सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 75, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 75

श्राद्धकाण्डे एकादशीनिर्णयः 55
कात्यायनोपि-
यानिकानि च पापानि ब्रह्महत्यासमानि च ।
अन्नमाश्रित्य तिष्ठन्ति सम्प्राप्ते हरिवासरे ॥
रटन्तीह पुराणानि भूयो भूयो वरानने ।
न भोक्तव्यं न भोक्तव्यं संप्राप्ते हरिवासरे ॥
इति । न भोक्तव्यं उपोषितव्यमित्यर्थः । अत एव नारदः-
नित्यं भक्तिसमायुक्तैर्नरैर्विष्णुपरायणैः ।
पक्षे पक्षे तु कर्तव्यमेकादश्यामुपोषणम् ॥
इति । अत्रोपोषणं नित्यं कर्तव्यमित्यन्वयः । अनेनैकाद-
शीव्रतस्य नित्यत्वमुक्तं भवति । अत एवाकरणे दोषः पु-
राणे दर्शितः-
प्रतिग्रासं स भुङ्क्तेऽन्नं किल्बिषं श्वानविट्समम् ।
एकादश्यां सुरश्रेष्ठ यो भुङ्क्ते द्विजन्मवान् ॥
एकादश्यां तु यो भुङ्क्ते शक्तिमान्निरुपद्रवः ।
सुरापानसमं पापं भवेत्तस्य न संशयः ॥
मद्यपानात्सुरश्रेष्ठ पातैव नरकं व्रजेत् ।
एकादश्यन्नकामस्तु पितृभिस्सह मज्जाति ॥
इति । अतः पक्षद्वयेऽप्येकादश्यामुपवसेदिति भावः । एतच्च
पक्षद्वयोपवासविधानं वनस्थादिविषयम् । अत एव गोभिलः-
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ।
वनस्थयतिधर्मोऽयं शुक्लामेव सदा गृही ॥