स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 70, कुल 474 में से
संदर्भ में पढ़ें50 स्मृतिचन्द्रिकायां
व्रतोपवासनियमे घटिकैका यदा भवेत् ।
सा तिथिसकला ज्ञेया पित्रर्थे चापराह्णिकी ॥
इति । अतोऽन्यत्र कर्मानुष्ठाने तिथिवृद्धिह्रासाभ्यामुपयोग
इति निर्णयः । उक्तं च विष्णुधर्मोत्तरे—
सा तिथिस्तदहोरात्रं यस्यामस्तमितो रविः ।
तदा कर्माणि कुर्वीत ह्रासवृद्धी न कारणम् ॥
इति । यदा तु नोत्तरेद्युः उदयव्यापिनी किंतु पूर्वेद्युः नि-
षिद्धतिथिविद्धैव, तदा स्मृत्यन्तरोक्तं—
एकादशी तृतीया च षष्ठी चैव त्रयोदशी ।
पूर्वविद्धा तु कर्तव्या यदि न स्यात्परेऽहनि ॥
इति । एवञ्च यदुक्तं—
वर्धमानस्य पक्षस्य उदयात्पूज्यते तिथिः ।
यदा पक्षः क्षयं याति तदा स्यादापराह्णिकी ॥
इति, तत्र पक्षक्षये प्रायेण परेद्युरुदयव्यापिन्या असंभावात्पू-
र्वविद्धैव परिग्राह्येति पूर्ववचनेन समानार्थम् । अत्र विशेष-
माह ऋश्यशृङ्गः—
अविद्धानि निषिद्धैश्च न लभ्यन्ते दिनानि तु ।
मुहूर्तैः पञ्चभिर्विद्धा ग्राह्यैवैकादशी तिथिः ॥
तदर्धविद्धान्यन्यानि दिनान्युपवसेन्नरः ।
इति । निषिद्धैर्दिनैरविद्धानि दिनानि यदि न लभ्यन्ते तदो-