स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 414, कुल 474 में से
संदर्भ में पढ़ेंसारतः निमन्त्रितविप्रगुणानुसारेणेत्यर्थः । एवंचेत्थं दक्षिणा-
दानप्रयोगः—यज्ञोपवीती पुरूरवार्द्रवसंज्ञिकेभ्यो विश्वेभ्यो दे-
वेभ्यो हिरण्यादिदक्षिणां प्रतिपादयामीति संकल्प्य वैश्वदै-
विकब्राह्मणहस्ते समर्पयेत् । ततः प्राचीनावीती पितृपिता-
महप्रपितामहेभ्योऽमुकगोत्रेभ्योऽमुकशर्मभ्यस्सपत्नीकेभ्यः रजता-
दिदक्षिणां प्रतिपादयामीति संकल्प्य पितृवर्गार्थविप्रहस्ते स-
मर्पयेत् । एवं मातामहादिभ्यस्समर्पयेत् । ननु यदि पित्राद्यु-
द्देशेन द्रव्यत्यागः न पुनर्ब्राह्मणोद्देशेन, कथं तर्हि ब्राह्मणानां
दक्षिणाद्रव्ये स्वाम्यम् ? उच्यते—यथा दर्शपूर्णमासयोर्दक्षि-
णादाने 'ब्राह्मणा अयं व ओदनः' इत्युक्त्वा यजमानेन
ओदने समर्पिते ब्राह्मणोद्देशेन ओदनत्यागाभावेऽपि ऋत्विजां
कर्मकरत्वेनैव ओदनस्वाम्यमुत्पद्यते, तथेहापि हिरण्यरजता-
दिसमर्पणे तत्र स्वाम्यं ब्राह्मणानां कर्मकरत्वेनैव सिध्यति।
यथावा-प्रतिष्ठादौ प्रातिष्ठाप्यदेवतायै संकल्पितवस्त्राभरणादिषु
आचार्यस्य स्वाम्यं 'प्रतिष्ठान्ते तु सर्वमुपकरणमाचार्यो गृह्णा-
ति' इति वचनानुगृहीतकर्मकरत्वेनैव भवति तथेहापि 'ब्राह्मणान्
भोजयित्वा तु दद्याच्छक्त्या च दक्षिणाम्' । इत्यनुगृहीतेन
कर्मकरत्वेन ब्राह्मणानां पित्राद्युद्देशेन संकल्पितरजतादौ स्वा-
म्यं संपद्यत इति न कश्चिद्विरोधः । अथवा ब्राह्मणोद्देशेन
त्यागादेवात्रापि ब्राह्मणानां स्वाम्यं भविष्यति—
आचान्तेभ्यो द्विजेभ्यस्तु प्रयच्छेदथ दक्षिणाम् ।