स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 65, कुल 474 में से
संदर्भ में पढ़ें[Page Header]
श्राद्धकाण्डे तिथिद्वैधनिर्णयः ४५
त्वपराह्ने रात्रौ वा पर्वसन्धिः तदा तदहरेव यागः, तत्रै-
वोपदिष्टकालसम्भवात् । एतत्सर्वमभिसन्धायोक्तम्—
आवर्तनात्प्राग्यदि पर्वसन्धिः
कृत्वा तु तस्मिन् प्रकृतिं विकृत्याः ।
तदैव यागः परतो यदि स्यात्
तस्मिन्विकृत्याः प्रकृतेश्च एव ॥
इति । एवं पशावपि द्रष्टव्यम् । अत एव तत्राप्युक्तम्—
अवागह्नो भवति नियतः पर्वसन्धिः पुरस्तात्
कृत्वा तस्मिन्नहनि तु पशून् सद्य एव द्वयहं वा ।
आरभ्याथ प्रकृतिरथ चेत्पर्वसन्धिः परस्तात्
कृत्वा तस्मिन्प्रकृतिमथ तु स्यात्पशुस्सद्य एव ॥
इति । पूर्वाह्नसन्धावुत्तरेद्युर्विहितकालासम्भवात्सद्य एवेत्युक्तम् ।
उपदेशस्तत्रापि द्वयहकालतामाह । तन्न यष्टव्यमित्यादिवचनावि-
रुद्धमित्युपेक्षणीयमेव ॥
इति स्मृतिचन्द्रिकायां पर्वनिर्णयः.
अथ प्रसङ्गात्तिथिद्वैधनिर्णयः.
तत्र स्कन्दपुराणं—
प्रतिपत्प्रभृतयस्सर्वा उदयादोदयाद्रवेः ।
सम्पूर्णा इति विख्याता हरिवासरवर्जिताः ॥