सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 77, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 77

तन्निमित्तोपवासस्य निषेधोऽयमुदाहृतः ।
नानुषङ्गकृतो ग्राह्यो यतो नित्यमुपोषणम् ॥
इति । तन्निमित्तस्य आदित्यवारादिनिमित्तस्य प्रतिषेधः, न
पुनरेकादश्यामादित्यवाराद्यन्वयनिबन्ध्नोपवासनिषेधः, यत ए-
कादश्यां नित्यमुपोषणमित्यर्थः । केचित्—अस्यैकादशीप्रकर-
णपाठात्तच्छब्दस्य प्रकरणसन्निहितैकादशीपरत्वादनुषङ्गकृत इ-
त्यस्य कृच्छ्रमासोपवासपरत्वादृहिणः पुत्रवतः सङ्क्रान्त्यादि-
युक्तायामेकादश्यामुपवासनिषेधपरमेतदिति वर्णयन्ति । तन्म-
न्दं—वाक्यसन्निधेः प्रकरणसन्निधितश्शीघ्रभावित्वात् । अन्यथा
एकादश्यां राहुदर्शनासम्भवेन तत्र कथं तच्छब्दोपपत्तिः ।
अथ राहुदर्शनमात्रपरत्वं तर्हि सकृदुच्चरितस्यार्थद्वयपरत्वमिति
वैरूप्यं स्यात्, अतः पूर्वोक्तैव व्याख्या ज्यायसी । अत एव
नारदः—
भानुवारसमोपेता तथा सङ्क्रान्तिसंयुता ।
एकादशी सदोपोष्या पुत्रपौत्रप्रवर्धिनी ॥
पुराणेऽपि—
एकादश्यां यदा वत्स आदित्यस्य दिनं भवेत् ।
तत्रोपोष्या प्रयत्नेन पुत्रपौत्रविवर्धिनी ॥
अन्ये—गृहिणः पुत्रवतः शुक्लैकादश्यामुपवासः कृष्णैकादश्यां
नियमरहितमभोजनमात्रमिति वदन्ति, तत् स्वबुद्धिमात्रपरि-
कल्पितमित्युपेक्षणीयम् । यत्तु नारदीयपुराणे रुक्माङ्गदस्य पुत्र-
SMRITI CHA.—VOL. V. 8