स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
इति । दक्षिणासंस्था इत्यस्य न दक्षिणासंस्थापरत्वं, किन्तु
प्राक्संस्थापरत्वमवसेयम् । प्राक्संस्थत्वेऽभिधित्सितेऽपि द
क्षिणासंस्थेत्युक्तिः पित्रर्थब्राह्मणविषयतां द्योतयितुं कृता । अत
एव स्मृत्यन्तरम्—
पश्चार्धात्समुपक्रम्य प्राच्यां निष्ठा यथा भवेत् ।
दक्षिणासंस्थता ह्येषा पितॄणां श्राद्धकर्मणि ॥
इति । निष्ठा समाप्तिः । वैश्वदैविकब्राह्मणांस्तु प्रत्याह बोधा-
यनः— 'प्रदक्षिणं तु दैवानाम्' इति । दैवानां ब्राह्मणानां
प्रदक्षिणं दक्षिणादिक्रमक्रममुदगपवर्गं च यथा भवति तथा
आसीरन्नित्यर्थः । उभयार्थब्राह्मणान् प्रति स्मृत्यन्तरेऽभिहितम्—
पवित्रपाणयस्सर्वे ते च मौनव्रतान्विताः ।
उच्छिष्टोच्छिष्टसंस्पर्शं वर्जयन्तः परस्परम् ॥
इति । ते विप्रास्सर्वे देवार्थाः पित्रर्थाश्च पवित्रपाणयो मौ-
नव्रतान्विताः प्रमादसम्भवं परस्परमुच्छिष्टोच्छिष्टसंस्पर्शं व-
र्जयन्तः आ भोजनसमाप्तेर्वर्तेरन्नित्यर्थः । चशब्दाच्छ्राद्धकर्ताऽपि
मौनव्रतान्त्यस्य कचिद-
पवादमाह यमः—
ब्रह्मोद्याश्च कथाः कुर्युः पितॄणामेतदीप्सितम् ।
इति । पैठीनसिरप्युपवेशनायोयुक्तब्राह्मणान् प्रत्याह—
नानियुक्तोग्रासनं गच्छेत्पङ्क्त्या हरति दुष्कृतम् ।
इति । अत्रास्यतामिति श्राद्धकर्त्रा न नियुक्तो योसावनियुक्तः ।
अग्रासनं प्रथमासनम् । अनुपविष्टदशायामपि परस्परसंस्पर्शो
यथा न भवति तथा वर्तितव्यमित्याह गौतमः—
परस्पर्शे भवेत्पापमेकपङ्क्तिनियोगतः ।
हीनवृत्तादिपङ्कौ तु युक्तं तस्माद्विवेचनम् ॥
इति । अत्र यमः—
भिक्षुको ब्रह्मचारी वा भोजनार्थमुपस्थितः ।
उपविष्टेष्वनुप्राप्तः कामं तमपि भोजयेत् ॥
इति । भिक्षुकोयतिः । तथाच छागलेयः—
पूजयेच्छ्राद्धकालेऽपि यतिं सब्रह्मचारिणम् ।
विप्रानुद्धरते पापात्पितॄन् मातृगणानपि ॥
वृद्धशातातपोपि—
आतिथ्यरहिते श्राद्धे भुञ्जते ये बुधा द्विजाः ।
वृथा तेनान्नपाकेन काकयोनिं व्रजन्ति ते ॥
इति । आतिथ्यरहिते अतिथिलक्षणलक्षितविप्रागमनेऽपि तत्पू-
जारहिते । तस्मादुपविष्टब्राह्मणैस्सह सत्यवकाशे तत्समीपे
भिक्षुको ब्रह्मचारी अतिथिश्च पित्रर्थविप्रानुप्रवेशेनैव भोज-
यितव्यः । तथाच पुराणे निमन्त्रितब्राह्मणभोजनं विधायाभि-
हितम्—
शेषान्वित्तानुसारेण भोजयेदन्यवेश्मनि ।
इति । शेषान् निमन्त्रितव्यतिरिक्तानतिथिप्रभृतीन् । एतच्चाति-
थिभोजनमतिथिलक्षणलक्षिते आगते सति द्रष्टव्यं, न पुनः
‘काकयोनिं व्रजन्ति ते’ इति दोषश्रवणात् कल्पयित्वाऽप्य-
तिथिः कर्तव्यः । यस्त्वतिथिलक्षणहीनो भोजनयाचनादिना
श्राद्धविघ्नं करोति तस्य दोषमाह हारीतः—
चतुर्णां दुष्कृतं हरति ब्राह्मणो विघ्नकारकः ।
अन्नस्यान्नपतेः पङ्क्तेर्भोजनाकाङ्क्षिणां तथा ॥
इति । भोजनाकांक्षिणः कृते श्राद्धे भोजनाकांक्षिणः । श्राद्ध-
कर्तुर्बान्धवा इति यावत् ।
इति स्मृतिचन्द्रिकायां निमन्त्रितब्राह्मणोपवेशनम् .
अथावान्तरसङ्कल्पादिकृत्यम् .
तत्र पुराणम्—
श्राद्धभूमौ गयां ध्यात्वा ध्यात्वा देवं गदाधरम् ।
ताभ्यां चैव नमस्कृत्य ततः श्राद्धं प्रवर्तयेत् ॥
श्राद्धावान्तरसङ्कल्पं कुर्यादित्यर्थः । अत्रावान्तरसङ्कल्पः उप-
विष्टब्राह्मणानुज्ञालाभार्थं, तथाच तत्रैवोक्तम्—
उभौ हस्तौ समौ कृत्वा जानुभ्यामन्तरे स्थितौ ।
समप्रश्रयोपविष्टान् सर्वान् पृच्छेत् द्विजोत्तमान् ॥
नमस्काराञ्जलिकरणादुभौ हस्तौ समौ जान्वोरन्तरे यथा स्थितौ
स्यातां तथा कृत्वा सप्रश्रयः नमस्कारांजलिबन्धनादिविनय
सम्पन्नो निमन्त्रितानुपविष्टान् द्विजोत्तमान् सर्वान् पृच्छेदि-
त्यन्वयः । कथं पृच्छेत्कथं च तैरूत्तरं देयमित्यपेक्षिते तत्रैवोक्तं—
[Page Header]
६ तत्सङ्कल्पादिकृत्यम्. 281
श्राद्धं करिष्ये इत्येवं पृच्छेद्दिप्रान् समाहितः ।
कुरुष्वेति च तैरूक्तो दद्याद्दर्भासनं तदा ॥
इति । दर्भासनदानात्पूर्वं 'देवताभ्यः पितृभ्यश्च' इति मन्त्रः
त्रिरावर्तनीयः । तथाच ब्रह्माण्डपुराणे—
देवताभ्यः पितृभ्यश्च तथा योगिभ्य एव च ।
नमस्स्वधायै स्वाहायै नित्यमेव भवत्विति ॥
आद्यासने तु श्राद्धस्य त्रिरावृत्तं जपेत्सदा ।
पठ्यमानमिदं श्रुत्वा श्राद्धकाल उपस्थिते ॥
पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च ।
चशब्दादसुराः पिशाचाः प्रद्रवन्तीति सूचितम् । राक्षसादी-
नामपनुत्तये कर्तव्यानन्तरमाह निगमः—'अपहता इति तिलान्
विकिरेत्' इति ।
अपहता असुरा रक्षांसि पिशाचा ये क्षयन्ति पृथिवीमनु ।
अन्यत्रेतो गच्छन्तु यत्रैषां गतं मनः ॥
इति मन्त्रलिङ्गादसुरादीनामपहत्यर्थमनेन मन्त्रेण तिलविकिरणं
कर्तव्यमिति गम्यते । श्राद्धे दैवपूर्वकं सर्वमनुष्ठानं राक्षसा
द्यपनुत्तये कर्तव्यमित्याह क्रतुः—
सदैवं भोजयेच्छ्राद्धं तत्पूर्वं च प्रवर्तयेत् ।
अन्यथा ह्यवलुम्पन्ति सदैवासुरराक्षसाः ॥
सदैवं श्राद्धं वैश्वदैविककर्मोपेतम् । सदैव सर्वदैव । मनुरपि—
देवकार्याद्दिजातीनां पितृकार्यं विशिष्यते ।
SMRITI CHA.—VOL. V. 36
दैवं हि पितृकार्यस्य पूर्वमाप्यायनं स्मृतम् ॥
तेषामारक्षभूतं तु दैवं पूर्वं नियोजयेत् ।
रक्षांसि विप्रलुम्पन्ति श्राद्धमारक्षवर्जितम् ॥
इति । देवकार्यात्पितृकार्यं विशिष्यते, देवकार्यस्याङ्गत्वात्पि-
तृकार्यस्य प्रधानत्वादित्यभिप्रायः । पूर्वमाप्यायनं दैवं कर्म
पूर्वानुष्ठेयं पितृकार्यस्योपबृंहकं उपकारि तदङ्गमिति यावत् ।
एवञ्च कुरुष्वेत्यनुज्ञानन्तरं 'देवताभ्यः पितृभ्यश्च' इति मन्त्र-
मुक्त्वा 'अपहताः' इति मन्त्रेण श्राद्धभूमौ तिलान् विकीर्य
प्रथमं वैश्वदैविकब्राह्मणासनार्थं दर्भासनं दद्यादित्यनुष्ठानक्रमो
वेदितव्यः। दर्भासनदानं च ब्राह्मणहस्ते अप आसिच्य कार्यम् ।
पाणिप्रक्षाळनं दत्वा विष्टरार्थान् कुशानपि ।
आवाहयेदनुज्ञातो विश्वे देवास इत्यृचा ॥
इति याज्ञवल्क्यस्मरणात् । विष्टरार्थान् कुशान् आसनार्थान्
कुशान् । यद्यपि पाणिप्रक्षाळनार्थमुदकं ब्राह्मणहस्ते दत्वा
विष्टरार्थान् कुशानपि तत्रैव दत्वा आवाहयेदिति शब्दब-
लात्प्रतिभाति । तथापि विष्टरार्थान् कुशानासने दत्वेति
विष्टरार्थपदसामर्थ्यादर्थः प्रत्येतव्यः । अत एव प्रचेताः—
दर्भांश्चैवासने दद्यान्न तु पाणौ कदाचन ।
इति । यत्तु तेनोक्तम्—
देवानामृजवो दर्भाः प्रदातव्याः पृथक् पृथक् ।
धर्मोऽसीत्यथ मन्त्रेण गृह्णीयुस्ते तु तान् कुशान् ॥
इति । तस्यायमर्थः—पूर्वोपकॢप्तासनेषूपविष्टा आसनान्तरा-
नाकांक्षा अपि धर्मोसीति मन्त्रमुच्चार्य तान् कुशानप्यासनाथँ-
तया मनसा स्वीकुर्युः, न तु पाणिनेति । अतो न पूर्वापर-
विरोधः । देवस्वामिनाऽप्यविरोधार्थमेवमुक्तं—'पाणौ दर्भदान-
प्रतिषेध आसनास्तरणार्थदर्भविषयः, मन्त्रेण ग्रहणविधानसा-
मर्थ्याद्याज्ञवल्क्यवचनाच्च विष्टरार्था दर्भाः पाणावेव देयाः'
इति, तदयुक्तम्—आसनास्तरणार्थदर्भाणामासने प्रक्षेप्याणां
हस्ते दानाप्रसक्तेस्तत्र प्रतिषेधानवकाशात् ,
आसने चासनं दद्याद्वामे वा दक्षिणेऽपि वा ।
इति विष्टरार्थदर्भाणामासने निधानविधायकादिपुराणवचनवि-
रुद्धत्वाच्च । अत्र वाम इति पित्रर्थब्राह्मणासनदानविषयम् ।
दक्षिणं इति देवार्थब्राह्मणासनदानविषयम् । तथाचानन्तर-
मुक्तं तत्रैव—
पितृकर्मणि वामे वै दैवकर्मणि दक्षिणे ।
इति । वामे आसनस्य वामभागे । दक्षिणे दक्षिणभागे ।
दैविककर्मणि यवसहितं दर्भासनं दद्यात्, 'देवानां सयवा
दर्भाः' इति काठकेऽभिधानात् । आसनस्य दक्षिणे भागे पुरूर-
वार्द्रवसंज्ञकानां विश्वेषां देवानामिदमासनमिति दर्भासनं दद्यात् ।
तथा च श्लोकसङ्ग्रहकारः—
अक्षय्यासनयोष्षष्ठी द्वितीयाऽऽवाहने स्मृता ।
अन्नदाने चतुर्थी स्यात् शेषास्सम्बुद्धयस्स्मृताः ॥
इति । दर्भासनदानान्तरं गद्यसङ्ग्रहकारः—'ततः पुनरपो
दत्त्वा दैवे क्षणः क्रियतामिति कर्ता, ओं तथेति विप्रो
ब्रूयात् । प्राप्नोतु भवानिति कर्ता पुनर्ब्रूयात् । प्राप्नवानीति
विप्रः पुनर्ब्रूयादिति । एतत्तु निमन्त्रणं ब्राह्मणहस्तमङ्गुष्ठव्य-
तिरिक्तं गृहीत्वा कर्तव्यं—
निरङ्गुष्ठं गृहीत्वा तु विश्वान् देवान् समाह्वयेत् ।
इति पुराणेऽभिधानात् । निरङ्गुष्ठं गृहीत्वा निमन्त्रणे कृते
सत्यनन्तरं विश्वान् देवान् समाह्वयेदित्यर्थः । आवाहनप्रका-
रमाह यमः—
यवहस्तस्ततो देवान्विज्ञाप्यावाहनं प्रति ।
आवाहयेदनुज्ञातो विश्वेदेवास इत्यृचा ॥
विश्वेदेवाशृणुतेमं मन्त्रं जप्त्वा ततोऽक्षतान् ।
ओषधय इति मन्त्रेण विकिरेत्तु प्रदक्षिणम् ॥
इति । श्राद्धकर्ता गृहीतयवः पुरूरवार्द्रवसंज्ञकान् विश्वान्
देवानावाहयिष्यामीति विशेषनाम्ना सामान्यनाम्ना च देवा-
नामावाहनं वैश्वदेवब्राह्मणेभ्यो विज्ञाप्य तैरावाहयेत्यनुज्ञातो
'विश्वेदेवास आगत' इत्यनया ऋचा विश्वान् देवान्
ब्राह्मणेष्वावाह्य यवान् ब्राह्मणस्य दक्षिणपादे सव्यपादे
दक्षिणजानुनि सव्यजानुनि दक्षिणेऽंसे सव्येऽंसे शिरसि च
समारोप्य ब्राह्मणेषु विश्वान् देवानागतान् ध्यात्वा 'विश्वे
देवाश्शृणुत' इति मन्त्रं जपित्वा प्रदक्षिणं दक्षिणपादादि-
मस्तकान्तं ‘ओषधयः प्रतिमोदध्वम्’ इति मन्त्रेणाक्षतान्
विकिरेत् आरोपयेदित्यर्थः । एवमुक्तो यवाक्षतारोपप्रकारः
प्रचेतसा पुष्पारोपणमुदाहृत्य दर्शितं—
पादप्रभृति मूर्धान्तं देवानां पुष्पपूजनम् ।
इति । अनुज्ञापनानुज्ञानप्रकारः कात्यायनेन सामान्यनाम्ना
दर्शितः ‘विश्वान् देवान् आवाहयिष्यामीति पृच्छत्यावाह-
येत्यनुजानाति’ इति । विशेषनाम्नाऽनुज्ञापनप्रकारस्तु ‘पुरूर-
वार्द्रवसंज्ञकान्’ इत्येवंरूपः स्वयमूह्यः । विशेषनामानि च
बृहस्पतिना दर्शितानि—
क्रतुर्दक्षो वसुस्सत्यः कालः कामस्तथैव च ।
धुरिश्च रोचनश्चैव तथा चैव पुरूरवः ॥
आर्द्रवश्च दशैते तु विश्वे देवाः प्रकीर्तिताः ॥
श्राद्धेषु विभज्येति शेषः । तथाच शङ्खः—
इष्टिश्राद्धे क्रतुर्दक्षः संकीर्त्यौ वैश्वदैविके ।
नान्दीमुखे सत्यवसू काम्ये तु धुरिलोचनौ ॥
पुरूरवार्द्रवौ चैव पार्वणे समुदाहृतौ ।
नैमित्तिके कालकामावेवं सर्वत्र कीर्तयेत् ॥
इति । इष्टिश्राद्धं यागादिकर्माङ्गं, श्रौतस्मार्तकर्मणामाधानसो-
मयागपुंसवनसीमन्तादीनामादौ तदङ्गत्वेनानुष्ठीयमानं श्राद्धमिति
यावत् ।
निषेककाले सोमे च सीमन्तोन्नयने तथा ॥
286 स्मृतिचन्द्रिकायां
ज्ञेयं पुंसवने श्राद्धं कर्माङ्गं वृद्धिवत्कृतम् ॥
इति कर्माङ्गश्राद्धलक्षणमभिदधता पारस्करेणैव वृद्धिवत्कृत-
मित्यभिधानात् कर्माङ्गश्राद्धं वृद्धिश्राद्धादन्यदिति दर्शितम् ।
नान्दीमुखं नान्दीमुखसंज्ञकपितृदेवताकं वृद्धिश्राद्धमिति यावत् ।
एवं प्रदक्षिणीकृत्य वृद्धौ नान्दीमुखान् पितॄन् ।
यजेत.......................................... ॥
इति याज्ञवल्क्येन वृद्धिश्राद्धे नान्दीमुखसंज्ञकपितॄणां देवता-
त्वेन विधानात् । वृद्धिश्राद्धं च वृद्धवसिष्ठेन निरूपितम्—
पुत्रजन्मविवाहादौ वृद्धिश्राद्धमुदाहृतम् ।
इति । पुत्रजन्मविवाहादौ क्रियमाणमाभ्युदयिकं श्राद्धं वृद्धि-
श्राद्धमिति व्यपदिश्यत इत्यर्थः । आदिशब्देन गर्भाधानपुं-
सवनसीमन्तव्यतिरिक्तानामन्नप्राशनचूडाकरणादिसंस्कारकर्मणां
सङ्ग्रहणं, गर्भाधानपुंसवनसीमन्तेषु क्रियमाणाभ्युदयिकश्राद्ध-
स्य कर्माङ्गश्राद्धकोटिप्रविष्टत्वात् । काम्यं फलकामनयाऽनुष्ठेयं
महालयादिश्राद्धम्,
पुत्रानायुस्तथाऽऽरोग्यमैश्वर्यमतुलं तथा।
प्राप्नोति पञ्चमे दत्वा श्राद्धं कामांश्च पुष्कलान् ॥
इति पञ्चमपक्षे कन्यागते सूर्ये महालयाख्यश्राद्धस्य पुत्रा-
दिकाम्यफलसाधकत्वस्मरणात् । पार्वणश्राद्धं सर्वश्राद्धप्रकृति-
भूतममावास्याश्राद्धम् । तथाच शातातपः —
दर्शश्राद्धं तु यत्प्रोक्तं पार्वणं तत्प्रकीर्तितम् ।
श्राद्धकाण्डे अवान्तरसङ्कल्पादिकृत्यम्. २८७
इति ।
एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते ।
इतिवचनान्नैमित्तिकपदेनात्रैकोद्दिष्टश्राद्धमुक्तमिति यद्यपि प्रति-
भाति । तथाऽपि तद्वचनोत्तरार्धे,
तदप्यदैवं कर्तव्यमयुग्मानांशयेद्विजान् ।
इति पूर्वार्धोक्तैकोद्दिष्टश्राद्धे वैश्वदैविकनिषेधेन तत्र कालका-
मसंज्ञया विश्वेषां देवानां निर्देशः कार्य इति विध्यसंभवात्
योगरूढ्या प्रतीयमानमेकोद्दिष्टं हित्वा निमित्ते भवं नैमि-
त्तिकमिति योगमाश्रित्य नैमित्तिकपदेन नवान्नलाभादिनिमित्ते
सति पितृभ्यो भक्त्या क्रियमाणं श्राद्धमुक्तमित्यवगन्तव्यम् ।
अथवा—नैमित्तिकपदेनैकोद्दिष्टाभिधायकेन सपिण्डीकरणं ल-
क्षणया निर्दिश्यते, सपिण्डीकरणे एकोद्दिष्टस्यापि सद्भावात् ।
एवञ्च—सपिण्डीकरणे विश्वेषां देवानां आवाहनार्थं काल-
कामसंज्ञया निर्देशः कार्यः । ‘एवं सर्वत्र कीर्तयेत्’ एवमु-
क्तरीत्या सर्वश्राद्धेषु नामग्रहणस्थाने कीर्तयेदित्यर्थः । आ-
दिपुराणे विशेषनामानि दर्शितानि—
विश्वेदेवौ ऋतुर्दक्षः सर्वास्विष्टिषु कीर्तितौ ।
नित्यं नान्दीमुखश्राद्धे वसुसत्यौ च पैतृके ॥
नवान्नलम्भने देवौ कालकामौ सदैव हि ।
अपि कन्यागते सूर्ये श्राद्धे च धुरिलोचनौ ॥
पुरूरवार्द्रवौ चैव विश्वेदेवौ च पार्वणे ।
288 स्मृतिचन्द्रिकायां
इति । सर्वास्विष्टिषु सर्वेषु कर्माङ्गश्राद्धेषु नवान्नलम्भने पैतृके
नवान्नलाभरूपनिमित्ते सति, नवान्नभोजनोपक्रमात् पूर्वं पितृ-
भक्त्या नवान्नेन क्रियमाणश्राद्धवत्। तच्च निमित्ताधिकारेण क्रि-
यमाणानां विश्वेदेवसमन्वितानां श्राद्धानामुपलक्षणार्थम् । कन्या-
गते सूर्ये श्राद्धे पुत्रादिफलकामनया क्रियमाणमहालयाख्य
इत्यर्थः । एतच्च सर्वकाम्यश्राद्धोपलक्षणतयोक्तम् । पार्वणे
अमावास्यायां क्रियमाणे पार्वणश्राद्धे इति । क्रतुदक्षसत्यादीनां
च दक्षप्रजापतेर्दुहितरि विश्वाख्यायां लोकविश्रुतायामुत्पत्ति-
स्समभूदित्यत्पत्तिमपि ज्ञात्वा आवाहनं कार्यम् । अतएवैषा-
मुत्पत्तिः पुराणेऽभिहिता—
दक्षस्य दुहिता साध्वी विश्वा नाम परिश्रुता ।
तस्याः पुत्रा महात्मानो विश्वे देवा इति श्रुताः ॥
एवमुक्तोत्पत्तिरावाहनसमये ज्ञातव्येत्यभिप्रायः । अतएव क्रतु-
दक्षादिसंज्ञां दक्षदुहितुरुत्पत्तिं च ये न विदुः तेषामनुकल्पमाह
शङ्खः—
नाम चैव तथोत्पत्तिं न विदुर्ये द्विजातयः ।
श्लोकमेतं पठेयुस्ते ब्राह्मणानां समीपगाः ॥
आगच्छन्तु महाभागा विश्वेदेवा महाबलाः ।
ये ह्यत्र विहिताश्श्राद्धे सावधाना भवन्तु ते ॥
इति । आगच्छन्तु महाभागा इति मन्त्रं वैश्वदैविकब्राह्मण-
समीपस्थाः 'विश्वे देवासश्शृणुतेमम्' इति मन्त्रजपानन्तरं जपे-
युरित्यर्थः । तथाच पुराणम्—
श्राद्धकाण्डे अवान्तरसङ्कल्पपाद्यः. 289
तथा मन्त्रं जपेन्मौनी विश्वेदेवास आगत ।
विश्वेदेवाश्शृणुतेति द्वितीयं तदनन्तरम् ॥
तृतीयं तु जपेन्मन्त्रं आगच्छन्त्वित्यतःपरम् ।
इति । विश्वेदेवास इत्यनया ऋचा प्रथममावाह्य तदनन्तरं
विश्वेदेवाश्शृणुतेति मन्त्रं जपेदित्यन्वयः । यद्यपि कर्माङ्गश्रा-
द्धादिषु न क्वापि दश विश्वेदेवा देवतात्वेन स्मृतिपुराणा-
भ्यामभिहिताः, किन्तु द्वौद्वावेकैकस्मिन् श्राद्धे देवतात्वेनोक्तौ ।
तथाप्यावाहनादौ पुरूरवार्द्रवसंज्ञकान् विश्वान् देवानावाहयि-
ष्यामीत्येवं बहुवचनान्ततयैव प्रयोगः कार्यः 'विश्वान्देवाना-
वाहयिष्यामीति निरङ्गुष्ठं गृहीत्वा विश्वान् देवान् समाह्व-
येत्' इत्यादिस्मृतिपुराणेषु बहुवचनान्ततयैव प्रयोगदर्शनात् ।
यथा एकस्मिन् पितरि पितामहे प्रपितामहे वा आवाह-
नादिसर्वोपचारेषु पितरः पितामहाः प्रपितामहा इदं व आ-
सनमित्यादिबहुवचनान्तोपि प्रयोगः पूजार्थं यथा नानुपपन्नः
तथा द्वयोरपि पूजार्थं बहुवचनान्तप्रयोगो युक्त एव । वैश्व-
दैविकब्राह्मणानामनेकत्वेऽपि न प्रतिब्राह्मणमावाहनावृत्तिः, स-
कृदावाहनेनैवानेकब्राह्मणाधिष्ठानदेवताध्याससम्भवात् । आवा-
हनादूर्ध्वं तु प्रतिब्राह्मणं देवताध्यासात् ब्राह्मणभेदे सति
तदुपाधितो देवताया अपि भेदो भवति, तेनावाहनोत्तर-
काले यद्देवताराधनं क्रियते यवारोपणादि सन्निपत्योपका-
रकं तत्पुरोडाशप्रदानादिवत्प्रतिब्राह्मणमावर्तनीयं, सन्निपत्योप-
Smriti Cha.—Vol. V. 37
कारकेष्वावृत्तिं विना ब्राह्मणान्तरे कार्यासद्धेः । विश्वेदे-
वाश्शृणुतेमम्' इति मन्त्रजपस्त्वावाहनाेत्तरकाले क्रियमाणोपि
नावर्तते, सकृज्जपेनैव जपसाध्यादृष्टसिद्धेः ॥
इति स्मृतिचन्द्रिकायां अवान्तरसङ्कल्पादि
वैश्वदैविकावाहनान्तकृत्यम्.
अथ वैश्वदैविकार्चनविधिः.
तत्र याज्ञवल्क्यः—
यवैरन्ववकीर्याथ भाजने सपवित्रके ।
शन्नो देव्या अपः क्षित्त्वा यवोसीति यवांस्तथा ॥
इति । अयमर्थः—वैश्वदैविकब्राह्मणयोः पादाद्यङ्गेषु यवान्
समारोप्य ‘विश्वेदेवाश्शृणुत’ इत्यादिकं जपित्वा अर्घ्यभा-
जने द्वे उत्ताने विधाय तत्रैकैकस्मिन् भाजने द्विदर्भमेकैकं
पवित्रं प्रागग्रमुदग्रं वा निधाय ‘शन्नो देवीरभिष्टये’ इत्यृचा
प्रतिपात्रं जलं निषिच्य.
यवोसि धान्यराज त्वं वारुणो मधुसंयुतः ।
निर्णोदस्सर्वपापानां पवित्रमृषिभिः कृतम् ॥
इति मन्त्रेण यवान् प्रतिपात्रं प्रक्षिपेत् । तथाऽन्यदपि गन्धादिकं
क्षिपेदिति । अत्राद्यपादस्यार्थो मत्स्यपुराणे स्पष्टमुक्तः—
विश्वान् देवान् यवैः पुष्पै्रभ्यर्च्यासनपूर्वकम् ।
पूरयेत्पात्रयुग्मं तु स्थाप्य दर्भपवित्रके ॥ इति ॥
प्रचेतसा त्वन्त्यपादत्रयस्यार्थः स्पष्टमुक्तः—
एकैकस्यापि विप्रस्य अर्घ्यं पात्रे विनिक्षिपेत् ।
यवोसीति यवान् क्षिप्त्वा गन्धपुष्पैस्सुपूजितम् ॥
अर्घ्यमर्घ्यार्थं जलं, तदेकैकस्य विप्रस्य एकैकस्मिन् पात्रे
मन्त्रावृत्त्या विनिक्षिपेत्, तदैव यवान् क्षिप्त्वा गन्धपुष्पैस्सुपू-
जितं कुर्यादित्यर्थः । अर्घ्यपात्रे विशेषमाह कात्यायनः—
‘सौवर्णराजतौदुम्बरखड्गमणिमयानामन्यतमेषु यानि विद्यन्ते
पत्रपुटादिषु वा, इति । औदुम्बरं ताम्रं, खड्गं खड्गमृगमयं,
मणिमयं मरकतादिरत्नमयं, यानि वा कांस्यादितैजसानि
विद्यन्ते तेषु वेति शेषः । बैजवापोपि—
राजतानि प्रशस्तानि पित्र्ये हैमानि दैविके ।
अपि वा ताम्रपात्राणि दैवे पित्र्येऽर्घ्यकर्मणि ॥
उत्तरार्धेऽपि प्रशस्तानीत्यनुषज्यते । राजतानि तु पात्राणि दैवे
निन्दितानि, तथाच राजतं पात्रमधिकृत्य मत्स्येनोक्तम्—
शिवनेत्रोद्भवं यस्मादतस्तत्पितृवल्लभम् ।
अमङ्गळं तद्यत्नेन देवकार्येषु वर्जितम् ॥
शिवनेत्रोद्भवं शिवनेत्रजलप्रभवं, तथाच श्रुतिः—‘सोऽरोदीद्य-
दरोदीत्तद्रुद्रस्य रुद्रत्वं यदश्र्वशीयत तद्रजतं हिरण्यमभवत्’
इति । अमङ्गळं तदित्यत्राश्रुप्रभवत्वादित्यभिप्रायोऽवसेयः । अ-
र्घ्यपात्रान्तर्धायकपवित्रे प्रत्यर्घ्यपात्रं भेदेन कार्ये इति चतु-
विंशतिमतेऽभिहितम्— 'द्वेद्वे शलाके देवानां पात्रे कृत्वा पयः
क्षिपेत्' इति । दर्भादिषु साग्रेषु शलाकाशब्दो वर्तते । द्वेद्वे
इति वीप्सया प्रतिपात्रं द्वेद्वे शलाके निधातव्ये इति दर्शितम् ।
पवित्रकरणप्रकारमाह याज्ञवल्क्यः—
पवित्रे स्थ इति मन्त्रेण द्वे पवित्रे च कारयेत् ।
अनन्तर्गर्भे कुशाच्छिन्ने कौशे प्रादेशसम्मिते ॥
कुशाच्छिन्ने कुशमन्तर्धाय छिन्ने कौशे कुशमये पवित्रे स्थ इति मन्त्रेण
‘पवित्रे स्थो वष्णवी । वायुर्वां मनसा पुनातु’ इति मन्त्रेण । यज्ञ-
पार्श्वोऽपि—
ओषधीमन्तरे कृत्वाङ्गुष्ठाङ्गुळिपर्वणोः ।
छिन्द्यात्प्रादेशमात्रं तु पवित्रं विष्णुदैवतम् ॥
न नखेन न काष्ठेन न लोहेन न मृन्मयात् ।
नखेन तु भवेद्व्याधिः काष्ठेनार्थो न सिध्यति ॥
आयसेन भवेन्मृत्युः मृन्मये कलहो ध्रुवम् ।
इति । गन्धपुष्पैः सुपूजितकरणानन्तरं गार्ग्यः—
स्वाहेति चैव देवानां होमकर्मण्युदाहरेत् ।
होमशब्दोत्र त्यागसद्भावसामान्यादाने वर्तते । ततश्चायमर्थः—
देवानामध्येदानकर्मणि करिष्यमाणतया प्रस्तुते देवेभ्योऽर्घ्यं
निवेदयितुं स्वाहेत्युदाहरेत् । 'स्वाहाऽर्घ्यम्' इत्युच्चार्य विप्र
समीपे अर्घ्यपात्रं स्थापयेदित्यर्थः । स्थापनानन्तरं याज्ञ-
वल्क्यः—
293
या दिव्या इति मन्त्रेण हस्तेष्वर्घ्यं विनिक्षिपेत् ।
इति । ‘या दिव्या आपस्सुहवा भवन्तु’ इति मन्त्रेण मन्त्रान्ते
पुरूरवार्द्रवसंज्ञिका विश्वेदेवा इदं वो अर्घ्यमित्युक्त्वा वैश्वदैविक-
ब्राह्मणस्यैकस्य हस्ते दक्षिणे अर्घ्यपवित्रेणान्तर्हिते एकपात्रस्थ-
मुदकं कृत्स्नं दद्यादित्यर्थः ।
दत्वा हस्ते पवित्रं तु हस्तेष्वर्घ्यं विनिक्षिपेत् ।
इति गार्ग्यस्मरणात् । यद्यप्यत्रोपक्रमोपसंहारगतवचनयोर्विरोधः
प्रतिभाति । तथाऽप्यनुपजातविरोधित्वादुपक्रमानुरोधेनैवोपसं-
हारस्य वर्णनं कार्यमिति न्यायेन बहुवचनमत्र श्लोकसि-
द्ध्यर्थं प्रयुक्तमिति वर्णयितव्यम् । एवञ्च याज्ञवल्क्यवचनेऽपि
‘हस्तेष्वर्घ्यं विनिक्षिपेत्’ इत्यत्र हस्तेष्विति बहुवचनं श्लो-
कसिद्ध्यर्थं कृतं, हस्तस्याधिकरणत्वप्रतिपादनमात्रे तु तात्पर्य-
मिति मन्तव्यम् । ब्राह्मणहस्तेष्वर्घ्यसेचनानन्तरं याज्ञवल्क्यः—
दत्वोदकं गन्धमाल्यं धूपदानं सदीपकम् ।
इति । गन्धमाल्यधूपदीपदानानि प्रत्येकमुदकमादौ दत्वा का-
र्याणीत्यर्थः । तथाच गौतमः—‘भिक्षादानमप्पूर्वं ददातिषु
चैवम्’ इति । आपः पूर्वं दत्ता यस्माद्भिक्षादानात्तदप्पूर्वं, द-
दातिषु भिक्षातो वस्त्वन्तरदानेष्वप्येवमप्पूर्वं दानं कार्यम् ।
वैश्वदैविकदानेषु समर्पणाय प्रयोक्तव्या मन्त्रा ब्रह्मपुराणे
दर्शिताः—
इदं वः पाद्यमर्घ्यं च पुष्पदानविलेपनम् ॥
अयं दीपप्रकाशश्च विश्वेदेवास्समर्प्यते ॥
इति । विश्वेदेवा इदं वः पाद्यं विश्वे देवा इदं वो अर्घ्य इति
नपुंसकलिङ्गनिर्देशेन पाद्यादिकं, विश्वे देवा एष वो धूपः
विश्वे देवा अयं वो दीपप्रकाश इति पुल्लिङ्गनिर्देशेन धूपादिस्स-
मर्प्यते विश्वेभ्यो देवेभ्यस्समर्पणियमित्यर्थः । गन्धदाना-
दावेवं प्रयोगः—ब्राह्मणहस्ते उदकं निनीय पुरूरवार्द्रवसं-
ज्ञका विश्वेदेवा अयं वो गन्ध इति गन्धं ब्राह्मणहस्ते दद्यात् ।
पूर्ववदुदकं निनीय पुरूरवार्द्रवसंज्ञकविश्वेदेवा इदं वो माल्यं
इति माल्यं दद्यात् । पूर्ववदुदकं निनीय पूर्ववत्तेषां नाम गृ-
हीत्वा अयं वो धूप इति धूपार्पणं, पूर्ववदुदकं निनीय देवता-
नामगृहीत्वा अयं वो दीप इति दीपार्पणम्, पुनरापो दत्वा
नाम गृहीत्वा इदं व आच्छादनमिति वस्त्रतन्मूल्ययज्ञोपवीतेषु
यथालाभमेकं दद्यात् । अर्चनं सर्वं सम्पूर्णमस्त्विति कर्ता ब्रू-
यात् । अस्तु सम्पूर्णमिति विप्रो ब्रूयात् । सङ्कल्पसिद्धिरस्त्वि-
ति भवन्तो ब्रुवन्त्विति कर्ता ब्रूयात् । अस्तु सङ्कल्पसिद्धि-
रिति विप्रो ब्रूयात् । आसनादौ सर्वत्र स्वासनं स्वर्घ्यं सुग-
न्धः सुमाल्यं सुधूपः सुदीपः स्वाच्छादनं इति विप्रो ब्रूयात् ।
एतत्सर्वं गद्यसङ्ग्रहकारेणोक्तम् । देवपित्रर्चनार्थं यानि गन्ध-
पुष्पधूपदीपाच्छादनान्युपादेयानि वर्ज्यानि च तानि प्रागुपक-
ल्प्यद्रव्यकथनावसरे कथितानीतीह नोक्तानि । तेनोपकल्प्यद्रव्य-
कथनावसरोक्तानीहोपादेयानि ॥
इति स्मृतिचन्द्रिकायां वैश्वदैविकार्चनविधिः.
यथाप्रोक्ता नियतास्युरुदङ्मुखाः ।
Wait, line 4:
द्विजातयो यथाप्रोक्ता नियतास्युरुदङ्मुखाः ।
Let's check the letters:
द्वि (dvi)
जा (jaa)
त (ta)
यो (yo)
य (ya)
था (thaa)
प्रो (pro)
क्ता (ktaa)
नि (ni)
य (ya)
ता (taa)
स्यु (syu)
रु (ru)
द (da)
ङ्मु (ṅmu)
खाः (khaaḥ) ।
Yes, exactly: "द्विजातयो यथाप्रोक्ता नियतास्युरुदङ्मुखाः ।"
पूजयेद्यजमानस्तु विधिवद्दक्षिणामुखः ॥
Letters:
पू (pū)
ज (ja)
ये (ye)
द्य (dya)
ज (ja)
मा (mā)
न (na)
स्तु (stu)
वि (vi)
धि (dhi)
व (va)
द्द (dda)
क्षि (kṣi)
णा (ṇā)
मु (mu)
खः (khaḥ)
॥ (double danda, wait: it looks like "॥" or "।"?)
In the image: "॥" (two dandas).
याज्ञवल्क्योपि—
Letters:
या (yā)
296 स्मृतिचन्द्रिकायां
द्विगुणान् तिलान्, 'पितॄणां द्विगुणांस्तिलैः' इति स्मर-
णात्। कुशान् त्रिपञ्चादिविषमसङ्ख्याकान् 'पित्र्येऽयुग्मांस्तथैव
च' इति स्मरणात् । दत्वा आसनस्य वामभागे 'प्रदद्या
दासने दर्भान् न तु पाणौ कदाचन । पितृकर्मणि वामे
स्यात्' इति स्मरणात् । आसनदानात् पूर्व पश्चाच्च ब्राह्मण
हस्ते अपामासेचनं कार्यं 'अपः प्रदाय दर्भान् द्विगुणान्
आसनं प्रदायापः प्रदद्यात्' इति शौनकस्मरणात् । 'पितृ-
नावाइयेत्' इत्यत्र पितृशब्देन कर्तुरतीताः पूर्वपुरुषाः पितृ-
पितामहप्रपितामहा उक्ताः, तेषां श्राद्धकर्मणि हविःप्रत्युद्देश्य-
तया देवतात्वेन आवाह्यत्वात् । तथा चापस्तम्बः- 'अथैतन्मनुः
श्राद्धशब्दं कर्म प्रोवाच प्रजानिःश्रेयसाय तत्र पितरो दे-
वता ब्राह्मणस्त्वाहवनीयार्थे' इति । श्राद्धशब्दं कर्म श्राद्ध-
नामधेयं कर्म । प्रजानिःश्रेयसाय पुत्रपौत्रादिसन्ततिश्रेयःप्राप्त्य-
र्थम् । तत्र श्राद्धनामधेये कर्मणि । पितरो देवताः श्राद्धकर्तुः
पितृपितामहप्रपितामहा लोकान्तरगताः सम्प्रदानत्वेन हविः-
प्रत्युद्देश्याः, न तु ब्राह्मणास्संप्रदानत्वेन हविःप्रत्युद्देश्याः ।
किन्त्वाहवनीयार्थे देवतोद्देशेन त्यक्तस्य हविषः प्रक्षेप्यमाणस्य
धारणरूपे आहवनीयकार्ये केवलं वर्तन्त इत्यर्थः । तत्कार्ये
वर्तनं च 'ब्राह्मणस्य हस्ते होतव्यम्' इतिवदत्र वचना-
भावान्न हस्तद्वारा, किंतु-
द्वौ दैवे पितृकृत्ये त्रीनेकैकमुभयत्र वा ।
भोजयेदिति वचनात् त्यक्तान्नप्राशनद्वारेति गम्यते । पितृकृत्ये
यजमानस्य पितृपितामहप्रपितामहानुद्दिश्य त्यक्तान्नभोजनकृत्ये ।
अत एव ब्रह्मपुराणे—
पितॄन् पितामहान् यक्ष्ये भोजनेन यथाक्रमम् ।
प्रपितामहान्वै सर्वांश्च तत्पितॄंश्चानुपूर्वशः ॥
तत्पितॄन् प्रपितामहस्य पितृपितामहप्रपितामहान् । पिण्डदान-
समये हस्तलग्नेन लेपनेन यक्ष्ये इत्यर्थः । बैजवापिनाऽपि
यजमानस्य पितृपितामहप्रपितामहानां श्राद्धदेवतात्वमभिधाय
सुस्पष्टं तेषामेवावाहनमुक्तं—'तिष्ठन् पितॄन् आवाहयिष्ये'
इत्यामन्त्र्य 'उशन्तस्त्वा, इत्यनया यजमानस्य पितरं पिता-
महं प्रपितामहं नामाभिरावाह्य' इति । पुराणेऽपि श्राद्धकर्तुः
पूर्वपुरुषाणामेव श्राद्धदेवतात्वमभिसंधाय सुस्पष्टं तेषामेव
कव्यभागित्वमुक्तं—
या तु पिण्डक्रिया तत्र ब्राह्मणानां तु भोजनम् ।
यजमानस्य पूर्वेषां तत्तु गच्छति नान्यथा ॥
तत्र श्राद्धकर्मणि या पिण्डक्रिया आद्यपिण्डक्रिया पितृ-
सम्बन्धिनी कृता 'ब्राह्मणानां तु भोजनं, यथासुखं जुष-
ध्वम्' इति यद्यदन्नं ब्राह्मणभोजनाय निवेदितं तद्विविध-
मन्नं यजमानस्य पूर्वेषां श्राद्धकर्तुः पितृपितामहप्रपितामहाना-
मुपभोगाय गच्छति नान्यथा नान्येषामुपभोगाय गच्छतीत्यर्थः ।
कथं पुनस्सर्वेषां पुरुषाणां प्रातिस्विकशुभाशुभकर्मवशेन स्व-
SMRITI CHA.—Vol. V 38