स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 300, कुल 474 में से
संदर्भ में पढ़ें‘काकयोनिं व्रजन्ति ते’ इति दोषश्रवणात् कल्पयित्वाऽप्य-
तिथिः कर्तव्यः । यस्त्वतिथिलक्षणहीनो भोजनयाचनादिना
श्राद्धविघ्नं करोति तस्य दोषमाह हारीतः—
चतुर्णां दुष्कृतं हरति ब्राह्मणो विघ्नकारकः ।
अन्नस्यान्नपतेः पङ्क्तेर्भोजनाकाङ्क्षिणां तथा ॥
इति । भोजनाकांक्षिणः कृते श्राद्धे भोजनाकांक्षिणः । श्राद्ध-
कर्तुर्बान्धवा इति यावत् ।
इति स्मृतिचन्द्रिकायां निमन्त्रितब्राह्मणोपवेशनम् .
अथावान्तरसङ्कल्पादिकृत्यम् .
तत्र पुराणम्—
श्राद्धभूमौ गयां ध्यात्वा ध्यात्वा देवं गदाधरम् ।
ताभ्यां चैव नमस्कृत्य ततः श्राद्धं प्रवर्तयेत् ॥
श्राद्धावान्तरसङ्कल्पं कुर्यादित्यर्थः । अत्रावान्तरसङ्कल्पः उप-
विष्टब्राह्मणानुज्ञालाभार्थं, तथाच तत्रैवोक्तम्—
उभौ हस्तौ समौ कृत्वा जानुभ्यामन्तरे स्थितौ ।
समप्रश्रयोपविष्टान् सर्वान् पृच्छेत् द्विजोत्तमान् ॥
नमस्काराञ्जलिकरणादुभौ हस्तौ समौ जान्वोरन्तरे यथा स्थितौ
स्यातां तथा कृत्वा सप्रश्रयः नमस्कारांजलिबन्धनादिविनय
सम्पन्नो निमन्त्रितानुपविष्टान् द्विजोत्तमान् सर्वान् पृच्छेदि-
त्यन्वयः । कथं पृच्छेत्कथं च तैरूत्तरं देयमित्यपेक्षिते तत्रैवोक्तं—