सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

[Page Header]
श्राद्धकाण्डे तिथिद्वैधनिर्णयः ४५


त्वपराह्ने रात्रौ वा पर्वसन्धिः तदा तदहरेव यागः, तत्रै-
वोपदिष्टकालसम्भवात् । एतत्सर्वमभिसन्धायोक्तम्—
आवर्तनात्प्राग्यदि पर्वसन्धिः
कृत्वा तु तस्मिन् प्रकृतिं विकृत्याः ।
तदैव यागः परतो यदि स्यात्
तस्मिन्विकृत्याः प्रकृतेश्च एव ॥
इति । एवं पशावपि द्रष्टव्यम् । अत एव तत्राप्युक्तम्—
अवागह्नो भवति नियतः पर्वसन्धिः पुरस्तात्
कृत्वा तस्मिन्नहनि तु पशून् सद्य एव द्वयहं वा ।
आरभ्याथ प्रकृतिरथ चेत्पर्वसन्धिः परस्तात्
कृत्वा तस्मिन्प्रकृतिमथ तु स्यात्पशुस्सद्य एव ॥
इति । पूर्वाह्नसन्धावुत्तरेद्युर्विहितकालासम्भवात्सद्य एवेत्युक्तम् ।
उपदेशस्तत्रापि द्वयहकालतामाह । तन्न यष्टव्यमित्यादिवचनावि-
रुद्धमित्युपेक्षणीयमेव ॥
इति स्मृतिचन्द्रिकायां पर्वनिर्णयः.


अथ प्रसङ्गात्तिथिद्वैधनिर्णयः.
तत्र स्कन्दपुराणं—
प्रतिपत्प्रभृतयस्सर्वा उदयादोदयाद्रवेः ।
सम्पूर्णा इति विख्याता हरिवासरवर्जिताः ॥

46 स्मृतिचन्द्रिकाया

इति । अत्र सम्पूर्णासु निस्सन्दिग्धमेव कर्मानुष्ठानम् । यत्र

पुनः क्षयवृद्धिभ्यां तिथिद्वैविध्यं तत्र निगमोक्तं-

युग्माग्नियुगभूतानां षण्मुन्योर्वसुरन्ध्रयोः ।

रुद्रेण द्वादशी युक्ता चतुर्दश्या च पूर्णिमा ॥

प्रतिपदाऽप्यमावास्या तिथ्योर्युग्मं महाफलम् ।

एतद्व्यस्तं महादोषं हन्ति पुण्यं पुराकृतम् ॥

इति । तत्र युग्मादिरन्ध्रान्त्यैः शब्दैः क्रमेण द्वितीयादिनव-

म्यन्तानां ग्रहणं, तिथ्योर्युग्ममित्यभिधानात् । रुद्र एकादशी ।

द्वितीयादिप्रतिपदन्तासु क्रमेण द्वयोर्द्वयोस्तिथ्योः परस्परमेव

युग्मं महाफलं, न पुनर्व्यस्ततिथ्यन्तरयुग्ममित्यर्थः । अनेनो-

क्तयुग्मतिथिसप्तके पूर्वा तिथिः उत्तरविद्धा ग्राह्या । उत्तरा

तु पूर्वविद्धेत्युक्तं भवति । तृतीयादिवद्दशमीत्रयोदश्यावपि

पूर्वविद्धे । तथाच पैठीनसिः-

पञ्चमी सप्तमी चैव दशमी च त्रयोदशी ।

प्रतिपन्नवमी चैव कर्तव्या संमुखा तिथिः ॥

इति । संमुखा पूर्वविद्धेत्यर्थः । 'संमुखा नाम सायाह्न्या-

पिनी दृश्यते यदा' इति स्कन्दपुराणे दर्शनात् । यत्तु

निगमवाक्ये तृतीयापौर्णमास्योः पूर्वविद्धत्वमुक्तं, तत् व्रत

विशेषाभिप्रायम् । अत एव ब्रह्मकैवर्ते-

रम्भाख्यां वर्जयित्वा तु तृतीयां द्विजसत्तम ।

अन्येषु सर्वकार्येषु गणयुक्ता प्रशस्यते ॥

श्राद्धकाण्डे तिथिद्वैधनिर्णयः 47
भूतविद्धा न कर्तव्या अमा पूर्णा कदाचन ।
वर्जयित्वा मुनिश्रेष्ठ सावित्रीव्रतमुत्तमम् ॥
इति । रम्भाख्यां तृतीयां रम्भातृतीयाख्यं व्रतमित्यर्थः ।
गणयुक्ता चतुर्थीयुक्ता अमा अमावस्या एवञ्च यदुक्तं ना-
रदीयपुराणे-
दर्शं च पूर्णमासं च पितुस्सांवत्सरं दिनम् ।
पूर्वविद्धमकुर्वाणो नरकं प्रतिपद्यते ॥
इति, तदपि सावित्रीव्रतविषयमित्यनुसन्धेयम् । उपवासे तु प-
रान्वितैव ग्राह्या । तथाच वृहस्पतिः-
एकादश्यष्टमी षष्ठी पौर्णमासी चतुर्दशी ।
अमावस्या तृतीया च ता उपोष्याः परान्विताः ॥
इति । वृद्धवसिष्ठोऽपि-
द्वितीया पञ्चमी वेधात् दशमी च त्रयोदशी ।
चतुर्दशी चोपवासे हन्युः पूर्वोत्तरे तिथी ॥
उपवासे सप्तमी तु वेधाद्धन्त्युत्तरं दिनम् ।
इति । द्वितीयाद्यास्तिथयो वेधात् उपवासे स्वपूर्वोत्तरे तिथी
हन्युः, सप्तमी तु स्वोत्तरामेवेत्यर्थः । अनेन प्रतिपत्तृतीया च
द्वितीयाविद्धे न ग्राह्ये इत्युक्तं भवति । एवं पञ्चम्यादिष्वपि
द्रष्टव्यम् । एवञ्च यन्निगमवाक्ये चतुर्थ्या उत्तरविद्धत्वमुक्तं,
तदुपवासव्यतिरिक्तविषयमित्यवगन्तव्यम्, अस्मिन्वाक्ये पूर्व-
विद्धाया उपादेयत्वस्मरणात् । यदपि ब्रह्मकैवर्ते-

48 स्मृतिचन्द्रिकायां
प्रतिपत्संमुखा कार्या द्वितीया द्विजसत्तम ।
इति प्रतिपद्विद्धाया उपादेयत्वमुक्तं, तदप्युपवासव्यतिरिक्त-
विषयम् । उपवासे परविद्धाया एवोपादेयत्वस्मरणात् । त-
थाच श्रीविष्णुपुराणे—
एकादश्यष्टमी षष्ठी द्वितीया च चतुर्दशी ।
अमावास्या तृतीया च उपोष्यास्स्युः परान्विताः ॥
इति । अत्र चतुर्दश्यां परविद्धत्वं शुक्लपक्षाभिप्रायम् । अत
एव निगमः—
एकादश्यष्टमी षष्ठी शुक्लपक्षे चतुर्दशी ।
पुण्याः परेण संयुक्ताः पराः पूर्वेण संयुताः ॥
इति । परा अनन्तरा इत्यर्थः ।
नागविद्धा तु या षष्ठी रुद्रविद्धो दिवाकरः ।
कामविद्धो भवेद्विष्णुर्न ग्राह्यास्तेषु वासराः ॥
नवम्येकादशी चैव दिशा विद्धा यदा भवेत् ।
तदा वर्ज्या विशेषेण गङ्गाम्भः श्वदृतौ यथा ॥
इति पुराणस्मरणात् । नागः पञ्चमी रुद्रोऽष्टमी दिवाकरस्स-
प्प्तमी कामस्त्रयोदशी । विष्णुः द्वादशी । दिक् दशमी ।
एवमष्टम्यपि द्रष्टव्या । अत एव स्मृत्यन्तरं—
कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्दशी ।
पूर्वविद्धा तु कर्त्तव्या परविद्धा न कस्यचित् ॥
शुक्लपक्षेऽष्टमी चैव शुक्लपक्षे चतुर्दशी ।

श्राद्धकाण्डे तिथिद्वैधनिर्णयः 49
पूर्वविद्धा न कर्तव्या कर्तव्या परसंयुता ॥
उपवासादिकार्येषु ह्येष धर्मस्सनातनः ।
इति । त्रयोदश्याः परविद्धत्वं कृष्णपक्षाभिप्रायम् । अत एव
निगमः—
षष्ठ्यष्टमी तथा दर्शः कृष्णपक्षे त्रयोदशी ।
एताः परयुताः पूज्याः पराः पूर्वयुतास्तथा ॥
परा अनन्तरा इत्यर्थः । एवञ्च यदुक्तं मार्कण्डेयेन—
शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितो रविः ।
कृष्णपक्षे तिथिर्ग्राह्या यस्यामस्तमितो रविः ॥
इति, तत् शुक्लकृष्णपक्षव्यवस्थया व्यवस्थितचतुर्दश्यादिविषय-
मित्यवगन्तव्यम् । यदपि देवेनोक्तं—
यां तिथिं समनुप्राप्य उदयं याति भास्करः ।
सा तिथिस्सकला ज्ञेया स्नानदानजपादिषु ॥
इति, तत् यासां तिथीनामुत्तरविद्धानामुपादेयत्वमुक्तं तद्विष-
यम् । यदपि तेनैवोक्तं—
यां तिथिं समनुप्राप्य अस्तं याति दिवाकरः ।
सा तिथिस्सकला ज्ञेया दानाध्ययनकर्मसु ॥
इति, तदपि यास्तिथयः पूर्वविद्धास्सत्यो ग्राह्याः तद्विषयम्।
सकला संपूर्णेत्यर्थः । एतच्च उदयव्यापिन्यास्तिथेरल्पत्वेन
तिथ्यन्तरानुष्ठानेऽपि तस्यामेव तिथावनुष्ठितं भवतीति वक्तुम्।
अनेनैवाभिप्रायेण भविष्यत्पुराणेऽपि—
SMRITI CHA.—Vol. V 7

50 स्मृतिचन्द्रिकायां

व्रतोपवासनियमे घटिकैका यदा भवेत् ।
सा तिथिसकला ज्ञेया पित्रर्थे चापराह्णिकी ॥
इति । अतोऽन्यत्र कर्मानुष्ठाने तिथिवृद्धिह्रासाभ्यामुपयोग
इति निर्णयः । उक्तं च विष्णुधर्मोत्तरे—
सा तिथिस्तदहोरात्रं यस्यामस्तमितो रविः ।
तदा कर्माणि कुर्वीत ह्रासवृद्धी न कारणम् ॥
इति । यदा तु नोत्तरेद्युः उदयव्यापिनी किंतु पूर्वेद्युः नि-
षिद्धतिथिविद्धैव, तदा स्मृत्यन्तरोक्तं—
एकादशी तृतीया च षष्ठी चैव त्रयोदशी ।
पूर्वविद्धा तु कर्तव्या यदि न स्यात्परेऽहनि ॥
इति । एवञ्च यदुक्तं—
वर्धमानस्य पक्षस्य उदयात्पूज्यते तिथिः ।
यदा पक्षः क्षयं याति तदा स्यादापराह्णिकी ॥
इति, तत्र पक्षक्षये प्रायेण परेद्युरुदयव्यापिन्या असंभावात्पू-
र्वविद्धैव परिग्राह्येति पूर्ववचनेन समानार्थम् । अत्र विशेष-
माह ऋश्यशृङ्गः—
अविद्धानि निषिद्धैश्च न लभ्यन्ते दिनानि तु ।
मुहूर्तैः पञ्चभिर्विद्धा ग्राह्यैवैकादशी तिथिः ॥
तदर्धविद्धान्यन्यानि दिनान्युपवसेन्नरः ।
इति । निषिद्धैर्दिनैरविद्धानि दिनानि यदि न लभ्यन्ते तदो-

श्राद्धकाण्डे तिथिद्वैधनिर्णयः 51
क्तलक्षणानि ग्राह्याणीत्यर्थः । यदा चैवंविधाऽपि तिथिः न ल-
भ्यते तदाऽपि तेनैवोक्तं—
अविद्धानामलाभे तु पयोदधिघृतेन वा ।
सकृद्देवालपमश्नीयादुपवासस्त्वसौ भवेत् ॥
इति । सा तिथिसकला ज्ञेयेत्यस्य क्वचिदपवादमाह नारदीय
पुराणे वसिष्ठः—
पारणे मरणे नॄणां तिथिस्तात्कालिकी स्मृता ।
पित्र्येऽस्तमयवेळायां स्पृष्टा पूर्णा निगद्यते ॥
इति । पारणे मरणे वा तात्कालिक्येव तिथिः न पुनस्सा
तिथिः सकला ज्ञेयेत्येतद्भवतीत्यर्थः । एवं मन्वादावापि द्रष्ट-
व्यम् । अत एव स्कन्दपुराणं—
मन्वादौ च युगादौ च ग्रहणे चन्द्रसूर्ययोः ।
व्यतीपाते च वैधृत्यां तत्काल्यापिनी तिथिः ।
नक्तव्रते च संप्राप्ते तत्कालव्यापिनी तिथिः ॥
इति । तस्य नक्तव्रतस्य यः कालः प्रदोषारख्यः तद्व्यापिनी
तिथिः ग्राह्येत्यर्थः । तथाच वसिष्ठः—
प्रदोषव्यापिनी ग्राह्या तिथिर्नक्तव्रते सदा ।
एकादशीं विना सर्वाः शुक्ले कृष्णे समास्स्मृताः ॥
इति । प्रदोषपरिमाणं तु स्कन्दपुराणे उक्तं—
उदयात्प्राक्तनी संध्या घटिकात्रयमुच्यते ।
सायंसंध्या त्रिघटिका अस्तादुपरि भास्वतः ॥

52 स्मृतिचन्द्रिकायां
त्रिमुहूर्तं प्रदोषस्स्याद्रवावस्तमिते ततः ॥
इति । यदत्र संध्याद्वये मौनादि कार्यं, तदेतावाति काले
कार्यमित्यभिप्रायः । यदा तु दिनद्वयेऽपि प्रदोषव्यापिनी ति-
थिर्न भवति, तदा तु स्कन्दपुराणोक्तं-
प्रदोषव्यापिनी न स्याद्दिवा नक्तं विधीयते ।
आत्मनो द्विगुणां छायामतिक्रामति भास्करे ॥
तन्नक्तं नक्तमित्याहुः न नक्तं निशि भोजनम् ।
एवं ज्ञात्वा ततो विद्वान् सायाह्ने तु भुजिक्रियाम् ॥
कुर्यान्नक्तव्रती नक्तफलं प्राप्नोति निश्चितम् ॥
इति । नक्षत्रोपवासे तु विष्णुनाक्तं-
उपोषितव्यं नक्षत्रं यस्मिन्नस्तमियाद्रविः ।
यत्र वा युज्यते राम निशीथश्शशिना सह ॥
इति । यत्र वा निशीथोऽर्धरात्रः शशिना नक्षत्रेणास्तमयादुप-
र्यारब्धेन संयुज्यते तद्वा नक्षत्रमुपोषितव्यमित्यर्थः । तथाच
सुमन्तुः-
यत्रार्धरात्रादर्वाक्तु नक्षत्रं प्राप्यते तिथौ ।
तन्नक्षत्रव्रतं कुर्यादतीते पारणं भवेत् ॥
इति । प्राप्यते प्रारभ्यत इत्यर्थः । अतीते तस्मिन्नक्षत्र इति
शेषः । एवं तिथिप्रयुक्तोपवासेऽपि द्रष्टव्यम् ।
तिथिनक्षत्रनियमे तिथिभान्ते च पारणम् ।
अतोऽन्यथा पारणात्तु व्रतभङ्गमवाप्नुयात् ॥

श्राद्धकाण्डे एकादशीमहिमा ५३

इति स्मरणात् । एतन्नक्षत्रयुक्तोपवासविषयम् । नक्षत्रयुक्तायां

तिथौ श्रीविष्णुपुराणे उक्तं-

याः काश्चित्तिथयः प्रोक्ताः पुण्या नक्षत्रयोगतः ।

तास्वेव तद्व्रतं कुर्याच्छ्रवणद्वादशीं विना ॥

इति । कथं तर्हि श्रवणद्वादश्यामित्यपेक्षिते मत्स्यपुराणं-

द्वादश्यां शुक्लपक्षस्य नक्षत्रं श्रवणं यदि ।

उपोष्यैकादशीं तत्र द्वादश्यां पूजयेद्धरिम् ॥ इति ॥

इति स्मृतिचन्द्रिकायां तिथिद्वैधनिर्णयः.

अथ तिथिप्रसङ्गादेकादश्यपि निर्णयते.

तत्रादौ एकादशीमहिमा । तत्र नारदीयपुराणे वसिष्ठः-

एकादशीसमुत्थेन वह्निना पातकेन्धनम् ।

भस्मतां याति राजेन्द्र अपि जन्मशतोद्भवम् ॥

नेदृशं पावनं किञ्चिन्नराणां भूप विद्यते ।

यादृशं पद्मनाभस्य दिनं पातकहानिदम् ॥

तावत्पापानि देहेऽस्मिन् तिष्ठन्ति मनुजाधिप ।

यावन्नोपवसेज्जन्तुः पद्मनाभदिनं शुभम् ॥

अश्वमेधसहस्राणि वाजपेयशतानि च ।

एकादश्युपवासस्य कलां नार्हन्ति षोडशीम् ॥

एकादशेन्द्रियैः पापं यत्कृतं भवति प्रभो ।

54 स्मृतिचन्द्रिकायां

एकादश्युपवासेन तत्सर्वं विलयं नयेत् ॥

एकादशीसमं किञ्चित्पापत्राणं न विद्यते ।

स्वर्गमोक्षप्रदा ह्येषा राज्यपुत्रप्रसाधिनी ॥

सुकलत्रप्रदा ह्येषा शरीरारोग्यदायिनी ।

न गङ्गा न गया भूप न काशी न च पुष्करम् ॥

न चापि कौरवक्षेत्रं न रेवा न च देविका ।

यमुना चन्द्रभागा च तुल्या न च हरेर्दिनात् ॥

अनायासेन राजेन्द्र प्राप्यते वैष्णवं पदम् ।

चिन्तामणिसमा ह्येषा अथवाऽपि निधेस्समा ॥

सा कल्पपादपमुख्या देवगोरुपमाऽथवा ।

नारदोऽपि-

एकामेकादशीं वाऽपि समुपोष्य जनार्दनम् ।

कामेनापि समभ्यर्च्य संसारान्मुक्तिमाप्नुयात् ॥

प्रसङ्गादथवा दम्भाल्लोभाद्वा त्रिदशाधिप ।

एकादश्यामनश्नन् यः सर्वदुःखाद्विमुच्यते ॥ इति ॥

इति स्मृतिचन्द्रिकायामेकादशीमहिमा.

अथैकादशीनिर्णयः.

तत्र देवलः-

न शङ्खेन पिबेत्तोयं नाश्नीयात्कूर्मसूकरौ ।

एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ॥

श्राद्धकाण्डे एकादशीनिर्णयः 55
कात्यायनोपि-
यानिकानि च पापानि ब्रह्महत्यासमानि च ।
अन्नमाश्रित्य तिष्ठन्ति सम्प्राप्ते हरिवासरे ॥
रटन्तीह पुराणानि भूयो भूयो वरानने ।
न भोक्तव्यं न भोक्तव्यं संप्राप्ते हरिवासरे ॥
इति । न भोक्तव्यं उपोषितव्यमित्यर्थः । अत एव नारदः-
नित्यं भक्तिसमायुक्तैर्नरैर्विष्णुपरायणैः ।
पक्षे पक्षे तु कर्तव्यमेकादश्यामुपोषणम् ॥
इति । अत्रोपोषणं नित्यं कर्तव्यमित्यन्वयः । अनेनैकाद-
शीव्रतस्य नित्यत्वमुक्तं भवति । अत एवाकरणे दोषः पु-
राणे दर्शितः-
प्रतिग्रासं स भुङ्क्तेऽन्नं किल्बिषं श्वानविट्समम् ।
एकादश्यां सुरश्रेष्ठ यो भुङ्क्ते द्विजन्मवान् ॥
एकादश्यां तु यो भुङ्क्ते शक्तिमान्निरुपद्रवः ।
सुरापानसमं पापं भवेत्तस्य न संशयः ॥
मद्यपानात्सुरश्रेष्ठ पातैव नरकं व्रजेत् ।
एकादश्यन्नकामस्तु पितृभिस्सह मज्जाति ॥
इति । अतः पक्षद्वयेऽप्येकादश्यामुपवसेदिति भावः । एतच्च
पक्षद्वयोपवासविधानं वनस्थादिविषयम् । अत एव गोभिलः-
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ।
वनस्थयतिधर्मोऽयं शुक्लामेव सदा गृही ॥

६७(67) or६८(68) or६५(65)? Let's look at the shape:६and then५(looks like५in old Devanagari, or७or८? No, it's ६५(65). Let's write६५` as the page number.

  • Header middle: स्मृ (Smri) with a line above it, and १ or । on the right. Let's write ६५ on the left, स्मृ in the middle, and । on the right.
  1. Line-by-Line Transcription:
    • ६५ स्मृ । (Header)
    • इति । एवं ब्रह्मचर्यादेरपि द्रष्टव्यम् । अत एव स्मृत्य-
    • न्तरं—
    • एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ।
    • ब्रह्मचारी च नारी च शुक्लामेव सदा गृही ॥
    • इति । गृही पुत्रवानिति शेषः, तस्य कृष्णैकादश्यामुपवा-
    • सनिषेधस्मरणात्—

तन्निमित्तोपवासस्य निषेधोऽयमुदाहृतः ।
नानुषङ्गकृतो ग्राह्यो यतो नित्यमुपोषणम् ॥
इति । तन्निमित्तस्य आदित्यवारादिनिमित्तस्य प्रतिषेधः, न
पुनरेकादश्यामादित्यवाराद्यन्वयनिबन्ध्नोपवासनिषेधः, यत ए-
कादश्यां नित्यमुपोषणमित्यर्थः । केचित्—अस्यैकादशीप्रकर-
णपाठात्तच्छब्दस्य प्रकरणसन्निहितैकादशीपरत्वादनुषङ्गकृत इ-
त्यस्य कृच्छ्रमासोपवासपरत्वादृहिणः पुत्रवतः सङ्क्रान्त्यादि-
युक्तायामेकादश्यामुपवासनिषेधपरमेतदिति वर्णयन्ति । तन्म-
न्दं—वाक्यसन्निधेः प्रकरणसन्निधितश्शीघ्रभावित्वात् । अन्यथा
एकादश्यां राहुदर्शनासम्भवेन तत्र कथं तच्छब्दोपपत्तिः ।
अथ राहुदर्शनमात्रपरत्वं तर्हि सकृदुच्चरितस्यार्थद्वयपरत्वमिति
वैरूप्यं स्यात्, अतः पूर्वोक्तैव व्याख्या ज्यायसी । अत एव
नारदः—
भानुवारसमोपेता तथा सङ्क्रान्तिसंयुता ।
एकादशी सदोपोष्या पुत्रपौत्रप्रवर्धिनी ॥
पुराणेऽपि—
एकादश्यां यदा वत्स आदित्यस्य दिनं भवेत् ।
तत्रोपोष्या प्रयत्नेन पुत्रपौत्रविवर्धिनी ॥
अन्ये—गृहिणः पुत्रवतः शुक्लैकादश्यामुपवासः कृष्णैकादश्यां
नियमरहितमभोजनमात्रमिति वदन्ति, तत् स्वबुद्धिमात्रपरि-
कल्पितमित्युपेक्षणीयम् । यत्तु नारदीयपुराणे रुक्माङ्गदस्य पुत्र-
SMRITI CHA.—VOL. V. 8

58 स्मृतिचन्द्रिकायां

पौत्रवतो हरिवासरमात्रोपवासनिषेधाय ब्रह्माणं प्रति यम-

वचनं-

मनुष्याः पितृभिस्सार्धं तथैव च पितामहैः ।

तेषामपीह पितरः पितृणां पितरस्तथा ॥

अथ मातामहा यान्ति तेषां ये जनकास्तथा ।

तेषामपि जनयितारो जनितृणां तु पूर्वजाः ॥

प्रयान्ति वैष्णवं लोकमुपोष्य हरिवासरम् ।

एष दण्डः पटो ह्येष तव पद्ध्यां नियोजितः ।

लोकपालत्वमतुलमार्जितं येन भूभुजा ।

तमेकं वदतां श्रेष्ठ सम्प्राप्ते हरिवासरे ॥

यदि चालयसे धैर्यात्ततोऽहं तव किङ्करः ॥

इति, तत्रापि हरिवासरग्रहणं रुक्माङ्गदस्य विहितैकादशीप-

रमित्यवगन्तव्यम् । अतो गृहिणः पुत्रवतः शुक्लैकादश्यामुप-

वासः इतरेषां तु उभयोरिति सिद्धम् । एवञ्च यदुक्तं वि-

ष्णुधर्मोत्तरे-

ब्रह्महा स भवेत् स्तेनः सुरापो गुरुतल्पगः ।

विवेचयति यो मोहादेकादश्योस्सितासिते ॥

इति, यदपि पुराणे-

मातृहा पितृहा चैव भ्रातृहा गुरुहा तथा ।

एकादश्यां तु भुञ्जानः पक्षयोरुभयोरपि ॥

इति, तत् पुत्रवद्गृहिंव्यतिरिक्तविषयमित्यनुसन्धेयम् । एवमुक्त-

रीत्या व्यवस्थासम्भवेऽपि केचित् ‘न कुर्यात्पुत्रवान् गृही’
इत्येवमादीनां काम्योपवासविषयत्वं परिकल्प्य गृहिणः पुत्र-
वतोऽपि कृष्णैकादश्यामप्युपवासं वर्णयन्ति । यदत्र युक्तं
तद्ग्राह्यम् । यत्पुनरापस्तम्बेनोक्तं—
आहिताग्निरनड्वांश्च ब्रह्मचारी च ते त्रयः ।
अश्नन्त एव सिद्ध्यन्ति नैषां सिद्धिरनश्नताम् ॥
इति, तत् एकादशीव्यतिरिक्तविषयम् । अत एवाग्निपुराणं—
गृहस्थो ब्रह्मचारी च आहिताग्निस्तथैव च ।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ॥
इति । यदपि पुराणे—
श्राद्धे जन्मदिने चैव सङ्क्रान्त्यां राहुसूतके ।
उपवासं न कुर्वीत यदीच्छेच्छ्रेय आत्मनः ॥
इति श्राद्धे उपवासनिषेधपरं च वचनं, तदप्येकादशीव्यति-
रिक्तविषयम् । अत एव स्मृत्यन्तरं—
उपवासो यदा नित्यः श्राद्धं नैमित्तिकं भवेत् ।
उपवासं तदा कुर्यादाघ्राय पितृसेवितम् ॥
इति । उपवासलक्षणं व्यासेनोक्तं—
उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैस्सह ।
उपवासस्स विज्ञेयो सर्वभोगविवर्जितः ॥
इति । पापेभ्य उपावृत्तस्य गुणैरेकभक्तादिनियमैस्सह यो

60 स्मृतिचन्द्रिकाया

वासः ताम्बूलादिभोगरहित उपवास इत्यर्थः । ते च गुणा

नारदीयपुराणे दर्शिताः-

तस्यैवं क्रीडमानस्य मोहिन्या सह पार्थिव ।

रुक्माङ्गदस्य श्रोत्राभ्यां पटहध्वनिरागतः ॥

मत्तेभकुम्भसंस्थस्तु धर्माङ्गदमते स्थितः ।

प्रातर्हरिदिनं लोकास्तिष्ठध्वं चैकभोजनाः ॥

अक्षारलवणास्सर्वे हविष्यान्ननिषेविणः ।

अवनीतलशयनाः प्रियासङ्गविवर्जिताः ॥

स्मरध्वं देवमीशानं पुराणं पुरुषोत्तमम् ।

सकृद्भोजनयुक्ताश्च उपवासे भविष्यथ ॥

अष्टवर्षाधिको मर्त्यो ह्यशीतिर्न हि पूर्यते ।

यो भुङ्क्ते मामके राष्ट्रे विष्णोरहनि पापकृत् ॥

स मे वध्यश्च दण्ड्यश्च निर्वास्यो विषयाद्बहिः ।

इति । उपवासे कृते द्वादश्यामित्यर्थः । देवलोपि-

दशम्यामेकभुक्तस्तु मांसमैथुनवर्जितः ।

एकादश्यामुपवसेत्पक्षयोरुभयोरपि ॥

ब्रह्मचर्यं तथा शौचं सत्यमामिषवर्जनम् ।

व्रतेष्वेतानि चत्वारि वरिष्ठानीति निश्चयः ।)

स्त्रीणां तु प्रेक्षणात् स्पर्शात्ताभिस्संकथनादपि ।

निष्यन्दते ब्रह्मचर्यं न दारेष्वृतुसङ्गमात् ॥

असकृज्जलपानाच्च सकृत्ताम्बूलचर्वणात् ।

श्राद्धकाण्डं । यः : 61
उपवासो विनश्येत दिवास्वापाच्च मैथुनात् ॥
व्यासोऽपि-
पुष्पालङ्कारवस्त्राणि गन्धधूपानुलेपनम् ।
उपवासे न दुष्येत दन्तधावनमञ्जनम् ॥
इति । एतत् पुण्यजनकौपवासे स्त्रीविषयमिति कैश्चिदुक्तम् ।
दन्तधावनमत्र पर्णादिना, न काष्ठेन-
उपवासे तथा श्राद्धे न खादेद्दन्तधावनम् ।
दन्तानां काष्ठसंयोगः हन्ति सप्त कुलान्यपि ॥
इति तेनैवोक्तत्वात् । विष्णुरपि- 'पतितपाषण्डसंभाषणानृत
स्तेयादिकं वर्जयेत्' इति । कूर्मपुराणेऽपि-
कांस्यं मांसं मसूरं च चणकं कोद्रवाषकान् ।
शाकं मधु परान्नं च त्यजेदुपवसन् स्त्रियम् ॥
इति । उपवसन् उपवत्स्यन्नित्यर्थः । अतो दशम्यामेते नि-
यमाः । स्मृत्यन्तरेऽपि-
असत्यभाषणं द्यूतं दिवास्वापं च मैथुनम् ।
एकादश्यां न कुर्वीत उपवासपरो नरः ॥
इति । ब्रह्माण्डपुराणेऽपि-
कांस्यं मांसं सुरां क्षौद्रं तैलं वितथभाषणम् ।
व्यवायं च प्रवासं च दिवास्वापमथाञ्जनम् ॥
तिलपिष्टं मसूरं च द्वादशैतानि वैष्णवः ।

62 स्मृतिचां ॥
द्वादश्यां वर्जयेन्नित्यं सर्वपापैः प्रमुच्यते ॥
बृहस्पतिरपि—
दिवानिद्रां परान्नं च पुनर्भोजनमैथुने ।
क्षौद्रं कांस्यामिषं तैलं द्वादश्यामष्ट वर्जयेत् ॥
अङ्गिरा अपि—
सायमाद्यन्तयोरह्नोस्सायं प्रातश्च मध्यमे ।
उपवासफलप्रेप्सुर्जह्याद्भक्तचतुष्टयम् ॥
इति । न चात्र फलश्रवणात् काम्योपवासविषयमिति शङ्कनी-
यं, नित्येऽप्युपात्तदुरितक्षयादिफलसंबन्धात् । केचित्तु—नित्ये
फलाभावाद्यान्येकभक्तादीनि तानि—
य इच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमेव च ।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ॥
इत्यादिविहितकाम्योपवासविषयाणीति वर्णयन्ति । यदत्र युक्तं
तद्ग्राह्यम् । अत्रोपवासग्रहणविधिमाह देवलः—
गृहीत्वौदुम्बरं पात्रं वारिपूर्णमुदङ्मुखः ।
उपवासं तु गृह्णीयात् यद्वा सङ्कल्पयेद्बुधः ॥
इति । औदुम्बरं ताम्रमयं पात्रं जलपूर्णं उदङ्मुखः आ-
दाय उपवासं गृह्णीयात्, यद्वा सङ्कल्पयेत् सङ्कल्पमात्रं कुर्या-
दित्यर्थः । अत्र पात्रग्रहणं प्रथमसङ्कल्पविषयं काम्योपवास-
विषयं चेति कैश्चिदुक्तम् । सङ्कल्पमन्त्रोऽपि तेनैव दर्शितः—

श्राद्धकाण्डे एकादशीनिर्णयः 63
एकादश्यां निराहारो भूत्वाऽहमपरेऽहनि ।
भोक्ष्यामि पुण्डरीकाक्ष गतिर्मम भवाच्युत ॥
इति । विष्णुस्तु मन्त्रान्तरमाह—
एकादश्यां निराहारः स्थित्वाऽहमपरेऽहनि ।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत ॥
इति । मन्त्रोच्चारणानन्तरं कात्यायनः—
इत्युच्चार्य ततो विद्वान् पुष्पाञ्जलिमथार्पयेत् ।
इति । एवमुपवाससमर्पणमपि द्रष्टव्यम् । तदाह नारदः—
मन्त्रमुच्चार्य यत्नेन पुष्पाञ्जलिमथार्पयेत् ।
अज्ञानतिमिरान्धस्य व्रतेनानेन केशव ॥
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव ।
एवं समर्पयेद्विद्वान्पारणं समनन्तरम् ॥
इति । एतच्च सूतकादावपि कार्यम् । तदुक्तं विष्णुरहस्ये—
परमापदमापन्नो हर्षे वा समुपस्थिते ।
सूतके मृतके वाऽपि न त्याज्यं द्वादशीव्रतम् ॥
इति । अत्र वराहपुराणोक्तो विशेषः—
सूतके तु नरस्स्त्रात्वा प्रणम्य मनसा हरिम् ।
एकादश्यां न भुञ्जीत व्रतमेतन्न लुप्यते ॥
द्वादश्यां तु ततो भुक्त्वा सूतकान्ते जनार्दनम् ।
पूजयित्वा विधानेन पूजयेच्च द्विजोत्तमान् ॥

64 स्मृतिचन्द्रिकायां
मृतकेऽपि न भुञ्जीत एकादश्यां सदा नरः ।
द्वादश्यां तु समश्नीयात्स्नात्वा विष्णुं प्रणम्य च ॥
इति । उपवासाशक्तौ तु विष्णुरहस्योक्तं —
असामर्थ्ये शरीरस्य व्रते च समुपस्थिते ।
कारयेद्धर्मपत्नीं तु पुत्रं वा विनयान्वितम् ॥
कात्यायनोऽपि—
पितुर्मातुर्भ्रातुरर्थे आचार्यार्थे विशेषतः ।
उपवासं तु कुर्वाणः पुण्यं शतगुणं लभेत् ॥
यमुद्दिश्य कृतो विद्वान् सोपि संपूर्णमाप्नुयात् ।
नारी स्वपतिमुद्दिश्य एकादश्यामुपोषिता ।
पुण्यं शतगुणं प्राहुः मुनयः पारदर्शिनः ॥
उपवासफलं तस्याः पतिः प्राप्नोत्यसंशयः ॥
इति । अथवा स्मृत्यन्तरोक्तं—
उपवासे त्वशक्तानामशीतेरूर्ध्वजीविनाम् ।
एकभुक्तादिका कार्येत्याह बोधायनो मुनिः ॥
अनेनैवाभिप्रायेण मार्कण्डेयोऽपि—
एकभक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन दानेन न निर्द्वादशिको भवेत् ॥
नक्ते तु विशेषमाह व्यासः—
हविष्यभोजनं स्नानं सत्यमाहारलाघवम् ।