स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 406, कुल 474 में से
संदर्भ में पढ़ेंगृह्यान्तरोक्तविधानतो वा यथास्वगृह्यं पिण्डान् दद्यात् । गृहोक्त-
विधानेऽपि मातामहादीनां पिण्डनिवपनं कार्यं-
पितृमातामहादीनां दद्याद्गृह्यविधानतः ।
इत्येतस्मिन्नेव प्रकरणे बृहस्पतिवचनेन दर्शितत्वात् । तत्रापस्त-
म्बगृह्यविधानतो मातामहादीनां पृथक्पिण्डनिवपनं कार्यं
विकृतेः प्रकृतिवत्कर्तव्यत्वात् । विकृतित्वं च मातामहादिश्राद्ध-
स्य भाष्यार्थसंग्रहकारेणोक्तं-
मातामहादेरप्येवं श्राद्धं कुर्यात्प्रयत्नतः ।
इति । ततश्च तद्गृह्यानुसारिणां एवं मातामहाद्यर्थपिण्डदानप्र-
योगः । मातृवर्गार्थदर्भसंस्तरणं विधाय ततः पश्चाद्भागे मातामह-
वर्गार्थदर्भसंस्तरणं कृत्वा ततः पश्चाद्भागे मातामहीवर्गार्थदर्भसं-
स्तरणं कुर्यात्। मातृवर्गार्थमपो दत्वा मातामहवर्गार्थमपो दद्यात्।
'मार्ज्यन्तां मातामहाः' इत्यादिमन्त्रा ऊह्याः। मातामहवर्गार्थमपो
दत्वा मातामहीवर्गार्थमपो दद्यात् 'मार्ज्यन्तां मातामह्यः' इति
मन्त्रा ऊह्याः। मातृवर्गार्थपिण्डान् दत्वा मातामहवर्गार्थपिण्डान्
दद्यात् 'एतत्ते मातामह अमुकगोत्र अमुकशर्मन् ये च त्वामनु'
इति पिण्डदानमन्त्रा ऊह्याः। मातामहवर्गार्थपिण्डान् दत्वा माताम-
हीवर्गार्थपिण्डान् दद्यात् । एतत्ते मातामहि अमुकगोत्रे अमुक-
नाम्नि याश्च त्वामनु' इति पिण्डदानमन्त्रा ऊह्याः। मातृवर्गार्थपि-
ण्डसमीपे पुनरपो दत्वा मातामहवर्गार्थपिण्डसमीपे पुनरपो
दद्यात् । तदनन्तरं मातामहीवर्गपिण्डसमीपे पुनरपो निनयेत् ।