सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 407, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 407

निनयनमन्त्राणामूहः पूर्ववदेव कार्यः । मातृवर्गार्थपिण्डान्
उपस्थाय पितृवर्गार्थपिण्डोपस्थानमन्त्रैरेव मातामहवर्गार्थापिण्डो-
पस्थानं कार्यम्। ततो मातृवर्गार्थपिण्डोपस्थानमन्त्रैरेव मातामहीव-
गार्थपिण्डोपस्थानं कार्यम्। 'पुत्रान्पौत्रान्' इत्येतयर्चा द्वादशपि-
ण्डानां युगपत्त्रिःप्रसव्यं परिषेचनं कार्यम्, शेषं यजुरावर्तनादि
साधारणतया सकृदेव कार्यम्, 'मार्ज्यन्तां मातामहाः' इत्यूहो
भाष्यार्थसङ्ग्रहकारेण सूचितः—
योज्यः पित्रादिशब्दानां स्थाने मातामहादिकः।
अन्नहोमे तथा स्पर्शे जलपिण्डादिदानके ॥
यन्मे मातामहीत्यादि तत्रोदाहरणं भवेत् ॥
इति। अन्नहोमे 'यन्मे माता प्रलुलोभ चरत्यननुव्रता' इत्यादिभिः
मन्त्रैः अग्नौकरणान्नहोमे । स्पर्शे 'एष ते तत मधुमाग्ँ ऊर्मि-
स्सरस्वान्' इत्यादिभिर्मन्त्रैः ब्राह्मणभोजनार्थान्नस्पर्शे । जलपि-
ण्डादिदानके 'मर्ज्यन्तां पितरः' इत्यादिजलदानमन्त्रे, 'एतत्ते
ततासौ ये च त्वामनु' इत्यादिपिण्डदानमन्त्रे च पित्रादिशब्दानां
स्थाने मातामहादिशब्दो योज्यः प्रयोज्य इत्यर्थः । यन्मे
मातामहीत्यादि तत्रोदाहरणं भवेदित्यस्यायमर्थः—तत्र पित्रादि-
शब्दस्थाने मातामहादिशब्दयोजनम्। 'यन्मे माता प्रलुलोभ चर-
त्यननुव्रता तन्मे रेतः पिता वृङ्क्ताम्' इति मन्त्रेण मातामहार्थ-
मन्नहोमे कर्तव्ये मन्त्रगतमातृपदस्थाने मातामहीपदप्रक्षेपेण यन्मे
मातामहीत्येवं सम्पन्न ऊहः, तथा एतन्मन्त्रगतपितृपदस्थाने