स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 69, कुल 474 में से
संदर्भ में पढ़ेंश्राद्धकाण्डे तिथिद्वैधनिर्णयः 49
पूर्वविद्धा न कर्तव्या कर्तव्या परसंयुता ॥
उपवासादिकार्येषु ह्येष धर्मस्सनातनः ।
इति । त्रयोदश्याः परविद्धत्वं कृष्णपक्षाभिप्रायम् । अत एव
निगमः—
षष्ठ्यष्टमी तथा दर्शः कृष्णपक्षे त्रयोदशी ।
एताः परयुताः पूज्याः पराः पूर्वयुतास्तथा ॥
परा अनन्तरा इत्यर्थः । एवञ्च यदुक्तं मार्कण्डेयेन—
शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितो रविः ।
कृष्णपक्षे तिथिर्ग्राह्या यस्यामस्तमितो रविः ॥
इति, तत् शुक्लकृष्णपक्षव्यवस्थया व्यवस्थितचतुर्दश्यादिविषय-
मित्यवगन्तव्यम् । यदपि देवेनोक्तं—
यां तिथिं समनुप्राप्य उदयं याति भास्करः ।
सा तिथिस्सकला ज्ञेया स्नानदानजपादिषु ॥
इति, तत् यासां तिथीनामुत्तरविद्धानामुपादेयत्वमुक्तं तद्विष-
यम् । यदपि तेनैवोक्तं—
यां तिथिं समनुप्राप्य अस्तं याति दिवाकरः ।
सा तिथिस्सकला ज्ञेया दानाध्ययनकर्मसु ॥
इति, तदपि यास्तिथयः पूर्वविद्धास्सत्यो ग्राह्याः तद्विषयम्।
सकला संपूर्णेत्यर्थः । एतच्च उदयव्यापिन्यास्तिथेरल्पत्वेन
तिथ्यन्तरानुष्ठानेऽपि तस्यामेव तिथावनुष्ठितं भवतीति वक्तुम्।
अनेनैवाभिप्रायेण भविष्यत्पुराणेऽपि—
SMRITI CHA.—Vol. V 7