सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 400, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 400

380 स्मृतिचन्द्रिकायां
ततो दक्षिणामुखः सव्यं जान्वाच्य घृतमधुतिलमिश्रमन्नं पू-
र्वप्रकरणोक्तार्द्रामलकाद्यन्यतमप्रमाणकं पिण्डं कृत्वा 'एतत्ते
पितरमुकगोत्रामुकशर्मन् ये च त्वामनु' इत्युक्त्वा पित्रेऽमुकगो-
त्रायामुकशर्मणे वसुरूपाय सपत्नीकायेदमन्नं न ममेत्युक्त्वा प्र-
थमपिण्डस्थाने अवाचीनपाणिना प्रक्षिपेत् । एतत्ते पिताम-
हामुकगोत्रामुकशर्मन् ये च त्वमन्वित्युक्त्वा पितामहायामुकगो-
त्रायामुकशर्मणे प्रजापतिरूपाय सपत्नीकायेदमन्नं न ममेत्युक्त्वा
द्वितीयस्थाने द्वितीयपिण्डं प्रक्षिपेत् । एवमेतत्ते प्रपितामह
अमुकगोत्रामुकशर्मन् ये च त्वामन्वित्युक्त्वा प्रपितामहायामुक-
गोत्रायामुकशर्मणेऽग्निरूपाय सपत्नीकायेदमन्नमित्युक्त्वा तृतीय-
स्थाने तृतीयं पिण्डं प्रक्षिपेत् । एते च पिण्डाः दक्षिणा-
पवगी दक्षिणाप्रागपवर्गा वा बर्हिस्तरणानुसारेण कार्याः ।
ततो द्वितीयरेखायामेवमेव पिण्डस्थानेषु पिण्डान् प्रक्षिपेत् ।
एतत्ते मातामह अमुकगोत्रामुकशर्मन् ये च त्वामनु इत्युक्त्वा
मातामहायामुकगोत्रायामुकशर्मणे वरुणरूपाय सपत्नीकायेदं न
ममेति प्रथमपिण्डे विशेषः । मातुःपितामहमातुःप्रपितामहयोः
प्रजापत्यग्निरूपाभ्यामिदं न ममेति पिण्डान् प्रक्षिपेत् । एते च
पिण्डाः दक्षिणापवर्गाः दक्षिणाप्रागपवर्गा वा बर्हिस्तरणानुसारेण
कार्याः । एवं आश्वलायनमतानुसारेण पिण्डदानमन्त्रा द-
र्शिताः । कात्यायनादिमतानुसारेण पिण्डदानमन्त्राः पूर्वप्रक-
रण एव दर्शिताः । तन्मतानुसारिभिरिहाप्यनुसन्धेयाः । एवं