स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
श्राद्धकाण्ड यथाशक्तिपार्वणानुष्ठानाविधिः 419
'आमश्राद्धं तु पूर्वाह्ने' इति शातातपस्मरणात् । यत्तु तेनै-
वोक्तं—
मध्याह्नात्परतो यत्तु कुतपस्समुदाहृतः ।
आममात्रेण तत्रैव पितॄणां दत्तमक्षयम् ॥
इति, तत् श्राद्धकर्तुः आमश्राद्धविषयमित्यपरार्केण साधितम् ।
आमद्रव्यासंभवे तु व्यासेनोक्तं—
द्रव्याभावे द्विजाभावे प्रवासे पुत्रजन्मनि ।
हेमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला ॥
अत्राप्यामश्राद्धविशेषो यथासम्भवमनुसन्धेयः । आमश्राद्धे
हेमश्राद्धे च भोजनप्रयुक्तापोशनकर्मादीनां 'यथासुखं जुष-
ध्वं तृप्तास्स्थ' इत्यादीनां च द्वारकार्यलोपान्निवृत्तिरवगन्त-
व्या । केषु चिन्मन्त्रेषूहोप्येवमवगन्तव्यः । तथाच मरीचिः—
आवाहने स्वधाकारे मन्त्रा ऊह्या विसर्जने ।
अन्नकर्मण्यनूह्यास्स्युरामश्राद्धविधिः स्मृतः ॥
आवाहने आवाहनमन्त्रे । 'पितॄन् हविषे अत्तवे' इत्यत्र
अत्तव इति पदस्थाने स्वीकर्तव्य इत्यूहः कार्यः । स्वधाकारे
'नमो वः पितर इषे' इत्यादिमन्त्रे इष इति पदस्थाने आम
द्रव्यायेत्यूहः कर्तव्यः । विसर्जने विप्रविसर्जनमन्त्रे 'वाजे-
वाजे' इत्यादिके तृप्ता इति पदस्थाने उहृत्य आमेन
तर्पयन्त इत्यूहः कार्यः । अन्नकर्मणि ब्राह्मणाङ्गुष्ठनिवेशनादौ
'विष्णो हव्यं रक्षस्व' इत्यादयो मन्त्रा अनूह्यास्स्युः ।
420
आमश्राद्धविधिस्स्मृतः इत्यामश्राद्धग्रहणं हेमश्राद्धोपलक्षणार्थम् ।
हेमद्रव्यालाभेऽपि स्मृत्यन्तरोक्तं—
तृणानि वा गवे दद्यात्पिण्डान्वाऽथापि निर्वपेत् ।
तिलोदकैः पितॄन्वाऽथ तर्पयेत्स्नानपूर्वकम् ॥
अग्निना वादहेत्कक्षं श्राद्धकाले समागते ।
तस्मिंश्चोपवसेदह्नि जपेद्वा श्राद्धसंहिताम् ॥
इति । अत्रापि यथासम्भवं व्यवस्था । अङ्गसम्पादनास-
म्भवेऽपि स्मृत्यन्तरोक्तं—
अङ्गानि पितृयज्ञस्य यदा कर्तुं न शक्नुयात् ।
स तदा वाचयेद्विप्रान् सकला सिद्धिरस्त्विति ॥
पितृयज्ञस्य श्राद्धस्य सकला सिद्धिः सकलाङ्गसिद्धिरस्त्विति
भवन्तो ब्रुवन्तु इति प्रार्थनेति । निमन्त्रितान् विप्रान् स-
कलाङ्गसिद्धिरस्य श्राद्धस्यास्त्विति वाचयेदित्यर्थः—विस्मृत *
पार्वणानुष्ठानासम्भवे तु व्यासेनोक्तं—
सक्ताग्नेः पार्वणं नैव नैकोद्दिष्टं सपिण्डनम् ।
अत्यक्ताग्नेस्तु पिण्डोक्तिस्तस्मात्सङ्कल्प्य भोजयेत् ॥
अयमर्थः—त्यक्ताग्नेरविधिनोत्सृष्टाग्नेः पार्वणैकोद्दिष्टसपिण्डीक-
रणात्मकश्राद्धकर्मणि नैवाधिकारः । पिण्डोक्तिः श्राद्धं क-
र्त्तव्यमित्युक्तिः असक्ताग्नेः त्यक्ताग्निव्यतिरिक्तस्यैव अस-
- विस्तृत.
श्राद्धकाण्ड 421
क्ताग्नेरेव श्राद्धाधिकार इति यावत् । तस्मात्त्यक्ताग्निरेव सङ्क-
ल्प्य भोजयेत् । सङ्कल्पविधानेन श्राद्धं कुर्यादिति ॥
सङ्कल्पविधानस्य पार्वणविधानात्को भेद इत्यपेक्षिते स
एवाह—
सङ्कल्पं तु यदा कुर्यान्न कुर्यात्पात्रपूरणम् ।
नावाहिनाग्नौकरणं पिण्डांश्चैव न दापयेत् ॥
पात्रपूरणमर्घ्यदानम् । आवाहनस्य समन्त्रकस्य निषेधः, न-
त्वावाहनमात्रस्य * तदभावे देवपितृसान्निध्याभावात् । ततश्चा-
वाहनमन्त्रमनुक्त्वैव पुरूरवार्द्रवसंज्ञकान् विश्वान् देवान्
आवाहयामीत्येतावन्मात्रमुक्त्वा देवावाहनं कार्यम् । पित्रा-
द्यावाहनेऽप्येवमेव । पिण्डांश्चैवेत्यत्र चैवशब्देन उच्छिष्टपिण्ड-
स्यापि निषेधः । अत एव स्मृत्यन्तरे—
सङ्कल्पं तु यदा श्राद्धं न कुर्यात्पात्रपूरणम् ।
विकिरं च न दातव्यम्
इति स्पष्टमुक्तम् ।
एवमनुकल्पानुष्ठानेऽपि शाठ्याभावे सति मुख्यकल्पानुष्ठान-
फलं भवति । तथा च स्मृत्यन्तरं—
श्राद्धानुकल्पं यः कुर्याज्जात्यवस्थाद्यपेक्षया ।
श्राद्धांशे सर्वमाप्नोति मुख्यकल्पफलं नरः ॥
इति । श्राद्धांशे श्राद्धप्रधानांशे ब्राह्मणभोजनमात्रे पिण्डप्रदा-
- स्वरूपस्य.
'नमात्रेऽपि वा कृते, अङ्गांशे यथाशक्ति कतिपयानुष्ठानेऽपि कृत
इत्यर्थः ॥
इति स्मृतिचन्द्रिकायां यथाशक्तिपार्वणानुष्ठानविधिः.
एवं प्रतिमासं कर्तव्यं पार्वणश्राद्धमुक्तम्.
अथ प्रतिसंवत्सरं कर्तव्यं सांवत्सरिकश्राद्धमुच्यते । अत्र
लोकाक्षिः—
श्राद्धं कुर्यादवश्यं तु प्रमीतपितृकस्स्वयम् ।
इन्दुक्षये मासिमासि वृद्धौ प्रत्यब्दमेव च ॥
स्वयंग्रहणमादरार्थं न पुनः पुत्रशिष्यर्त्विगादिनिवृत्त्यर्थम् ।
यजमानस्य पितः असावेतत्ते तत इत्यन्यकर्तृकपिण्डनिर्व-
पणदर्शनात् । असावेतत्ते तत इति मन्त्रेण यजमानस्य पित्रे
ऋत्विगादिः पिण्डान् दद्यादिति । तत्रामुकगोत्रामुकशर्मन्ने-
तत्ते तत इति मन्त्रमुक्त्वाऽमुकगोत्रायामुकशर्मणे यजमानस्य
पित्रे असावेतत्ते, इत्ययं पिण्डो न यजमानयजमानस्य ।
स्मृत्यन्तरे यजमानस्येत्युक्त्वा बर्हिषि पिण्डस्थापनमिति वि-
शेषोऽवगन्तव्यः । एतच्चान्यकर्तृकत्वं यजमानस्यासामर्थ्ये
गुरुतरकार्यान्तरव्यग्रत्वेन कालातिपत्तिविषये वा द्रष्टव्यम् । प्र-
त्यब्दं श्राद्धं कथं कर्तव्यमित्यपेक्षिते जातूकर्णः—
पितुः पितृगणस्थस्य कुर्यात्पार्वणवत्सुतः ।
प्रत्यब्दं प्रतिमासं च विधिर्ज्ञेयस्सनातनः ॥
वत्सारकश्राद्ध
पितृगणस्थः सपिण्डितः तस्य प्रत्यब्दं प्रतिमासं च पार्वण-
वदाब्दिकं मासिकं च श्राद्धं सुतो मृताहे कुर्यादित्यर्थः ।
एतदुक्तं भवति—यथा अमावास्याश्राद्धे अर्घ्यदानादौ पितृ-
पितामहप्रपितामहानां त्रयाणामुद्देशः तथा पितुराब्दिकश्रा-
द्धेऽपि त्रयाणामुद्देशः कार्यः । इति ।
दर्शवत्स्यात् त्रयोद्देशः सपिण्डीकरणे कृते । इति । प्रति-
मासं चेति तावत्—
'तान्येवतु पुनः कुर्यात्' इति वचनात् सपिण्डीकरणा-
दूर्ध्वमपि प्रथमसंवत्सरे क्रियमाणानुमासिकेषु पार्वणवत्त्रिदे-
वताकं कुर्यादिति विधानार्थमुक्तमिति मन्तव्यम् । न च वाच्यं-
पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् ।
इति वचनात्पितृमृतामहे मातामहादीनामपि श्राद्धं कार्यमिति ।
यदाह पारस्करः—
पितुर्गतस्य देवत्वमौरसस्य त्रिपूरुषम् ।
इति । देवत्वं गतस्य सपिण्डीकरणेन पितृत्वं प्राप्तस्य ।
त्रिपूरुषग्रहणं षट्पुरुषनिवृत्त्यर्थं । तेन मृताहे मातामहश्राद्धं
न कार्यम् । कात्यायनोपि—
कर्षूसमन्वितं मुक्त्वा . तदाद्यं श्राद्धषोडशम् ।
प्रत्याब्दिकमशेषेषु* पिण्डास्स्युषदिति स्थितिः ॥
इति । कर्षूसमन्वितं सपिण्डीकरणम् । अनेनार्थात्कर्षूसमन्वि-
- प्रत्याब्दिकं च शेषेषु.
तादिषु मातामहश्राद्धं न विद्यत इत्युक्तम् । सङ्ग्रहकारस्तु—
पितृमृताहे मातामहादिश्राद्धं न कार्यमिति न्यायेनैवोपपा-
दयति—
याज्ञवल्क्येन कालस्तु अमावास्यादिनोदितः ।
अविशेषेण पित्र्यस्य तथा मातामहस्य च ॥
युगपच्च स विज्ञेयो वचनाद्वक्ष्यमाणकात् ।
कालभेदेन तन्त्रं स्याद्देशभेदेन चैव हि ॥
तस्मात्तन्त्रविधानात्तु यौगपद्यं प्रतीयते ।
अमावास्यादिकालेषु तद्ज्ञेयं न मृतेऽहनि ॥
अमावास्यादिकालेषु कालैकत्वात्सहक्रिया ।
मृताहनि तु तद्भेदान्न युज्येत सहक्रिया ॥ इति ॥
प्रथमश्लोकस्यायमर्थः—अमावास्यादिना
‘अमावास्याऽष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम्’
इत्यादिवचनेन श्राद्धकालः अविशेषेण सामान्येन पित्र्यस्य
पितृश्राद्धस्य मातामहसम्बन्धिश्राद्धस्य च याज्ञवल्क्येनोदित
इति ।
युगपच्च स विज्ञेय इति पादस्यायमर्थः—स याज्ञवल्क्येनो-
दितः कालः पिण्डपितृयज्ञदर्शश्राद्धयोरिव न भागक्रमेण ।
किन्तु पितृश्राद्धमातामहश्राद्धयोर्युपदेकदा भागक्रममन्तरेणैव
ज्ञेय इति । ननु—कालविधायके पूर्वोक्तवचने युगपदादि-
पदाभावात्कथमेवमवगतिरित्याशङ्क्योक्तम्—वचनाद्वक्ष्यमाणका
425
दिति । तस्यायमर्थः—यद्यपि न कालविधायकात्पूर्वोक्तवचना-
देवमवगतिः तथाऽपि—
मातामहानामप्येवं तन्त्रं वा वैश्वदैविकम् ।
इत्यस्मिन्नेव श्राद्धप्रकरणे वक्ष्यमाणाद्वचनादेवमवगतिर्भविष्यती-
ति । नन्वस्मादपि वचनात्कथं यौगपद्यावगतिरित्याशङ्क्य काल-
भेदेनेत्यादिना समर्थयते स्पष्टार्थोऽयं श्लोक इति । एवञ्च—यत्र
पैतृकस्य मातामहश्राद्धस्य चामावास्यादिकाले यौगपद्यं प्रतीत॑
तत्रैवानयोः समानतन्त्रत्वं न पुनर्मृताह इत्याह—
अमावास्यादिकालेषु तत् ज्ञेयं न मृतेऽहनि ।
इति । मृतेऽहनि यौगपद्यस्याप्रतीतेरित्यभिप्रायः । कथं पुन-
र्यौगपद्यस्याप्रतीतिर्मृताह इत्याशङ्क्याह—अमावास्यादिकाले-
ष्वित्यादि । तस्यायमर्थः—अमावास्यादिकालेषु पैतृकमातामह-
श्राद्धयोरविशेषेण प्राप्तयोः कालैकत्वादेकस्मिन्नेव कालभागे
कर्तव्यत्वावगमात्समानतन्त्रता युज्यते । मृताहे तु प्रतिपुरु-
षमायुःप्रमाणभेदात्पितृमातामहयोर्भिन्नकालत्वान्मातामहश्राद्धस्य
पितृमृताहो न काल इति, तदङ्गरूपकालैक्यस्य दूरोत्सारितत्वा-
त्तन्निबन्धनानयोस्समानतन्त्रताऽत्यन्तं न युज्यत इति । अनेनैव
न्यायेन मात्रादिश्राद्धस्यापि पितृमृताहो न काल इति, तत्र
तस्य प्राप्त्यभावात् । पितृमृताहे केवलपितृपितामहप्रपितामहा-
नामेव देवतात्वं, न पुनस्सपत्नीकानामिति मन्तव्यम्। यद्यप्यनेनैव
न्यायेन पितृमृताहः पितामहश्राद्धस्यापि न कालः, मातृमृताहश्च
SMRITI CHA.—Vol V. 54
पितामह्यादिश्राद्धस्य न कालः, तथाऽपि पार्वणवदिति वचनात्
पितामहप्रपितामहयोरपि पितृमृताहे, पितामहीप्रपितामह्योरपि
मातृमृताहे देवतात्वं न तु न्यायत इति सर्वमनवद्यम् । यदा पितु-
स्सांवत्सरिकश्राद्धकालः, मातुस्सांवत्सरिकश्राद्धकालश्च दैवा-
देको जातः तदाऽपि न सपत्नीकं पितृसांवत्सरिकश्राद्धम् ।
किन्तु, मातापित्रोर्मरणपौर्वापर्यानुसारिक्रमेण तयोः सांवत्सरिक-
श्राद्धद्वयं विप्रनिमन्त्रणादितद्विसर्जनान्तं पृथगेव कार्यम् । यदा
तु मातापित्रोर्युगपन्मरणे पौर्वापर्यमज्ञातं, तदा पूर्वं पितुस्सां-
वत्सरिकं कृत्वा पश्चान्मातुस्सांवत्सरिकश्राद्धं कार्यं पितुर्मुख्य-
त्वात् । एवम्भूतविषये भ्रात्रादिसांवत्सरिकश्राद्धदिनैक्ये श्रा-
द्धमनेकं ज्येष्ठादिक्रमेण पृथगेव कार्यम् । यत्तु प्रचेतसोक्तं—
नैकः श्राद्धद्वयं कुर्यात्समानेऽहनि कुत्रचित् ।
इति, तदेकस्मिन्नेव श्राद्धे पुनःपुनः श्राद्धं न कुर्यादित्येवंपरम् ।
तेन नानानिमित्तकानेकश्राद्धमेकस्मिन्नहनि कुर्वतो न प्रचेतसो
वचनविरोधः । यत्तु लौकाक्षिणोक्तं—
मृतेऽहनि समासेन पिण्डनिर्वपणं पृथक् ।
नवश्राद्धं च दम्पत्योरन्वारोहण एव तु ॥
इति, अनेनापि न मृताहे सपत्नीकं श्राद्धमुक्तं* येन पूर्वोक्तविरोध
स्यात् । किं तर्ह्यनेनोक्तं ? उच्यते-दम्पत्योर्मृताहैक्ये समासेन सं-
क्षेपेण पिण्डनिर्वपणं यथा द्वैपितृकश्राद्धे एकस्मिन्पिण्डे द्वयोः पि-
- पिण्डमुक्तं.
त्रोरमुकनाम्ने अमुकनाम्ने च इत्युद्दिश्यैक एव पिण्डो दीयते
तथेहाप्येकस्मिन् पिण्डे द्वयोर्मातापित्रोरमुकायामुकायै चेत्युद्देशं
कृत्वा एक एव पिण्डो देयः । ब्राह्मणाश्चायुग्माः पिण्डदा-
नवदेव द्वावेवोद्दिश्य भोजयितव्याः । पिण्डनिर्वपणग्रहणस्य
श्राद्धोपलक्षणपरत्वात् । एवं चैतच्छ्राद्धमनेकोद्देश्यसाहित्यरूप*
चोदनालिङ्गात्पार्वणधर्मकं तन्त्रेण कार्यम् । नवश्राद्धं तु
दम्पत्योः पृथक्कार्यम् । ततश्चैकोद्दिष्टरूपं श्राद्धद्वयं प्राग्द्वादशा-
हान्नवश्राद्धदिनेषु पितुर्मातुश्च कार्यम् । एवमुक्तविधं सांवत्स-
रिकश्राद्धं नवश्राद्धं चैकचित्यामन्वारोहणे मात्रा कृते कर्तव्यम् ।
नान्यत्रेत्यवधारयितुमन्वारोहण एवेत्युक्तम् । यत्तु स्मृत्यन्तरं—
एकचित्यां समारूढौ दम्पती निधनं गतौ ।
पृथक्श्राद्धं तयोः कुर्यादोदनं च पृथक्पृथक् ॥
इति, ओदनं ओदनपिण्डः तदेतन्नवश्राद्धमात्रविषये योजयेत् ।
प्रत्यब्दं तद्येषामेकोद्दिष्टविधानेनैव मासिकमाब्दिकं च श्राद्धं
मातापित्रोर्मृताहे भेदेनोदितं तद्विषयमिति न पूर्वोक्तसांवत्सारिक-
श्राद्धविशेषेण सहास्यापि विरोधः । यत्पुनर्भृगुणैव—
प्रत्यब्दं च इत्युक्त्वाऽनन्तरमुक्तं नवश्राद्धं युगपत्तु समा
पयेत् । इति, तस्यायमर्थः—
मातापित्रोर्मृताहैक्ये मात्रा चैकचित्यन्वाहरोहणे कृते
सति पितुर्नवश्राद्धं चैककालमेकपाकेन (पाकाभावस्यैव ?) तन्त्रेण
- श्राद्धपर इत्याधिकं.
प्रधानात्पूर्वाङ्गकलापं कृत्वा प्रथमं पित्रे पश्चान्मात्रे च श्राद्धं
कृत्वा पाश्चात्याङ्गकलापं च कृत्वा तन्त्रेण कुर्यादिति । अने-
कमातृभिरेकचितामन्वारोहणे कृतेऽप्येवमेव । पितुरनन्तरं सा-
क्षान्मातुस्तदनन्तरमुपमातृषु ज्येष्ठादिक्रमेण नवश्राद्धं कुर्यात्
तथाच स एव—
एककाले गतासूनां बहूनामथवा द्वयोः ।
तन्त्रेण श्रपणं कृत्वा कुर्याच्छ्राद्धं पृथक्पृथक् ॥
पूर्वकस्य मृतस्यादौ द्वितीयस्य ततः पुनः ।
तृतीयस्य ततः कुर्यात्सन्निपातेष्वयं क्रमः ॥
इति । श्रपणं प्रदेयान्नपाकः पूर्वकस्य मुख्यस्य द्वितीयस्य
मुख्यापेक्षा जघन्यस्य तृतीयस्य जघन्यतरस्येत्यर्थः । भिन्नचि-
तामन्वारोहणे तु सर्वं पृथगेव कार्यम् । एवमुक्तविधिष्वन्यतम-
विधिना यथोक्तव्यवस्थानुसारिणा मृताहश्राद्धमवश्यं कर्तव्यम् ।
तथाच कार्ष्णाजिनिः—
ऊषरेषु यथा क्षिप्तं बीजं न प्रतिरोहति ।
तथाच तद्भवत्तेषां यन्न दत्तं मृतेऽहनि ॥
एतेन मृताहे अन्नमवश्यं दातव्यमित्यभिप्रायः । 'तच्च पार्वणवत्
स्मृतम्' इति जातूकर्णादीनां बहुतराणां पक्षः । 'एकोद्दिष्ट
विधानेन' इति याज्ञवल्क्यादीनां बहूनाम् । अतएव सुमन्तुः—
कर्तव्यं पार्वणं राजन् नैकोद्दिष्टं कथञ्चन ।
सुबहून्यत्र वाक्यानि मुनिगीतानि चक्षते ॥
अल्पेतराणि राजेन्द्र एकोद्दिष्टं प्रचक्षते ।
इति । अत्र पार्वणपक्षे चक्षते प्रचक्षते धर्मशास्त्रज्ञाः । अल्पेत-
राणि बहूनि कतिपयानि वाक्यान्येकोद्दिष्टपक्षं प्रचक्षत इत्यर्थः ।
तेन एकोद्दिष्टपक्षं परित्यज्य पार्वणपक्ष एव परिग्राह्य इत्याह
स एव—
तस्माद्वचनसामर्थ्यात्पार्वणं स्यान्मृतेऽहनि ॥
इति । वचनसामर्थ्याद्बहुतराणां वचनानां सामर्थ्यादित्यर्थः ।
अयमेवार्थो जैमिनिनाऽप्युक्तः—
'विप्रतिषिद्धधर्मसमवाये भूयसां स्यात्सधर्मत्वम्' इति ।
प्रत्यक्षश्रुतिमूलत्वात् जातूकर्ण्यादिवचनान्येव बलवन्ति । प्रत्यक्ष
श्रुतिश्चेयं—'मासिमासि ऋतावृत्तौ हेमन्तग्रीष्मवर्षासु प्रतिसंव-
त्सरे च देवाश्च पितरश्च सहासताम्' इति । प्रतिसंवत्सरे
मृताहे देवाश्च पितरश्च सहासतां विश्वेदेवाः पितृपितामहप्रपि-
तामहाश्च श्राद्धं भोक्तुं सह तिष्ठन्त्वित्यर्थः । अनया श्रुत्या
सदैवं श्राद्धं कार्यं मृताह इत्युक्तम् । तस्मात्सर्वैरेव पार्वणपक्षो
ग्राह्यः । पार्वणविधायकवचनैः एकोद्दिष्टविधायकवचनानां बा-
धितत्वात् । अथवा कतिपयैरेव पार्वणपक्षः परिग्राह्यः ।
तथाच स्मृत्यन्तरम्—
पितुः पितृगणस्थस्य कुर्यातां दर्शवत्सुतौ ।
प्रत्यब्दं प्रतिमासं च विधिज्ञौ क्षेत्रजौरसौ ॥
एकोद्दिष्टवदितरे सुताः कुर्युरिति शेषः । अत एव सुमन्तुः—
430 स्मृतिचन्द्रिकायां
प्रत्यब्दं पार्वणेनैव विधिना क्षेत्रजौरसौ ।
कुर्यातामितरे कुर्युरेकोद्दिष्टं सुता दश ॥
उक्ता चैवं परस्परविरुद्धानां स्मृतीनां विषयभेदेन व्यवस्था—
श्रुतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ ।
स्मृतिद्वैधे तु विषयः कल्पनीयः पृथक्पृथक् ॥
इति जाबालस्मरणात् । एवमेव विषयव्यवस्था मातृमृताहेऽपी-
त्याह कात्यायनः—
प्रत्यब्दं यो यथा कुर्यात्पुत्रः पित्रे सदा द्विजः ।
तथैव मातुः कर्तव्यं पार्वणं वाऽन्यदेव वा ॥
यत्तु तेनैवोक्तम्—
पितृव्यभ्रातृमातृणां एकोद्दिष्टं सदैव तु ।
इति, तत्र मातृशब्दो गौणमुख्यमातृसपत्नीपर इति पितृव्यादि
समाभिव्याहारादवगम्यते । अतो न पूर्वोक्तवचनेन सह विरोधः ।
एतच्च मातृग्रहणं मुख्यमातृव्यतिरिक्तस्त्रीणामुपलक्षणार्थम् । अत
एव विष्णुधर्मोत्तरम्—
प्रतिसंवत्सरं कार्यमेकोद्दिष्टं नरैःस्त्रियाः ।
मृतेऽहनि यथान्यायं नृणां यद्वदिहोदितम् ॥
यद्भूतपुरुषाणां समन्त्रकं श्राद्धं तद्वत् द्विजातिस्त्रीणां कृतवि-
वाहानां समन्त्रकमेव श्राद्धं कार्यम् । इत्यन्त्यपादस्यार्थः । अप-
रिणीतानां तु स्त्रीणां संस्कारहीनत्वादमन्त्रकमेव । स्त्रिया इत्ये
तदपुत्रायाः स्त्रिया इत्यभिप्रायकम् । अत एव गर्गः—
431
अपुत्रा या मृताः काश्चित् स्त्रियो वा पुरुषाश्च ये ।
तेषामपि च देयं स्यादेकोद्दिष्टं न पार्वणम् ॥
इति । स्त्रियः मातुस्सपत्न्यादयः । पुरुषाः पितृव्यादयः । यद्वा—
येनास्य पितरो याताः येन याताः पितामहाः ।
तेन यायात्सतां मार्गं तत्र गच्छन्न रिष्यति ॥
इति स्मृत्यन्तरोक्तपूर्वपुरुषाचारेणैकोद्दिष्टपार्वणपक्षयोरुदितानुदि-
तहोमवत् अन्योन्यनिन्दार्थवादेन सह विहितयोः मातापि-
तॄमृताहश्राद्धविषये व्यवस्था बोद्धव्या । अत्र पैठीनसिः—
विभक्तैस्तु पृथक्कार्यं प्रतिसांवत्सरादिकम् ।
एकेनैवाविभक्तेषु कृते सर्वैस्तु तत्कृतम् ॥
इति स्मृतिचन्द्रिकायां मृताहश्राद्धविधिः.
अथ श्राद्धभेदप्रकरणोक्तपार्वणविक्रान्तभूतनित्यश्राद्धादिविषयाणि
कानिचिद्वचनानि लिख्यन्ते । तत्र पारस्करः—
अहन्यहनि यच्छ्राद्धं तन्नित्यमिति कीर्तितम् ।
वैश्वदेवविहीनं तु अशक्तावुदकेन च ॥
वैश्वदेवविहीनं तु पार्वणधर्मातिदेशतः प्राप्तस्य वैश्वदैविकस्य
कर्मणोऽनुष्ठानेन रहितम् । अनेन नित्यश्राद्धं पार्वणवन्न कार्य-
मिति सूचितम् । अहन्यहनीत्येतदत्यन्तश्रद्धालुविषयं सुसमृद्ध-
विषयं वा । यथाऽऽह देवलः—
432 [स्मृ]तिचन्द्रिकायां
एतेन विधिना श्राद्धं कुर्यात्संवत्सरं सकृत् ।
त्रिश्चतुर्वा यथाश्रद्धं मासेमासे दिनेदिने ॥
इति । एतेन विधिना पार्वणविधानेन प्रतिसंवत्सरमेकवारं
विशिष्टेऽह्नि, प्रतिसंवत्सरं त्रिवारं वा त्रिषु मासेषु विशिष्टेऽह्नि,
प्रतिसंवत्सरं चतुर्वारं चतुर्षु मासेषु विशिष्टेऽह्नि, मासे मासे वा
विशिष्टेऽह्नि, दिनेदिने वा यथाश्रद्धं श्रद्धानुसारेण श्राद्धं
नित्यश्राद्धं कुर्यादित्यर्थः । यथाश्रद्धमित्येतत् यथासामर्थ्यमि-
त्यस्यापि प्रदर्शनार्थम् । शक्त्यपेक्षयाऽपि व्यवस्थाया उचित-
त्वात् । अस्य च नित्यश्राद्धस्य कल्पः अस्माभिराह्निके सम्य-
क्प्रपञ्चित इति नेह प्रपञ्च्यते ॥
नैमित्तिकं तु श्राद्धमेकोद्दिष्टात्मकं पार्वणविकृतिभूतं आशौचका-
ण्डेऽस्माभिर्वक्ष्यते ॥
काम्यश्राद्धं तु शातातपेन निरूपितं—
कामाय तु हितं काम्यमभिप्रेतार्थसिद्धये ।
पार्वणेन विधानेन तदप्युक्तं यथाक्रमम् ॥
इति । तदपि काम्यश्राद्धमपि पार्वणविधानेन प्रतिपदोक्त-
धर्मान्तरसहितं विप्रनिमन्त्रणाद्युक्तक्रमानतिक्रमेण कार्यमिति
मुनिभिरुक्तमित्यर्थः । तेन काम्यश्राद्धं ‘काम्ये तु धुनिरोचनौ’
इति वचनेन प्रतिपदोक्तधुनिरोचनसंज्ञिकविश्वेदेवान्वितं कार्यम् ॥
वृद्धिश्राद्धमपि प्रतिपदोक्तधर्मान्तरसहितं पार्वणवत्कार्यम्।
तथाच विष्णुधर्मोत्तरं—
वृद्धौ श्राद्धं नरः कुर्वन् नित्यं वृद्धिमवाप्नुयात् ।
इत्युक्त्वा,
वृद्धौ समर्चयेद्विद्वान् नित्यं नान्दीमुखान् पितॄन् ।
संपादितो विशेषस्तु शेषं पार्वणवद्भवेत् ॥
इत्युक्तम् । वृद्धौ पुत्रजन्मविवाहाद्यात्मिवृद्धिरूपनिमित्ते प्रस्तुत
इत्यर्थः ।
पुत्रजन्मविवाहादौ वृद्धिश्राद्धमुदाहृतम् ।
इति वसिष्ठस्मरणात् । नरोत्र पिता* विवक्षितः । अत एव
विष्णुपुराणे—
जातस्य जातकर्मादिक्रियाकाण्डमशेषतः ।
पुत्रस्य कुर्वीत पिता श्राद्धं चाभ्युदयात्मकम् ॥
कात्यायनोपि—
स्वपितृभ्यः पिता दद्यात्सुतसंस्कारकर्मसु ।
पिण्डानोद्वहनात्तेषां तस्याभावे तु तत्क्रमात् ॥
अस्यार्थः—सुतसंस्कारकर्मसु जातकर्मादिषु तेषां सुतानां ओ-
द्वहनात् विवाहपर्यन्तेषु पिता स्वपितृभ्यः पिण्डान् दद्यात् ।
वृद्धिश्राद्धं कुर्यादित्यर्थः । तस्याभावे तु पितुरभावे तु तत्क्र-
मात् तेषु जातकर्मादिकर्मसु,
असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः ।
इत्यादिवचनात् यो गम्यमानः कर्तृक्रमः तेन क्रमेण ज्येष्ठभ्रात्रादिः
स्वपितृभ्यो दद्यादिति । समावर्तनस्यापि विवाहात्प्राचीनसुत-
*पित्रादिः
SMRITI CHA.—Vol. V. 55
स्मृतिचन्द्रिकायां
संस्कारत्वाज्जीवत्पितृकसमावर्तने पिता स्वपितृभ्यो दद्यात् ।
अजीवत्पितृकस्तु पूर्वसंस्कृतभ्रात्रसम्भवे स्वयमेव पितृभ्यो द-
द्यात् उपनयनेन कर्माधिकारस्य जातत्वात् । विवाहेऽप्येवमेव
द्रष्टव्यम् ।
वृद्धौ समर्च्चयेद्विद्वान् निशं नान्दीमुखान् पितॄन् ।
इत्यादिविष्णुधर्मोत्तरवचनशेषस्यायमर्थः—वृद्धौ वृद्धिश्राद्धे नान्दी-
मुखसंज्ञिकान् पितॄन् समर्च्चयेत् । सम्पादितो विशेषस्तु नान्दी-
मुखसंज्ञारूपो वैशेषिको धर्मः सम्पादितः प्रतिपादितः । शेषं
पार्वणवद्भवेत् । प्रतिपादितनान्दीमुखसंज्ञारूपवैशेषिकधर्मादन्य-
र्धर्मजातं पार्वणवदिहाप्यवगन्तव्यमिति ।
नचैवं पुरूरवार्द्रवसंज्ञिकरूपो धर्मः पार्वणवत् विश्वेषां
देवानामात्र स्यादिति वाच्यं विष्णुधर्मोत्तरे नान्दीमुखसंज्ञारूप-
वैशेषिकधर्माभिधानस्य स्मृत्यन्तरोक्तवैशेषिकधर्मप्रदर्शनार्थत्वात् ।
तस्मात् ‘सत्यो नान्दीमुखे वसुः’ इत्यादयः स्मृत्यन्तरोक्ताः
विशेषाः वृद्धिश्राद्धे ग्राह्याः । तत्र तावच्छातातपेन केचन
विशेषा उक्ताः—
मातृश्राद्धं तु पूर्वं स्यात्पितॄणां तदनन्तरम् ।
ततो मातामहानां च वृद्धौ श्राद्धत्रयं स्मृतम् ॥
इति । मातामहश्राद्धं पार्वणवत्सपत्नीकमेव । न तु मात्रादि-
श्राद्धवन्मातामहादिश्राद्धं पृथक्कार्यमिति वक्तुं श्राद्धत्रयं स्मृतमि-
त्युक्तम् । न तु मातृश्राद्धमित्यनेन मातुरेव श्राद्धं पृथग्विहितं
न पितामहीप्रपितामह्योरिति वाच्यम्। मातृशब्दस्यात्र लक्षणया
मात्रादिपरत्वात्। अत एवोक्तं तेनैव—
पित्रादित्रयपत्नीनां भोज्या मातुः प्रति द्विजाः।
स्त्रीणामेव तु तद्यस्मान्मातृश्राद्धमिहोच्यते॥
इति। मातुः प्रति द्विजाः भोज्याः। मातृपितामहीप्रपितामही-
रुद्दिश्य भोज्याः द्विजा इत्यर्थः। पित्रादित्रयपत्नीनां स्त्रीणां
इह पृथगेवैतच्छ्राद्धं यस्मात्तस्मान्मातृश्राद्धमित्युच्यत इत्यन्वयः।
उक्तश्राद्धत्रयस्य कालभेदमाह गार्ग्यः—
मातृश्राद्धं तु पूर्वेद्युः कर्माहन्येव पैतृकम्।
मातामहं चोत्तरेद्युर्वृद्धौ श्राद्धत्रयं स्मृतम्॥
एवं दिनत्रयश्राद्धपक्षो यदा दुष्करः तदा त्वाह वृद्धशातातपः—
पृथग्दिने त्वशक्तश्चेदेकस्मिन् पूर्ववासरे।
श्राद्धत्रयं तु कुर्वीत वैश्वदेवं तु तान्त्रिकम्॥
इति। फलदेशकालद्रव्यदेवतासाधारण्यादत्र वैश्वदैविकं तन्त्रे-
णैव कार्यमित्यर्थः। ननु कथमत्र कालसाधारण्यं?
पूर्वाह्ने मातृकं श्राद्धं मध्याह्ने पैतृकं तथा।
ततो मातामहानां तु वृद्धौ श्राद्धत्रयं स्मृतम्॥
इति शातातपेन मातृश्राद्धादिषु पूर्वाह्नादिकालभेदविधानात्।
अतः कथमत्र तन्त्रता? सत्यं शातातपवचनानुसारेणानुष्ठाने का-
लभेदान्न तन्त्रता। किन्तु—
पूर्वाह्णे दैविकं कार्यं अपराह्णे तु पैतृकम् ।
एकोद्दिष्टं तु मध्याह्ने प्रातर्वृद्धिनिमित्तकम् ॥
इति प्राचेतसवचनानुसारेणैकदिने प्रातःकाले यदा श्राद्धत्रया-
नुष्ठानं तदैव वैश्वदैविकं तन्त्रं स्यात् कालैक्यात् । प्रातश्शब्दोत्र
न सङ्गवाख्यकालनिवृत्तिपरः—
पूर्वाह्ने वै भवेद्वृद्धिर्विना जन्मनिमित्तकम् ।
पुत्रजन्मनि कुर्वीत श्राद्धं तात्कालिकं बुधः ॥
इत्यत्रिणाऽभिधानात् । लघुपक्षत्वाद्वैश्वदैविकतन्त्रपक्षेणैव सम्प्र-
त्यनुष्ठानम् । वृद्धशातातपोपि विशेषानाह—
त्रिष्वप्येतेषु युग्मांस्तु ब्राह्मणान्नियतश्शुचिः ।
प्रदक्षिणं तु सव्येन भोजयेद्देवपूर्वकम् ॥
इति । अयमर्थः—द्वौ दैवे ब्राह्मणौ । द्वौ मातृश्राद्धे। द्वौ पितृ-
श्राद्धे। द्वौ सपत्नीकमातामहश्राद्धे एवमष्टावरान् ब्राह्मणान् निम-
न्त्रणादि विसर्जनान्तं सर्वमुपचारजातं प्रदक्षिणं यथा भवति
तथा कुर्वन् सव्येन सव्यांसगतेनैव यज्ञसूत्रेणोत्तरवाससा चान्वितः
श्राद्धकर्ता भोजयेदिति । अत्र विष्णुपुराणोक्तविशेषः—
युग्मांस्तु प्राङ्मुखान्विप्रान् भोजयेन्मनुजेश्वर । इति ।
प्रचेता अपि विशेषमाह—
न जपेत्पैतृकं जप्यं न मांसं तत्र दापयेत् ।
प्राङ्मुखो देवतीर्थेन क्षिप्रं देशविमार्जनम् ॥ इति ।
पैतृकं पितृलिङ्गकं जप्यं भोजनसमयादौ जप्यत्वेन विहितमन्त्र न
437
प्रयोक्तव्यं जपस्यैवात्र निषेधात् । पितृलिङ्गोपि करणमन्त्रः प्रयो-
क्तव्य एव । अतएव स्मृत्यन्तरम्—
पितृलिङ्गेन मन्त्रेण यत्कर्म मुनिभिःस्मृतम् ।
तेनैव तद्विधातव्यं अमन्त्रमकृतं यतः ॥
इति । प्राङ्मुखः कर्ता देवतीर्थेन पैतृकमपि कर्मजातं कुर्यादिति
तृतीयपादस्यार्थः । क्षिप्रं देशादिमार्जनं भुक्तवत्सु द्विजेषु तानि
भोजनस्थानानि संमार्जनं कर्तुं कर्तुः प्राङ्मुखत्वं भोक्तृषूदङ्मु-
खेषु सत्सु कथञ्चिद्दिगाभिमुख्यसम्भवाद्युज्यते । न तु प्राङ्मुखेषु
भोक्तृषु । तेनोदङ्मुखान् ब्राह्मणान् भोजयेदिति पक्षोऽस्माद्व-
चनाद्गम्यत इत्यवगन्तव्यम् । विष्णुपुराणोक्ते तु प्राङ्मुखान् ब्राह्म-
णान् भोजयेदिति पक्षे कथञ्चिद्दिगाभिमुख्यं कर्तुरुदङ्मुखत्वे
सति युज्यते न तु प्राङ्मुखत्व इति कर्तुरुदङ्मुखत्वपक्षस्तद्व-
चनाद्गम्यत इति बोद्धव्यम् । एवं च यदा प्राङ्मुखा विप्रास्तदा
कर्तोदङ्मुख आवाहनादिकं कुर्यात् । यदा तु विप्रा उद-
ङ्मुखाः तदा कर्ता प्राङ्मुख इत्यवगन्तव्यम् । अत एवाश्व-
लायनगृह्यपरिशिष्टम्—‘आभ्युदयिके युग्माः ब्राह्मणाः । अमूला
दर्भाः । प्राङ्मुखेभ्य उदङ्मुखो दद्यात् । उदङ्मुखेभ्यः प्राङ्मुखः ।
द्वौ दर्भौ पवित्रे’ इति । भविष्यत्पुराणेऽपि विशेष उक्तः—
मधुरं भोजनं दद्यान्न चाम्लं परिवेषयेत् ।
रक्तपुष्पं तिलांश्चैव ह्यपसव्यं च वर्जयेत् ॥
पार्वणे जलोद्भवानि रक्तपुष्पाणि विहितानि तदितररक्तपुष्पा-
णि प्रतिषिद्धानि इह जलोद्भव रक्तपुष्पस्यापि प्रतिषेधार्थं रक्त-
पुष्पग्रहणम् । केन तर्हि तिलकार्यं कर्तव्यमित्यपेक्षिते कात्या-
यनः—'यवैस्तिलार्थः' इति ।
तिलार्थस्तिलकार्यं यवैः कर्तव्यमित्यर्थः । एवं 'ति-
लोऽसि सोमदेवत्यः' इति मन्त्रे यवोसीत्यूहः कार्य इत्याह
स एव 'तत्र यवोसीत्यूहः' इति । तत्र तथासति तिल-
कार्यार्थं यवोपादाने सतीत्यर्थः । अन्नत्यागादौ स्वधाशब्दो न
प्रयोक्तव्य इत्याह स एव—'न स्वधां प्रयुञ्जीत' इति ।
एवं 'स्वधा नमः' इत्यत्र स्वधाशब्दस्य स्थाने स्वाहा
इत्येवं प्रयोगः । 'स्वधार्घ्याः' इत्यत्र 'स्वाहार्घ्याः' इत्येवं
प्रयोगः कर्तव्यः ।
सदा परिचरेद्भक्त्या पितॄनप्यत्र देववत् ।
इति तेनैवाभिधानात् । देववदित्यभिधानात्सव्यजानुप्रपतनं
पित्र्येषूपचारेषु न कर्तव्यम् । तथाचोक्तं तेनैव—
निपातो न हि सव्यस्य जानुनो विद्यते क्वचित् ।
इति । एवं च यत्रयत्र पार्वणश्राद्धे दैविकप्रचारादन्यथा पैतृक-
प्रचारः स्मृतः तत्रतत्र वृद्धिश्राद्धे दैविकप्रचार आश्रयणीयः ।
मत्स्यपुराणे विशेष उक्तः—'दद्यादर्घ्यं द्वयोर्द्वयोः' इति ।
अर्घ्यग्रहणं पाद्यादेरपि प्रदर्शनार्थम् । अत एवानन्तरमुक्तं
तत्रैव—