स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 66, कुल 474 में से
संदर्भ में पढ़ें46 स्मृतिचन्द्रिकाया
इति । अत्र सम्पूर्णासु निस्सन्दिग्धमेव कर्मानुष्ठानम् । यत्र
पुनः क्षयवृद्धिभ्यां तिथिद्वैविध्यं तत्र निगमोक्तं-
युग्माग्नियुगभूतानां षण्मुन्योर्वसुरन्ध्रयोः ।
रुद्रेण द्वादशी युक्ता चतुर्दश्या च पूर्णिमा ॥
प्रतिपदाऽप्यमावास्या तिथ्योर्युग्मं महाफलम् ।
एतद्व्यस्तं महादोषं हन्ति पुण्यं पुराकृतम् ॥
इति । तत्र युग्मादिरन्ध्रान्त्यैः शब्दैः क्रमेण द्वितीयादिनव-
म्यन्तानां ग्रहणं, तिथ्योर्युग्ममित्यभिधानात् । रुद्र एकादशी ।
द्वितीयादिप्रतिपदन्तासु क्रमेण द्वयोर्द्वयोस्तिथ्योः परस्परमेव
युग्मं महाफलं, न पुनर्व्यस्ततिथ्यन्तरयुग्ममित्यर्थः । अनेनो-
क्तयुग्मतिथिसप्तके पूर्वा तिथिः उत्तरविद्धा ग्राह्या । उत्तरा
तु पूर्वविद्धेत्युक्तं भवति । तृतीयादिवद्दशमीत्रयोदश्यावपि
पूर्वविद्धे । तथाच पैठीनसिः-
पञ्चमी सप्तमी चैव दशमी च त्रयोदशी ।
प्रतिपन्नवमी चैव कर्तव्या संमुखा तिथिः ॥
इति । संमुखा पूर्वविद्धेत्यर्थः । 'संमुखा नाम सायाह्न्या-
पिनी दृश्यते यदा' इति स्कन्दपुराणे दर्शनात् । यत्तु
निगमवाक्ये तृतीयापौर्णमास्योः पूर्वविद्धत्वमुक्तं, तत् व्रत
विशेषाभिप्रायम् । अत एव ब्रह्मकैवर्ते-
रम्भाख्यां वर्जयित्वा तु तृतीयां द्विजसत्तम ।
अन्येषु सर्वकार्येषु गणयुक्ता प्रशस्यते ॥