स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 408, कुल 474 में से
संदर्भ में पढ़ेंमातामहपदप्रक्षेपेण तन्मे रेतो मातामहो वृङ्क्तामित्येवं सम्पन्न
ऊहश्चोदाहरणं भवेदिति। नामाज्ञाने पिण्डदानं प्रकृत्य गृह्यान्तरं
'यदि नामानि न विद्यात् स्वधा पितृभ्यः पृथिवीषद्भ्यः इति
प्रथमपिण्डं दद्यात् स्वधा पितृभ्योन्तरिक्षसद्भ्य इति द्वितीयं,
स्वधा पितृभ्यो दिविषद्भ्य इति तृतीयम्' इति। एते मन्त्राः माता-
महाद्यर्थपिण्डदानमन्त्रेऽपि नामाज्ञानविषये प्रयोज्याः। गोत्रा-
ज्ञानेऽप्याह व्याघ्रपात्—'गोत्रनाशे तु कश्यपः' इति।
गोत्राज्ञाने कश्यपगोत्रग्रहणं कर्तव्यम्, कश्यपगोत्रस्य सर्वसाधार-
णत्वात्। तथाच श्रुतिः 'तस्मादाहुस्सर्वाः प्रजाः कश्यपः' इति।
एवं च मातामहादिगोत्राज्ञानेऽपि काश्यपगोत्रग्रहणं कर्तव्यम्॥
इति स्मृतिचन्द्रिकायां पिण्डदानविषयाणि
अथ ब्राह्मणभोजनात्मकप्रधानपाश्चात्याङ्गविषयाणि.
तत्र मत्स्यः—
अथाचान्तेषु चाचम्य वारि दद्यात्सकृत्सकृत्।
इति। ब्राह्मणेष्वाचान्तेषु स्वयमप्याचान्तो भुक्तवद्ब्राह्मणद-
क्षिणहस्तेषु सकृत्सकृदपो दद्यादित्यर्थः। एतत् अनाचान्तेषु
विप्रेषु पिण्डदानपक्षे द्रष्टव्यम्। आचान्तेषु पिण्डदानपक्षे
आचम्य पिण्डं दद्यात्ततो विप्रहस्तेषु सकृत्सकृदपो दद्यात्।
तेषां पवित्रपाणित्वाय दर्भाश्च देयाः, भोजनसमयपवित्राणां
उच्छिष्टत्वेन त्यक्तत्वात्।