सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 415, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 415

श्राद्धकाण्डे ब्राह्मणभोजनात्मकप्रधानपाश्चात्याङ्गविषयाणि ३९५

इति । देवलेन द्विजानुद्दिश्य दक्षिणा देयेत्यभिहितम्—
दक्षिणां पितृविप्रेभ्यो दद्यात्पूर्वं ततो द्वयोः ।
इति । द्वयोर्वैश्वदैविकविप्रयोरिति यावत् । द्वयोरिति षष्ठी
पितृविप्रेभ्य इति चतुर्थीसमभिव्याहारात् चतुर्थ्यर्थे द्रष्टव्या ।
एवंचायमर्थः—पूर्वं पितृविप्रेभ्यो दक्षिणां दत्त्वा पश्चाद्वैश्व-
दैविकब्राह्मणाभ्यां दद्यादिति । अस्मिन् पक्षे दक्षिणादान-
स्यापैतृकत्वात् पितृविप्रेभ्योपि यज्ञोपवीत्येव दद्यात् । अत
एव जमदग्निः—
सर्वं कर्मापसव्येन दक्षिणादानवर्जितम् ।
इति । यत्पुनस्तेनोक्तम्—
अपसव्यं तु तत्रापि मत्स्यो भगवान् हि मेने ।
इति, तत् पितृनुद्दिश्य दक्षिणादानपक्षे द्रष्टव्यम् । बृहस्प-
तिस्तु अनिमन्त्रितविप्रेभ्योपि दक्षिणादानमाह—
ज्ञातयो बान्धवा निस्स्वास्तथा वाऽतिथयोऽपरे ।
प्रदद्याद्दक्षिणां तेषां सर्वेषामनुरूपतः ॥ इति ।
ज्ञातयः पितृसंबन्धाः । बान्धवा मातृसंबन्धाः । दक्षिणा-
दानानन्तरं याज्ञवल्क्यः—
दत्त्वा तु दक्षिणां शक्त्या स्वधाकारमुदाहरेत् ।
इति । दक्षिणादानानन्तरं स्वधां वाचयिष्ये इति विप्राननु-
ज्ञापयेदित्यर्थः । अत्रिरपि—
वाचयिष्ये स्वधां प्रश्नमित्थं कुर्याद्द्विजातिषु ।