स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 413, कुल 474 में से
संदर्भ में पढ़ें393
लोके श्रेष्ठतमं यत्तु आत्मनश्चापि यत्प्रियम् ।
सर्वं पितॄणां दातव्यं तेषामेवाक्षयार्थिना ॥
पितॄणां पितृभ्य इत्यर्थः । पितृभ्यो दक्षिणादाने प्रकार-
माह जमदग्निः—
सतिलं नामगोत्रेण दद्याच्छक्त्या च दक्षिणाम् ।
हिरण्यरत्नवासांसि हर्म्याणि शयनानि च ॥
इति । हिरण्यादि द्रव्यं तिलोपेतं पितृभ्यो गोत्रनामसहि-
तेभ्यः प्रतिपादयामीति सङ्कल्प्य पैतृकब्राह्मणानां भुक्तवतां
समर्पयेदित्यर्थः । 'ब्राह्मणान् भोजयित्वा तु दद्याच्छक्त्या
च दक्षिणाम्' इत्युक्तत्वात् । यत्तु वायुपुराणेऽभिहितं—
यद्यदिष्टतमं लोके यच्चान्यद्रिच्यते गृहे ।
तत्तद्गुणवते देयं तद्वैवाक्षयमिच्छता ॥
इति, तत् देवेभ्यः पितृभ्यश्च सङ्कल्पितं दक्षिणाद्रव्यं, न
भक्ष्यभोज्यादिकम् । भक्ष्यभोज्यं तु भोक्तृविप्रेभ्यः समं देयम् ।
दक्षिणादिद्रव्यमपि भोक्तृविप्रगुणानुसारेण विषमं देयमित्ये-
वंपरं, न तु गुणवन्तं ब्राह्मणमुद्दिश्य देयपरमित्यवगन्तव्यम् ।
पारस्करः—
एकपङ्क्त्युपविष्टानां विप्राणां श्राद्धकर्मणि ।
भक्ष्यभोज्यं समं देयं दक्षिणा त्वनुसारतः ॥
इति । समं देयं गुणतारतम्यनिबन्धनवैषम्यं हित्वा देयमित्यर्थः ।
दक्षिणादौ तारतम्यनिबन्धनवैषम्ये कृतेऽपि न दोषः । अनु-
SMRITI CHA.—Vol. V. 50