सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 188, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 188

[प्रपा० ३ अनु० ११] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १८५

अथ द्वितीयामाह—
इन्द्र॑ꣳ राजा॑नꣳ सवितारमेतम् । वा॒योरा॒त्मानं॑
क॒वयो॒ निच॑िक्युः । र॒श्मिꣳ र॑श्मी॒नां मध्ये॒
तप॑न्तम् । ऋ॒तस्य॑ प॒दे क॒वयो॒ निपा॑न्ति, इति ।
एवं पञ्चहोतृदेवं कवयः पण्डिता निचिक्युः, विनिश्चितवन्तः । कीदृशम् । इन्द्रं
परमैश्वर्ययुक्तम् । राजानं दीप्यमानम् । सवितारं प्रेरकम् । वायोरात्मानं स्वरू-
पभूतम् । ते कवय एतं पञ्चहोतृदेवमृतस्य पदे ब्रह्मणः स्थाने निपान्ति नितरां
पालयन्ति, तद्रूपत्वेन पश्यन्तीत्यर्थः । कीदृशम् । रश्मीनां दृश्यमानानां किरणानां
मध्ये स्थित्वा तपन्तं जगतस्तापं कुर्वन्तम् । रश्मिं प्रौढरश्मिरूपम् । आदित्यमित्यर्थः।
अथ तृतीयामाह—
य आ॑ण्डको॒शे भुव॑नं बिभर्ति॑ । अनि॑र्भिण्णः सन्न॑थ
लो॒कान्विच॑ष्टे । यस्या॑ऽऽण्डको॒शꣳ शु॒ष्मंमा॒हुः
प्रा॒णमु॒ल्व॑म् । तेन॑ कॢप्तो॒ऽमृते॑ना॒हम॑स्मि, इति ।
यः पञ्चहोतृदेव आण्डकोशे ब्रह्माण्डमध्येऽनिर्भिण्णः सन्नभेदेनावस्थितः सन्भु-
वनं कृत्स्नं भूतजातं बिभर्ति धारयति । अथ ब्रह्माण्डभेदानन्तरं तदन्तःस्थिता-
न्भूरादिरलोकान्विचष्टे विशेषेण प्रख्यापयति । यस्यै पञ्चहोतृरूपस्य परमात्मनः
शुष्ममाण्डकोशं प्रबलं ब्रह्माण्डावकाशस्थं प्राणं वायुविशेषमुल्वमाहुः, गर्भवेष्टनस्था-
नीयमाहुः । यथा लोके गर्भ उल्बेन वेष्टयते तथा सूत्रात्मशरीरं प्राणवायुना ब्रह्माण्ड-
स्येन वेष्टितं भवति । तेनामृतेन पञ्चहोतृरूपेण परमात्मनाऽहं कॢप्तो व्यवहारसमर्थ-
त्वेनोत्पादितोऽस्मि ।
अथ षड्ढोतृहृदयंमन्त्रः । तत्र प्रथमामृचमाह—
सु॒वर्णं॒ कोशं॒ रज॑सा परी॑वृतम् । दे॒वानां॒ वसु॑धानीं॒
वि॒राज॑म् (४) । अ॒मृत॑स्य पू॒र्णां ताꣳ॑ क॒लां
विच॑क्षते । पादꣳ॒ षड्ढोतु॑र्न किला॑ऽऽविवित्से, इति ।
वाग्रोतेति मन्त्रोऽत्र षड्ढोता, स च ब्रह्माण्डकोशमध्ये चन्द्ररूपेणावस्थितः । तं

१ ख. ग. ॰वं चतुर्होतु॰ । २ ख. ग. ॰तं चतुर्होतृ॰ । ३ ग ॰न्नथो लो॰ । ४ क. ॰स्थितो
ऽव॰ । ५ ख. ग. ॰स्य चतुर्होतृ॰ । ६ क. ॰तृदेवस्याऽऽण्डकोशं शुष्मं प्र॰ । ७ क ॰शस्थप्रा॰ ।
: ग. सूक्ष्मशरीरेण प्रा॰ । ९ ख. ॰रीरेण प्रा॰ । १० ख. ग. ॰ह्माण्डं वे॰ । ११ ग. ॰मन्त्राः। त॰ ।
२४