सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 74, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 74

54 स्मृतिचन्द्रिकायां

एकादश्युपवासेन तत्सर्वं विलयं नयेत् ॥

एकादशीसमं किञ्चित्पापत्राणं न विद्यते ।

स्वर्गमोक्षप्रदा ह्येषा राज्यपुत्रप्रसाधिनी ॥

सुकलत्रप्रदा ह्येषा शरीरारोग्यदायिनी ।

न गङ्गा न गया भूप न काशी न च पुष्करम् ॥

न चापि कौरवक्षेत्रं न रेवा न च देविका ।

यमुना चन्द्रभागा च तुल्या न च हरेर्दिनात् ॥

अनायासेन राजेन्द्र प्राप्यते वैष्णवं पदम् ।

चिन्तामणिसमा ह्येषा अथवाऽपि निधेस्समा ॥

सा कल्पपादपमुख्या देवगोरुपमाऽथवा ।

नारदोऽपि-

एकामेकादशीं वाऽपि समुपोष्य जनार्दनम् ।

कामेनापि समभ्यर्च्य संसारान्मुक्तिमाप्नुयात् ॥

प्रसङ्गादथवा दम्भाल्लोभाद्वा त्रिदशाधिप ।

एकादश्यामनश्नन् यः सर्वदुःखाद्विमुच्यते ॥ इति ॥

इति स्मृतिचन्द्रिकायामेकादशीमहिमा.

अथैकादशीनिर्णयः.

तत्र देवलः-

न शङ्खेन पिबेत्तोयं नाश्नीयात्कूर्मसूकरौ ।

एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ॥