स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 398, कुल 474 में से
संदर्भ में पढ़ें378 स्मृतिचन्द्रिकायां
मातामहानामप्येवं दद्यादाचमनं ततः ।
इति याज्ञवल्क्येनोक्तत्वात् । यथा पित्रादीनां विप्रनिमन्त्रणा-
दितद्विसर्जनान्तश्राद्धकल्पः एवं मातामहादीनामपि विप्रनि-
मन्त्रणादि कृत्स्नश्राद्धकल्पो ज्ञेय इत्यर्थः । मातामहादीना-
मप्येवं पित्रादीनामिव पिण्डदानं कुर्यादिति । तथाच मदा-
लसावाक्यं—
तद्वन्मातामहानां च दद्यात्पिण्डान् यथाविधि ।
इति । तद्वत् पितृवदित्यर्थः । यद्यप्यस्मिन् वाक्ये पितृ-
वर्गस्य पिण्डदानविधानमुक्त्वा तद्वदित्यनेन मातामहवर्गस्य
पिण्डदानाभिधानात् पितृवर्गार्थपिण्डदानविधिं समाप्य मा-
तामहवर्गार्थपिण्डदानं भिन्नतन्त्रतया कार्यमिति प्रतिभाति ।
तथाऽपि कृत्स्नश्राद्धानुष्ठानं समानतन्त्रतया वर्गद्वयस्येति ‘तन्त्रं
वा वैश्वदैविकम्’ इत्यत्रैवोक्तत्वात् पिण्डदानमपि समानतन्त्र-
तयैव वर्गद्वयस्य कार्यम् । अत एव पुराणे समानतन्त्रेणानु-
ष्ठानमुक्तं—
उपमूलात् समास्तीर्य दर्भानुच्छिष्टसन्निधौ ।
कृत्वाऽवनेजनं दद्यात्त्रीन् त्रीन् पिण्डान्यथाक्रमम् ॥
उपमूलात् मूलसमीपात् त्रीन् इति वीप्सया वर्गद्वयस्य समान-
तन्त्रेण पिण्डनिर्वपणमित्युक्तम् ॥
इति स्मृतिचन्द्रिकायां पिण्डदानविधिः.