सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 73, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 73

श्राद्धकाण्डे एकादशीमहिमा ५३

इति स्मरणात् । एतन्नक्षत्रयुक्तोपवासविषयम् । नक्षत्रयुक्तायां

तिथौ श्रीविष्णुपुराणे उक्तं-

याः काश्चित्तिथयः प्रोक्ताः पुण्या नक्षत्रयोगतः ।

तास्वेव तद्व्रतं कुर्याच्छ्रवणद्वादशीं विना ॥

इति । कथं तर्हि श्रवणद्वादश्यामित्यपेक्षिते मत्स्यपुराणं-

द्वादश्यां शुक्लपक्षस्य नक्षत्रं श्रवणं यदि ।

उपोष्यैकादशीं तत्र द्वादश्यां पूजयेद्धरिम् ॥ इति ॥

इति स्मृतिचन्द्रिकायां तिथिद्वैधनिर्णयः.

अथ तिथिप्रसङ्गादेकादश्यपि निर्णयते.

तत्रादौ एकादशीमहिमा । तत्र नारदीयपुराणे वसिष्ठः-

एकादशीसमुत्थेन वह्निना पातकेन्धनम् ।

भस्मतां याति राजेन्द्र अपि जन्मशतोद्भवम् ॥

नेदृशं पावनं किञ्चिन्नराणां भूप विद्यते ।

यादृशं पद्मनाभस्य दिनं पातकहानिदम् ॥

तावत्पापानि देहेऽस्मिन् तिष्ठन्ति मनुजाधिप ।

यावन्नोपवसेज्जन्तुः पद्मनाभदिनं शुभम् ॥

अश्वमेधसहस्राणि वाजपेयशतानि च ।

एकादश्युपवासस्य कलां नार्हन्ति षोडशीम् ॥

एकादशेन्द्रियैः पापं यत्कृतं भवति प्रभो ।