग. ॰क्षित-
त्वाद् । ८ ग. तवहुलस्व॰ । ९ क. ॰र्षेणावस्थि॰ । १० क. ॰मात्मदेश॰ । ११ ग. माय-
ऽऽग॰ । १२ ख. ॰यामा॰ ।

, top stroke... wait!
Could it be 'र्शाङ्ख्यातिरिक्तो' or is it 'विशेषातिरिक्त'?
Wait, look at footnote 6:
"६ ख. ॰राद्वति॰ ।"
Wait, what is footnote 6 attached to?
"॰राद्वति॰" -> "विराडभूदिति"? No, "अत्यरिच्यत"?
Look at the end of the line: "मनुष्यादिरूपोऽ-"
"भूत् ।"
Look at : "विर्शाङ्ख्यातिरिक्तो" or "विशङ्ख्यातिरिक्तो"?
Wait! It has 'वि', then 'र्', 'शा', 'ङ्', 'ख्या':
Wait, look at 'ङ्ख्या': dot above? No, ङ् + ख + य = ङ्ख्या.
Wait, why would it say "विर्शाङ्ख्यातिरिक्तो"?
Could it be "विशङ्ख्यातिरिक्तो" from "संख्या"? "विगतसंख्यातिरिक्तो"? "वि-संख्यातिरिक्तो"?
Or is it a corruption of "विशेषातिरिक्तो" or "विशङ्ख्यातिरिक्तो"?
Let's transcribe what is visually printed:
"विर्शाङ्ख्यातिरिक्तो" or "विशाङ्ख्यातिरिक्तो".
It has: 'वि' then 'र्' over 'शा', then 'ङ्ख्या' (ङ् with ख्य attached below/right).

। आरण्या द्विखुरादयस्तथा ये ग्राम्या गवाश्वादयस्तानप्युत्पादितवान् । पशूना-`

Line 26 ends with पशूना-
Line 27 starts with: [मन्त]रिक्षद्वारा वायुदेवत्यत्वं मन्त्रान्तरव्याख्याने समाम्नातम्—‘वायवस्थेत्याह वायुर्वा

Line 27 ends with वायुर्वा
Line 28 starts with: [अन्त]रिक्षस्याध्यक्षः । अन्तरिक्षदेवत्याः खलु वै पशवः । वायव एवैनान्परिद-

Line 28 ends with परिद-
Line 29 starts with: [दा]ति’ इति ।

  • Footnotes:
    १ क. घ. ‘न्ति । ते ह्यादि’ । २ ग. यः । ३ क. ख. ॰नसं यज्ञं नि’ ।
    Wait, in footnote 1: १ क. घ. 'ति । ते ह्य्रादि' । or 'ति । ते ह्यादि'?
    Looking at ह्यादि: it has ह्य with ा -> ह्यादि.

Let's output the text faithfully with line markers to . Bracket the reconstructed trimmed characters like `[प्र

१९८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० ३अनु० १२]
अथ दशमीमाह—
तस्मा॓द्य॒ज्ञात्स॑र्व॒हुतः॑ । ऋचः॒ सामा॑नि जज्ञिरे ।
छन्दा॑ꣳसि जज्ञिरे॒ तस्मा॑त् । यजु॒स्तस्मा॑दजायत (४), इति ।
छन्दांसि गायत्र्यादीनि । स्पष्टमन्यत् ।
अथैकादशीमाह—
तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः । गावो॑
ह जज्ञिरे॒ तस्मा॑त् । तस्मा॑ज्जा॒ता अ॑जा॒वयः॑, इति ।
अश्वव्यतिरिक्ता गर्दभा अश्वतराश्च ये केचिदूर्ध्वाधोभागयोरुभयोर्दन्तयुक्ताः सन्ति
तेऽप्यश्ववदजायन्त । तथा गावोऽजाश्वावयश्च ते सर्वेऽप्युत्पन्नाः ।
अथ द्वादशीमाह—
यत्पुरु॑षं॒ व्यद॑धुः । क॒ति॒धा व्य॑कल्पयन् । मुखं॒
किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते, इति ।
प्रश्नोत्तररूपेण ब्राह्मणादिसृष्टिं वक्तुमत्र ब्रह्मवादिनां प्रश्ना उच्यन्ते—प्रजापतेः
प्राणरूपा देवा यद्यदा पुरुषं विराड्रूपं व्यदधुः संकल्पेनोत्पादितवन्तः । तदानीं
कतिधा कतिभिः प्रकारैर्व्यकल्पयन्विविधं कल्पितवन्तः॑। एष सामान्यरूपः प्रश्नः। मुखं
किमित्यादयो विशेषप्रश्नाः । अन्यत्स्पष्टम् ।
अथ त्रयोदशीमाह--
ब्रा॒ह्म॒णो॑स्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः ( ५ )
ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्यांꣳशू॒द्रो अ॑जायत, इति ।
योऽयं ब्राह्मणत्वजातिविशिष्टः पुरुषः सोऽयमस्य प्रजापतेर्मुखमासीत्, मुखादु-
त्पन्न इत्यर्थः । योऽयं राजन्यः क्षत्रियजातिः स बाहुत्वेन निष्पादितः बाहुभ्यामुत्पा-
दित इत्यर्थः । तत्तदानीं यौ प्रजापतेरूरू तद्रूपो वैश्यः संपन्नः, ऊरुभ्यामुत्पन्न
इत्यर्थः । तथा पँद्भ्यां शूद्र उत्पन्नः । इयं च मुखादिभ्यो ब्राह्मणादीनामुत्पत्तिः सप्ता-
मकाण्डे “ स मुखतस्त्रिवृतं निरमिमीत ” इत्यादौ विस्पष्टमाम्नाता । अतः प्रश्नोत्तरे
उभे अपि तत्परत्वेनैव योजनीये ।
अथ चतुर्दशीमाह—
च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षोः॒ सूर्यो॑ अजायत ।
१ क. ख. ॰कारैः क° । २ ख. ॰न्तः । अ° । ३ ग. ॰श्वाः । अथ । ४ क. ख. पादाभ्यां ।