सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 397, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 397

श्राद्धकाण्डे पिण्डदानविधिः. 377
च नस्सर्ववीरान् नियच्छत" इति । नमो वः पितर इत्या-
दिना मन्त्रेण आश्वलायनपठितेनेति शेषः । आश्वलायनो-
क्तपितृयज्ञकल्पानुसारित्वाद्विष्णुस्मृतेः । मनोऽन्वाहुवामह इति
तृचः अन्ते यस्य नमो वः पितर इत्यादिमन्त्रस्य असौ मनोऽ-
न्वाहुवामह इति तृचान्तः । तेनात्र नमस्काराञ्जलिं बध्वा
उपस्थानं कर्तव्यं, मन्त्रलिङ्गानुगुण्यात् । अत एव नमस्कारा-
ञ्जलिमाश्रित्य नियममात्रमुक्तं ब्रह्माण्डपुराणे--
सव्योत्तराभ्यां पाणिभ्यां वदेन्मन्त्रमिमं सदा ।
नमो वः पितर इष इति सम्यगतन्द्रितः ॥
'नमो वः पितरः' इति सम्यग्वदतः सव्योत्तराभ्यां पा-
णिभ्यां दक्षिणपाणिमुत्तानं कृत्वा तदुपरि सव्यपाणिना
अधोमुखेन नमस्काराञ्जलिं बध्वा 'नमो वः पितर इषे'
इतीदमाश्वलायनोक्तं मन्त्रं वदेदित्यर्थः । पिण्डचालनानन्तरं
'अग्ने तमद्य' इत्येतया ऋचा अग्नौकरणाग्निं प्रतिगच्छेत् ।
'यदन्तरिक्षम्' इत्येतयर्चा गार्हपत्यं प्रतिगच्छेत् ।
तथाच पिण्डपितृयज्ञकल्पे आश्वलायनेनोक्तं-- 'अग्निं प्रत्ये-
यादग्ने तमद्याश्वं न स्तोमैः' इति । गार्हपत्यं 'यदन्तरिक्षं पृथि-
वीमुत द्यां यन्मातरं पितरं वा जिहिꣳसि म अग्निर्मा तस्मा-
देनसो गार्हपत्यः प्र मुञ्चतु दुरिता यानि चकृम करोतु मा-
मनेनसम्' इति । एवमुक्तमुल्लेखनाद्यग्निसमीपगमनान्तं पिण्ड-
दानविधानं मातामहाद्यर्थपिण्डदानेऽप्यवगन्तव्यम्--
Smriti Cha.—Vol. V. 48